चैतन्यचन्द्रामृतम्

Auto-scrollSpeed 3

Touch the screen or press any key to pause.

Reading settings

Text size
Show
Layout (wide screens)
Line spacing
  1. स्तुमस्तं चैतन्याकृतिमतिविमर्यादपरमा द्भुतौदार्यं वर्यं व्रजपतिकुमारं रसयितुम् । विशुद्धस्वप्रेमोन्मदमधुरपीयुषलहरीं प्रदातुं चान्येभ्यः परपदनवद्वीपप्रकटम् ॥१॥ (१)

  2. सर्वैराम्नायचूडामणिभिरपि न संलक्ष्यते यत्स्वरूपं श्रीशब्रह्माद्य्अगम्या सुमधुरपदवी कापि यस्यास्ति रम्या । येनाकस्य्माज्जगच्छ्रीहरिरसमदिरामत्तमेतद्व्यधायि श्रीमच्चैतन्यचन्द्रः स किमु मम गिरां गोचरश्चेतसो वा ॥२॥ (१३७)

  3. धर्मे निष्ठां दधदनुपमां विष्णुभक्तिं गरिष्ठां संबिभ्राणो दधदहह हृत्तिष्ठतीवाश्मसारम् । नीचो गोघ्रादपि जगदहो प्लावयत्यश्रुपूरैः को वा जानात्यहह गहनं हेअमगौराङ्गरङ्गम् ॥३॥ (१२७)

  4. धर्मास्पृष्टः सततपरमाविष्ट एवात्यधर्मे दृष्टिं प्राप्तो न हि खलु सतां सृष्टिषु क्वापि नो सन् । यद्दत्तश्रीहरिरससुधास्वादमत्तः प्रनृत्य त्युच्चैर्गायत्यथ विलुठति स्तौमि तं कञ्चिदीशम् ॥४॥ (२)

  5. अकस्मादेवाविर्भवति भगवन्नामलहरी परीतानां पापैरपि पुरुभिरेषां तनुभृताम् । अहो वज्रप्रायं हृदपि नवनीतायितमभून् नॄणां यस्मिन् लोकेऽवतरति स गौरो मम गतिः ॥५॥ (११०)

  6. न योगो न ध्यानं न च जपतपस्त्यागनियमा न वेदा नाचारः क्व नु बत निषिद्धाद्य्उपरतिः । अकस्माच्चैतन्येऽवतरति दयासारहृदये पुमर्थानां मौलिं परमिह मुदा लुण्ठति जनः ॥६॥ (१११)

  7. यन्नाप्तं कर्मनिष्ठैर्न च समधिगतं यत्तपोध्यानयोगै र्वैराग्यैस्त्यागतत्त्वस्तुतिभिरपि न यत्तर्कितं चापि कैश्चित् । गोविन्दप्रेमभाजामपि न च कलितं यद्रहस्यं स्वयं तन् नाम्नैव प्रादुरासीदवतरति परे यत्र तं नौमि गौरम् ॥७॥ (३)

  8. धिगस्तु ब्रह्माहं वदनपरिफुल्लान् जडमतीन् क्रियासक्तान् धिग्धिग्विकडतपसो धिक्च यमिनः । किमेतान् शोचामो विषयरसमत्तान्नरपशून् न केषांचिल्लेशोऽप्यहह मिलितो गौरमधुनः ॥८॥ (३२)

  9. बध्नन् प्रेमभरप्रकम्पितकरो ग्रन्थीन् कटीडोरकैः सङ्ख्यातुं निजलोकमङ्गलहरेकृष्णेतिनाम्नां जपन् । अश्रुस्नातमुखः स्वमेव हि जगन्नाथं दिदृक्षुर्गता यातैर्गौरतनुर्विलोचनमुदं तन्वन् हरिः पातु वः ॥९॥ (१६)

  10. पाषाणः परिषोचितोऽमृतरसैर्नैवाङ्कुरः सम्भवेत् लाङ्गूलं सरमापतेर्विवृणतः स्यादस्य नैवार्जवम् । हस्तावुन्नयता बुधाः कथमहो धार्यं विधोर्मण्डलं सर्वं साधनमस्तु गौरकरुणाभावे न भावोत्सवः ॥१०॥ (३६)

  11. सौन्दर्ये कामकोटिः सकलजनसमाह्लादने चन्द्रकोटिर् वात्सल्ये मातृकोटिस्त्रिदशविटपितोऽप्यद्भुतौदार्यकोटिः । गाम्भीर्येऽम्भोधिकोटिर्मधुरमणि सुधाक्षीरमाध्वीककोटिर् गौरो देवः स जीयान् प्रणयरसपदे दर्शिताश्चर्यकोटिः ॥११॥ (१०१)

  12. प्रेमा नामाद्भुतार्थः श्रवणपथगतः कस्य नाम्नां महिम्नः को वेत्ता कस्य वृन्दावनविपिनमहामाधुरीषु प्रवेशः । को वा जानाति राधां परमरसचमत्कारमाधुर्यसीमाम् एकश्चैतन्यचन्द्रः परमकरुणया सर्वमाविश्चकार ॥१२॥ (१३०)

  13. नमश्चैतन्यचन्द्राय कोटिचन्द्राननत्विषे । प्रेमानन्दाब्धिचन्द्राय चारुचन्द्रांशुहासिने ॥१३॥ (८)

  14. यस्यैव पादाम्बुजभक्तिलभ्यः प्रमाभिधानः परमः पुमर्थः । तस्मै जगन्मङ्गलमङ्गलाय चैतन्यचन्द्राय नमो नमस्ते ॥१४॥ (९)

  15. दधन्मूर्धन्यूर्ध्वं मुकुलितकराम्भोजयुगलं गलन्नेत्राम्भोभिः स्नपितमृदुगण्डस्थलयुगम् । दुकूलेनावीतं नवकमलकिञ्जल्करुचिना परं ज्योतिर्गौरं कनकरुचिरचौरं प्रणमत ॥१५॥ (८१)

  16. सिंहस्कन्धं मधुरमधुरं स्मेरगण्डस्थलान्तं दुर्विज्ञेयोज्ज्वलरसमयाश्चर्यनानाविकारम् । बिभ्रत्कान्तिं विकचकनकाम्भोजगर्भाभिरामाम् एकीभूतं वपुरवतु वो राधया माधवस्य ॥१६॥ (१३)

  17. पूर्णप्रेमरसामृताब्धिलहरीलोलाङ्गगौरच्छटा कोट्य्आच्छादितविश्वमीश्वरविधिव्यासादिभिः संस्तुतम् । दुर्लक्ष्यां श्रुतिकोटिभिः प्रकटयन्मूर्तिं जगन्मोहिनीम् आश्चर्यं लवणोदरोधसि परं ब्रह्म स्वयं नृत्यति ॥१७॥ (१३१)

  18. उद्दामदामनकदामगणाभिराम मारामराममविरामगृहीतनामा । कारुण्यधाम कनकोज्ज्वलगौरधाम चैतन्यनाम परमं कलयाम धाम ॥१८॥ (६९)

  19. अवतीर्णे गौरचन्द्रे विस्तीर्णे प्रेमसागरे । सुप्रकाशितरत्नौघे यो दीनो दीन एव सः ॥१९॥ (३४)

  20. श्रवणमननसङ्कीर्त्यादिभक्त्या मुरारेर् यदि परमपुमर्थं साधयेत्कोऽपि भद्रम् । मम तु परमपारप्रेमपीयूषसिन्धोः किमपि रसरहस्यं धाम गौरं नमस्यम् ॥२०॥ (५८)

  21. निष्ठां प्राप्ता व्यवहृतिततिर्लौकिकी वैदिकी या या वा लज्जा प्रहसन्समुद्गाननाट्योत्सवेषु । ये वाभुवन्नहह सहजप्राणदेहार्थधर्मा गौरश्चौरः सकलमहरत्कोऽपि मे तीव्रवीर्यः ॥२१॥ (६०)

  22. महाकर्मस्रोतोनिपतितमपि स्थैर्यमयते महापाषाणेभ्योऽप्यतिकठिनमेति द्रवदशाम् । नटत्यूर्ध्वं निःसाधनमपि महायोगिमनसां भुवि श्रीचैतन्येऽवतरति मनश्चित्रविभवे ॥२२॥ (११२)

  23. स्त्रीपुत्रादिकथां जहुर्विषयिणः शास्त्रप्रवादं बुधा योगीन्द्रा विजहुर्मरुन्नियमजक्लेशं तपस्तापसाः । ज्ञानाभ्यासविधिं जहुश्च यतयश्चैतन्यचन्द्रे पराम् आविष्कुर्वति भक्तियोगपदवीं नैवान्य आसीद्रसः ॥२३॥ (११३)

  24. भ्रान्तं यत्र मुनीश्वरैरपि पुरा यस्मिन् क्षमामण्डले कस्यापि प्रविवेश नैव धिषणा यद्वेद नो वा शुकः । यत्र क्वापि कृपामयेन च निजेऽप्युद्घाटितं शौरिणा तस्मिन्नुज्ज्वलभक्तिवर्त्मनि सुखं खेलन्ति गौरप्रियाः ॥२४॥ (१८)

  25. ईशं भजन्तु पुरुषार्थचतुष्टयाशा दासा भवन्तु च विधाय हरेरुपासाः । किञ्चिद्रहस्यपदलोभितधीरहं तु चैतन्यचन्द्रचरणं शरणं करोमि ॥२५॥ (५९)

  26. अप्यगण्यमहापुण्यमनन्यशरणं हरेः । अनुपासितचैतन्यमधन्यं मन्यते मतिः ॥२६॥ (३१)

  27. भ्रातः कीर्तय नाम गोकुलपतेरुद्दामनामावलीं यद्वा भावय तस्य दिव्यमधुरं रूपं जगन्मोहनम् । हन्त प्रेममहारसोज्ज्वलपदे नाशापि ते सम्भवेत् श्रीचैतन्यमहाप्रभोर्यदि कृपादृष्टिः पतेन्न त्वयि ॥२७॥ (८२)

  28. भूतो वा भवितापि वा भवति वा कस्यापि यः कोऽपि वा सम्बन्धो भगवत्पदाम्बुजरसे नास्मिन् जगन्मण्डले । तत्सर्वं निजभक्तिरूपपरमैश्वर्येण विक्रीडतो गौरस्यैव कृपाविजृम्भिततया जानन्ति निर्मत्सराः ॥२८॥ (२८)

  29. स्वादं स्वादं मधुरिमभरं स्वीयनामावलीनां मादं मादं किमपि विवशीभूतविस्रस्तगात्रः । वारं वारं व्रजपतिगुणान् गाय गायेति जल्पन् गौरो दृष्टः सकृदपि न यैर्दुर्घटा तेषु भक्तिः ॥२९॥ (३८)

  30. अभूद्गेहे गेहे तुमुलहरिसङ्कीर्तनरवो बभौ देहे देहे विपुलपुलकाश्रुव्यतिकरः । अपि स्नेहे स्नेहे परममधुरोत्कर्षपदवी दवीयस्याम्नायादपि जगति गौरेऽवतरति ॥३०॥ (११४)

  31. जाड्यं कर्मसु कुत्रचिज्जपतपोयोगादिकं कुत्रचिद् गोविन्दार्चनविक्रिया क्वचिदपि ज्ञानाभिमानः क्वचित् । श्रीभक्तिः क्वचिदुज्ज्वलापि च हरेर्वाङ्मात्र एव स्थिता हा चैतन्य कुतो गतोऽसि पदवी कुत्रापि ते नेक्ष्यते ॥३१॥ (१३८)

  32. विना बीजं किं नाङ्कुरजननमन्धोऽपि न कथं प्रपश्येन्नो पङ्गुर्गिरिशिखरमारोहति कथम् । यदि श्रीचैतन्ये हरिरसमयाश्चर्यविभवेऽ प्यभक्तानां भावी कथमपि परप्रेमरभसः ॥३२॥ (३९)

  33. अकस्मादेवैतद्भुवनमभितः प्लावितमभून् महाप्रेमाम्भोधेः किमपि रसवन्याभिरखिलम् । अकस्माच्चादृष्टश्रुतचरविकारैरलमभूच् चमत्कारः कृष्णे कनकरुचिराङ्गेऽवतरति ॥३३॥ (११५)

  34. अरे मूढा गूढां विचिनुत हरेर्भक्तिपदवीं दवीयस्या दृष्ट्याप्यपरिचितपूर्वां मुनिवरैः । न विश्रम्भश्चित्ते यदि यदि च दौर्लभ्यमिव तत् परित्यज्याशेषं व्रजत शरणं गौरचरणम् ॥३४॥ (८०)

  35. तावद्ब्रह्मकथा विमुक्तपदवी तावन्न तिक्तीभवेत् तावच्चापि विशृङ्खलत्वमयते नो लोकवेदस्थितिः । तावच्छास्त्रविदां मिथः कलकलो नानाबहिर्वर्त्मसु श्रीचैतन्यपदाम्बुजप्रियजनो यावन्न दिग्गोचरः ॥३५॥ (१९)

  36. सदा रङ्गे नीलाचलशिखरशृङ्गे विलसतो हरेरेव भ्राजन्मुखकमलभृङ्गेक्षणयुगम् । समुत्तुङ्गप्रेमोन्मदरसतरङ्गं मृगदृशाम् अनङ्गं गौराङ्गं स्मरतु गतसङ्गं मम मनः ॥३६॥ (७०)

  37. क्वचित्कृष्णावेशान्नटति बहुभङ्गीमभिनयन् क्वचिद्राधाविष्टो हरि हरि हरीत्यार्तरुदितः । क्वचिद्रिङ्गन् बालः क्वचिदपि च गोपालचरितो जगद्गौरो विस्मापयति बहुभङ्गीमधुरिमा ॥३७॥ (१२८)

  38. अये न कुरु साहसं तव हसन्ति सर्वोद्यमं जनाः परित उन्मदा हरिरसामृतास्वादिनः । इदं तु निभृतं शृणु प्रणयवस्तु प्रस्तूयते यदेव निगमेषु तत्पतिरयं हि गौरः परम् ॥३८॥ (८३)

  39. उद्गृह्णन्ति समस्तशास्त्रमभितो दुर्वारगर्वायिता धन्यंमन्यधियश्च कर्मतपाद्य्उच्चावचेषु स्थिताः । द्वित्राण्येव जपन्ति केचन हरेर्नामानि वामाशयाः पूर्वं सम्प्रति गौरचन्द्र उदिते प्रेमापि साधारणः ॥३९॥ (११६)

  40. पापीयानपि हीनजातिरपि दुःशीलोऽपि दुष्कर्मणां सीमापि श्वपचाधमोऽपि सततं दुर्वासनाढ्योऽपि च । दुर्देशप्रभवोऽपि तत्र विहितावासोऽपि दुःसङ्गतो नष्टोऽप्युद्धृत एव येन कृपया तं गौरमेव स्तुमः ॥४०॥ (७८)

  41. अचैतन्यमिदं विश्वं यदि चैतन्यमीश्वरम् । न विदुः सर्वशास्त्रज्ञा ह्यपि भ्राम्यन्ति ते जनाः ॥४१॥ (३७)

  42. देवे चैतन्यनामन्यवतरति सुरप्रार्थ्यपादाब्जसेवे विष्वद्रीचीः प्रविस्तारयति सुमधुरप्रेमपीयूषवीचीः । को बालः कश्च वृद्धः क इह जडमतिः को बुधः को वराकः सर्वेषामैकरस्यं किमपि हरिपदे भक्तिभाजां बभूव ॥४२॥ (११७)

  43. दत्त्वा यः कमपि प्रसादमथ सम्भाष्य स्मितश्रीमुखं दूरात्स्निग्धदृशा निरीक्ष्य च महाप्रेमोत्सवं यच्छति । येषां हन्त कुतर्ककर्कशधियां तत्रापि नात्यादरः साक्षात्पूर्णरसावतारिणि हरौ दुष्टा अमी केवलम् ॥४३॥ (४५)

  44. काशीवासानपि न गणये किं गयां मार्गयेऽहं मुक्तिः शुक्तीभवति यदि मे कः परार्थप्रसङ्गः । त्रासाभासः स्फुरति न महारौरवेऽपि क्व भीतिः स्त्रीपुत्रादौ यदि कृपयते देवदेवः स गौरः ॥४४॥ (९९)

  45. बेलायां लवणोदधेर्मधुरिमप्राग्भावसारस्फुरल् लीलायां नववल्लवीरसनिधेरावेशयन्ती जगत् । खेलायामपि शैशवे निजरुचा विश्वैकसंमोहिनी मूर्तिः काचन काञ्चनद्रवमयी चित्ताय मे रोचते ॥४५॥ (१२९)

  46. दृष्ट्वा माद्यति नूतनाम्बुदचयं संवीक्ष्य बर्हं भवेद् अत्यन्तं विकलो विलोक्य वलितां गुञ्जावलीं वेपते । दृष्टे श्यामकिशोरकेऽपि चकितं धत्ते चमत्कारिताम् इत्थं गौरतनुः प्रचारितनिजप्रेमा हरिः पातु वः ॥४६॥ (१४)

  47. दुष्कर्मकोटिनिरतस्य दुरन्तघोर दुर्वासनानिगडशृङ्खलितस्य गाढम् । क्लिश्यन्मतेः कुमतिकोटिकदर्थितस्य गौरं विनाद्य मम को भवितेह बन्धुः ॥४७॥ (५१)

  48. हा हन्त चित्तभुवि मे परमोषरायां सद्भक्तिकल्पलतिकाङ्कुरिता कथं स्यात् । हृद्येकमेव परमाशसत्नीयमस्ति चैतन्यनाम कलयन्न कदापि शोच्यः ॥४८॥ (५३)

  49. कृपासिन्धुः सन्ध्यारुणरुचिरचित्राम्बरदरो ज्ज्वलः पूर्णप्रेमामृतमयमहाज्योतिरमलः । शचीगर्भक्षीराब्म्बुधिभव उदाराद्भुतकलः कलानाथः श्रीमानुदयतु मम स्वान्तनभसि ॥४९॥ (१५)

  50. क्व तावद्वैराग्यं क्व च विषयवार्तासु नरके ष्विवोद्वेगः क्वासौ विनयभरमाधुर्यलहरी । क्व तत्तेजो वालौकिकमथ महाभक्तिपदवी क्व सा वा सम्भाव्या यदवकलितं गौरगतिषु ॥५०॥ (२०)

  51. स्वपादाम्भोजैकप्रणयलहरीसाधनभृतां शिवब्रह्मादीनामपि च सुमहाविस्मयभृताम् । महाप्रेमावेशात्किमपि नटनामुन्मद इव प्रभुर्गौरो जीयात्प्रकटपरमाश्चर्यमहिमा ॥५१॥ (१०२)

  52. सर्वे नारदशङ्करादय इहायाताः स्वयं श्रीरपि प्राप्ता देवहलायुधोऽपि मिलितो जाताश्च ते वृष्णयः । भूयः किं व्रजवासिनोऽपि प्रकटा गोपालगोप्यादयः पूर्णप्रेमरसेश्वरेऽवतरति श्रीगौरचन्द्रे भुवि ॥५२॥ (११८)

  53. भृत्याः स्निग्धा अथ सुमधुरप्रोज्ज्वलोदारभाजस् तत्पादाब्जद्वितयसविधे सर्व एवावतीर्णाः । प्रापुः पूर्वाधिकतरमहाप्रेमपीयूषलक्ष्मीं स्वप्रेमाणं वितरति जगत्यद्भुतं हेमगौरे ॥५३॥ (११९)

  54. अलौकिक्या प्रेमोन्मदरसविलासप्रथनया न यः श्रीगोविन्दानुचरसचिवेष्वेषु कृतिषु । महाश्चर्यं प्रेमोत्सवमपि हढाद्दातरि न यन् मतिर्गौरे साक्षात्पर इह स मूढो नरपशुः ॥५४॥ (४०)

  55. असङ्ख्याः श्रुत्य्आदौ भगवद्अवतारा निगदिताः प्रभावं कः सम्भावयतु परमीशादितरतः । किमन्यत्मत्प्रेष्ठे कति कति सतां नाप्यनुभवास् तथापि श्रीगौरे हरि हरि न मूढा हरिधियः ॥५५॥ (४१)

  56. रक्षोदैत्यकुलं हतं कियदिदं योगादिवर्त्मक्रिया मार्गो वा प्रकटीकृतः कियदिदं सृष्ट्य्आदिकं वा कियत् । मेदिन्य्उद्धरणादिकं कियदिदं प्रेमोज्ज्वलाया महा भक्तेर्वर्त्मकरीं परां भगवतश्चैतन्यमूर्तिं स्तुमः ॥५६॥ (७)

  57. साक्षान्मोक्षादिकार्थान् विविधविकृतिभिस्तुच्छतां दर्शन्तं प्रेमानन्दं प्रसूते सकलतनुभृतां यस्य लीलाकटाक्षः । नासौ वेदेषु गूढो जगति यदि भवेदीश्वरो गौरचन्द्रस् तत्प्राप्तोऽनीशवादः शिव शिव गहने विष्णुमाये नमस्ते ॥५७॥ (४२)

  58. वासो मे वरमस्तु घोरदहनव्यालावलीपञ्जरे श्रीचैतन्यपदारविन्दविमुखैर्मा कुत्रचित्सङ्गमः । वैकुण्ठादिपदं स्वयं च मिलितं नो मे मनो लिप्सते पादाम्भोजरसच्छटा यदि मनाक्गौरस्य नो रस्यते ॥५८॥ (६५)

  59. सकृन्नयनगोचरीकृततद्अश्रुधाराकुल प्रफुल्लकमलेक्षणप्रणयकातरश्रीमुखः । न गौरचरणं जिहासति कदापि लोकोत्तर स्फुरन्मधुरिमार्णवं नवनवानुरागोन्मदः ॥५९॥ (२१)

  60. आचर्य धर्मं परिचर्य विष्णुं विचर्य तीर्थानि विचार्य वेदान् । विना न गौरप्रियपादसेवां वेदादिदुष्प्रापपदं विदन्ति ॥६०॥ (२२)

  61. ज्ञानादिवर्त्मविरुचिं व्रजनाथभक्ति रीतिं न वेद्मि न च सद्गुरवो मिलन्ति । हा हन्त हन्त मम कः शरणं निगूढ गौरो हरिस्तव न कर्णपथं गतोऽस्ति ॥६१॥ (८४)

  62. मृग्यापि सा शिवशुकोद्धवनारदाद्यैर् आश्चर्यभक्तिपदवी न दवीयस्ती नः । दुर्बोधवैभवपते मयि पामरेऽपि चैतन्यचन्द्र यदि ते करुणाकटाक्षः ॥६२॥ (५५)

  63. वृथावेशं कर्मस्वपनयत वार्तामपि मनाक् न कर्णाभ्यर्णेऽपि क्वचन नयताध्यात्मसरणेः । न मोहं देहादौ भजत परमाश्चर्यमधुरः पुमर्थानां मौलिर्मिलति भवतां गौरकृपया ॥६३॥ (८५)

  64. अलं शास्त्राभ्यासैरलमहह तीर्थाटनिकया सदा योषिद्व्याघ्र्यास्त्रसत वितथं थूत्कुरुत रे । तृणंमन्या धन्याःय्श्रयत किल सन्न्यासिकपटं नटन्तं गौराङ्गं निजरसमदादम्बुधितटे ॥६४॥ (८६)

  65. उच्चैरास्फालयन्तं करचरणमहो हेमदण्डप्रकाण्डौ बाहू प्रोद्धृत्य सत्ताण्डवतरलतनुं पुण्डरीकायताक्षम् । विश्वस्यामङ्गलघ्नं किमपि हरिहरीत्युन्मदानन्दनादैर् वन्दे तं देवचूडामणिमतुलरसाविष्टचैतन्यचन्द्रम् ॥६५॥ (१०)

  66. हुङ्कारैर्दशदिङ्मुखं मुखरयन्नट्टहासच्छटा वीचीभिः स्फुटकुन्दकैरवगणप्रोद्भासि कुर्वन्नभः । सर्वाङ्गः पवनोच्चलच्चलदलप्रायप्रकम्पं दधन् मत्तः प्रेमरसोन्मदाप्लुतगतिर्गौरो हरिः शोभते ॥६६॥ (१०६)

  67. क्व सा निरङ्कुशकृपा क्व तद्वैभवमद्भुतम् । क्व सा वत्सलता शौरे यादृक्गौरे तवात्मनि ॥६७॥ (५६)

  68. आनन्दलीलामयविग्रहाय हेमाभदिव्यच्छविसुन्दराय । तस्मै महाप्रेमरसप्रदाय चैतन्यचन्द्राय नमो नमस्ते ॥६८॥ (११)

  69. महापुरुषमानिनां सुरमुनीश्वराणां निजं पदाम्बुजमजानतां किमपि गर्वनिर्वासनम् । अहो नयनगोचरं निगमचक्रचूडाचयं शचीसुतमचीकरत्क इह भूरिभाग्योदयः ॥६९॥ (२९)

  70. आस्तां नाम महान्महानिति रवः सर्वक्षमामण्डले लोके वा प्रकटास्तु नाम महती सिद्धिश्चमत्कारिणी । कामं चारुचतुर्भुजत्वमयतामाराध्य विश्वेश्वरं चेतो मे बहुमन्यते नहि नहि श्रीगौरभक्तिं विना ॥७०॥ (६६)

  71. निर्दोषश्चारुनृत्यो विधुतमलिनतावक्रभावः कदाचिन् निःशेषप्राणितापत्रयहरणमहाप्रेमपीयूषवर्षी । उद्भूतः कोऽपि भाग्योदयरुचिरशचीगर्भदुग्धाम्बुराशेर् भक्तानां हृच्चकोरस्वदितपदरुचिर्भाति गौराङ्गचन्द्रः ॥७१॥ (१०७)

  72. देवा दुन्दुभिवादनं विदधिरे गन्धर्वमुख्या जगुः सिद्धाः सन्ततपुष्पवृष्टिभिरिमां पृथ्वीं समाच्छादयन् । दिव्यस्तोत्रपरा महर्षिनिवहाः प्रीत्योपतस्थुर्निज प्रेमोन्मादिनि ताण्डवं रचयति श्रीगौरचन्द्रे भुवि ॥७२॥ (१३३)

  73. मत्तकेशरिकिशोरविक्रमः प्रेमसिन्धुजगद्आप्लवोद्यमः । कोऽपि दिव्यनवहेमकन्दली कोमलो जयति गौरचन्द्रमाः ॥७३॥ (१००) अलङ्कारः पङ्केरुहनयननिःस्यन्दिपयसां पृषद्भिः सन्मुक्ताफलसुललितैर्यस्य वपुषि । उदञ्चद्रोमाञ्चैरपि च परमा यस्य सुषमा तमालम्बे गौरं हरिमरुणरोचिष्णुवसनम् ॥७४॥ (७१)

  74. कन्दर्पादपि सुन्दरः सुरसरित्पूरादहो पावनः शीतांशोरपि शीतलः सुमधुरो माध्वीकसारादपि । दाता कल्पमहीरुहादपि महान् स्निग्धो जनन्या अपि प्रेम्णा गौरहरिः कदा नु हृदि मे ध्यातुः पदः धास्यति ॥७५॥ (७२)

  75. पुञ्जं पुञ्जं मधुरमधुर्प्रेममाध्वीरसानां दत्त्वा दत्त्वा स्वयमुरुदयो मोदयन् विश्वमेतत् । एको देवः कटितटमिलन्मञ्जुमाञ्जिष्टवासा भासा निर्भर्त्सितनवतडित्कोटिरेव प्रियो मे ॥७६॥ (७३)

  76. दृष्टः स्पृष्टः कीर्तितः संस्मृतो वा दूरस्थैरप्यानतो वादृतो वा । प्रेम्णः सारं दातुमीशो य एकः श्रीचैतन्यं नौमि देवं दयालुम् ॥७७॥ (४)

  77. सिञ्चन् सिञ्चन्नयनपयसा पाण्डुगण्डस्थलान्तं मुञ्चन्मुञ्चन् प्रतिमुहुरहो दीर्घनिःश्वासजातम् । उच्चैः क्रन्दन् करुणकरुणो दीर्घहाहेतिनादो गौरः कोऽपि व्रजविरहिणीभावमग्नश्चकास्ति ॥७८॥ (१०८)

  78. किं तावद्बत दुर्गमेषु विफलं योगादिमार्गेष्वहो भक्तिं कृष्णपदाम्बुजे विदधतः सर्वार्थमालुण्ठतः । आशा प्रेममहोत्सवे यदि शिवब्रह्माद्य्अलभ्येऽद्भुते गौरे धामनि दुर्विगाहमहिमोदारे तदा रज्यताम् ॥७९॥ (८७)

  79. हसन्त्युच्चैरुच्चैरहह कुलवध्वोऽपि परितो द्रवीभावं गच्छन्त्यपि कुविषयग्रावघटिताः । तिरस्कुर्वन्त्यज्ञा अपि सकलशास्त्रज्ञसमितिं क्षितौ श्रीचैतन्येऽद्भुतमहिमसारेऽवतरति ॥८०॥ (१२०)

  80. प्रायश्चैतन्यमासीदपि सकलविदां नेह पूर्वं यदेषां खअर्वा सर्वार्थसारेऽप्यकृत नहि पदं कुण्ठिता बुद्धिवृत्तिः । गम्भीरोदारभावोज्ज्वलरसमधुरप्रेमभक्तिप्रवेशः केषां नासीदिदानीं जगति करुणया गौरचन्द्रेऽवतीर्णे ॥८१॥ (१२१)

  81. अभिव्यक्तो यत्र द्रुतकनकगौरो हरिरभून् महिम्ना तस्यैव प्रणयरसमग्नं जगदभूत् । अभूदुच्चैरुच्चैस्तुमुलहरिसङ्कीर्तनविधिः स कालः किं भूयोऽप्यहह परिवर्तते मधुरः ॥८२॥ (१३९)

  82. सैवेयं भुवि धन्यगौडनगरी वेलापि सैवाम्बुधेः सोऽयं श्रीपुरुषोत्तमो मधुपतेस्तान्येव नामानि च । नो कुत्रापि निरीक्ष्यते हरि हरि प्रेमोत्सवस्तादृशो हा चैतन्य कृपानिधान तव किं विक्षे पुनर्वैभवम् ॥८३॥ (१४०)

  83. अपारावारं चेदमृतमयपाथोधिमधिकं विमथ्य प्राप्तं स्यात्किमपि परमं सारमतुलम् । तथापि श्रीगौराकृतिमदनगोपालचरण च्छटास्पृष्टानां तद्वहति विकटामेव कटुताम् ॥८४॥ (२३)

  84. तृणादपि सुनीचता सहजसौम्यमुग्धाकृतिः सुधामधुरभाषिता विषयगन्धथूथूत्कृतिः । हरिप्रणयविह्वला किमपि धीरनारम्भिता भवन्ति किल सद्गुणा जगति गौरभाजाममी ॥८५॥ (२४)

  85. कदा शौरे गौरे वपुषि परमप्रेमरसदे सद्एकप्राणे निष्कपटकृतभावोऽस्मि भविता । कदा वा तस्यालौकिकसद्अनुमानेन मम हृद्य् अकस्मात्श्रीराधापदनखमणिज्योतिरुदभूत् ॥८६॥ (६८)

  86. अश्रूणां किमपि प्रवाहनिवहैः क्षौणीं पुरः पङ्किली कुर्वन् पाणितले निधाय बदरीपाण्डुं कपोलस्थलीम् । आश्चर्यं लवणोदरोधसि वसन् शोणं दधानोऽंशुकं गौरीभूय हरिः स्वयं वितनुते राधापदाब्जे रतिम् ॥८७॥ (१३५)

  87. सान्द्रानन्दोज्ज्वलनवरसप्रेमपीयूषसिन्धोः कोटिं वर्षन् किमपि कऔर्णस्निग्धनेत्राञ्चलेन । कोऽयं देवः कनककदलीगर्भगौराङ्गयष्टिश् चेतोऽकस्मान्मम निजपदे गाढमुप्तं चकार ॥८८॥ (६१)

  88. यथा यथा गौरपदारविन्दे विन्देत भक्तिं कृतपुण्यराशिः । तथा तथोत्सर्पति हृद्यकस्मात् राधापदाम्भोजसुधांशुराशिः ॥८९॥ (८८)

  89. कोऽयं पट्टघटीविराजितकटीदेशः करे कङ्कणं हारं वक्षसि कुण्डलं श्रवणयोर्बिभ्रत्पदे नूपुरौ । ऊर्ध्वीकृत्य निबद्धकुन्तलभरप्रोत्फुल्लमल्लीस्रगा पीडः क्रीडति गौरनागरवरो नृत्यन्निजैर्नामभिः ॥९०॥ (१३२)

  90. संसारदुःखजलधौ पतितस्य काम क्रोधादिनक्रमकरैः कवलीकृतस्य । दुर्वासनानिगडितस्य निराश्रयस्य चैतन्यचन्द्र मम देहि पदावलम्बम् ॥९१॥ (५४)

  91. कान्त्या निन्दितकोटिकोटिमदनः श्रीमन्मुखेन्दुच्छटा विच्छायीकृतकोटिकोटिशरद्उन्मीलत्तुषारच्छविः । औदार्येण च कोटिकोटिगुणितं कल्पद्रुमं ह्यल्पयन् गौरो मे हृदि कोटिकोटिजनुषां भाग्यैः पदं धास्यति ॥९२॥ (७४)

  92. क्षणं हसति रोदिति क्षणमथ क्षणं मूर्च्छति क्षणं लुठति धावति क्षणमथ क्षणं नृत्यति । क्षणं श्वसिति मुञ्चति क्षणमुदारहाहारवं महाप्रणयलीलया विहरतीह गौरो हरिः ॥९३॥ (१३४)

  93. क्षणं क्षीणः पीनः क्षणमहह साश्रुः क्षणमथ क्षणं स्मेरः शीतः क्षणमनलतप्तः क्षणमपि । क्षणं धावन् स्तब्धः क्षणमधिकजल्पन् क्षणमहो क्षणं मूको गौरः स्फुरतु मम देहो भगवतः ॥९४॥ (७६)

  94. कैवल्यं नरकायते त्रिदशपूराकाशपुष्पायते दुर्दान्तेन्द्रियकालसर्पपटली प्रोत्खातदंष्ट्रायते । विश्वं पूर्णसुखायते विधिमहेन्द्रादिश्च कीटायते यत्कारुण्यकटाक्षवैभववतां तं गौरमेव स्तुमः ॥९५॥ (५)

  95. प्रवाहैरश्रूणां नवजलदकोटीरिव दृशोर् दधानं प्रेमार्ध्या परमपदकोटिप्रहसनम् । वमन्तं माधुर्यैरमृतनिधिकोटीरिव तनू च्छटाभिस्तं वन्दे हरिमहह सन्न्यासकपटम् ॥९६॥ (१२)

  96. स्वतेजसा कृष्णपदारविन्दे महारसावेशितविश्वमीशम् । कमप्यशेषश्रुतिगूढवेशं गौराङ्गमङ्गीकुरु मूढचेतः ॥९७॥ (५७)

  97. चैतन्येति कृपामयेति परमोदारेति नानाविध प्रेमावेशितसर्वभूतहृदयेत्याश्चर्यधामन्निति । गौराङ्गेति गुणार्णवेति रसरूपेति स्वनामप्रिये त्याश्रान्तं मम जल्पतो जनिरियं यायादिति प्रार्थये ॥९८॥ (६७)

  98. माद्यन्तः परिपीय यस्य चरणाम्भोजस्रवत्प्रोज्ज्वल प्रेमानन्दमयामृताद्भुतरसान् सर्वे सुपर्वेडिताः । ब्रह्मादींश्च हसन्ति नातिबहुमन्यन्ते महावैष्णवान् धिक्कुर्वन्ति स्च ज्ञानकर्मविदुषस्तं गौरमेव स्तुमः ॥९९॥ (६)

  99. यो मार्गो दुरशून्यो य इह बत बलत्कण्टको योऽतिदुर्गो मिथ्यार्थभ्रामको यः सपदि रसमयानन्दनिःस्यन्दनो यः । सद्यः प्रद्योतयंस्तं प्रकटितमहिमा स्नेहवद्धृद्गुहायां कोऽप्यन्तर्ध्वान्तहन्ता स जयति नवद्वीपदीप्यत्प्रदीपः ॥१००॥ (१०४)

  100. दूरादेव दहन् कुतर्कशलभान् कोटीन्दुसंशीतल ज्योतिःकन्दलसंवलन्मधुरिमा बाह्यान्तरध्वान्तहृत् । सस्नेहाशयवृत्तिदिव्यविसरत्तेजाः सुवर्णद्युतिः कारुण्यादिह जाज्वलीति स नवद्वीपप्रदीपोऽद्भुतः ॥१०१॥ (१०५)

  101. स्वयं देवो यत्र द्रुतकनकगौरः करुणया महाप्रेमानन्दोज्ज्वलरसवपुः प्रादुरभवत् । नवद्वीपे तस्मिन् प्रैभवनभक्त्य्उत्सवमये मनो मे वैकुण्ठादपि च मधुरे धाम्नि रमते ॥१०२॥ (६२)

  102. बिभ्रद्वर्णं किमपि दहनोत्तीर्णसौवर्णसारं दिव्याकारं किमपि कलयन् दृप्तगोपालमौलेः । आविष्कुर्वन् क्वचिदवसरे तत्तद्आश्चर्यलीलां साक्षाद्राधामधुरिपुर्वपुर्भाति गौराङ्गचन्द्रः ॥१०३॥ (१०९)

  103. यत्तद्वदन्तु शास्त्राणि यत्तद्व्याख्यान्तु तार्किकाः । जीवनं मम चैतन्यपादाम्भोजसुधैव तु ॥१०४॥ (६३)

  104. पादाघातरवैर्दिशो मुखरयन्नेत्राम्भसां वेणीभिः क्षौणिं पङ्किलयन्नहो विशदयन्नट्टाट्टहासैर्नभः । चन्द्रज्योतिरुदारसुन्दरकटिव्यालोलशोणाम्बरः को देवो लवणोदकूलकुसुमोद्याने मुदा नृत्यति ॥१०५॥ (१३६)

  105. धिगस्तु कुलमुज्ज्वलं धिगपि वाग्मितां धिग्यशो धिगध्ययनमाकृतिं नववयः श्रियं चापि धिक् । द्विजत्वमपि धिक्पर:अ विमलमाश्रमाद्यं च धिक् न चेत्परिचितः कलौ प्रकटगौरगोपीपतिः ॥१०६॥ (४३)

  106. ध्यायन्तो गिरिकन्दरेषु बहवो ब्रह्मानुभूयासते योगाभ्यासपराश्च सन्ति बहवः सिद्धा महीमण्डले । विद्याशौर्यधनादिभिश्च बहवो वल्गन्ति मिथ्योद्धताः को वा गौरकृपां विनाद्य जगति प्रेमोन्मदो नृत्यतु ॥१०७॥ (९८)

  107. अन्तर्ध्वान्तचयं समस्तजगतामुन्मूलयन्ती हठात् प्रेमानन्दरसाम्बुधिं निरवधिं प्रोद्वेलयन्ती बलात् । विश्वं शीतलयन्त्यतीव विकलं तापत्रयेणानिशं सास्माकं हृदये चकास्तु सततं चैतन्यचन्द्रच्छटा ॥१०८॥ (१७,७५)

  108. उपासतां वा गुरुवर्यकोटीर् अधीयतां वा श्रुतिशात्रकोटीः । चैतन्यकारुण्यकटाक्षभाजां सद्यः परं स्याद्धि रहस्यलाभः ॥१०९॥ (२५)

  109. अपारस्य प्रेमोज्ज्वलरसरहस्यामृतनिधेर् निधानं ब्रह्मेशार्चित इह हि चैतन्यचरणः । अतस्तं ध्यायन्तु प्रणयभरतो यान्तु शरणं तमेव प्रोन्मत्तास्तमिह किल गायन्तु कृतिनः ॥११०॥ (८९)

  110. श्रीमद्भागवतस्य यत्र परमं तात्पर्यमुट्टङ्कितं श्रीवैयासकिना दुरन्वयतया रासप्रसङ्गेऽपि यत् । यद्राधारतिकेलिनागररसास्वादैकसद्भाजनं तद्वस्तुप्रथनाय गौरवपुषा लोकेऽवतीर्णो हरिः ॥१११॥ (१२२)

  111. पात्रापात्रविचारणं न कुरुते न स्वं परं वीक्षते देयादेयविमर्शको न हि न वा कालप्रतीक्षः प्रभुः । सद्यो यः श्रवणेक्षणप्रणमनध्यानादिना दुर्लभं दत्ते भक्तिरसं स एव भगवान् गौरः परं मे गतिः ॥११२॥ (७७)

  112. केचिद्दास्यमवापुरुद्धवमुखाः श्लाघ्यं परे लेभिरे श्रीदामादिपदं व्रजाम्बुदृशां भावं भेजुः परे । अन्ये धन्यतमा धयन्ति मधुरं राधारसाम्भोनिधिं श्रीचैतन्यमहाप्रभोः करुणया लोकस्य काः सम्पदः ॥११३॥ (१२३)

  113. सर्वज्ञैर्मुनिपुङ्गवैः प्रवितते तत्तन्मते युक्तिभिः पूर्वं नैकतरत्र कोऽपि सुदृढं विश्वस्त आसीज्जनः । सम्प्रत्यप्रतिमप्रभाव उदिते गौराङ्गचन्द्रे पुनः श्रुत्य्अर्थो हरिभक्तिरेव परमः कैर्वा न निर्धार्यते ॥११४॥ (१२४)

  114. वञ्चितोऽस्मि वञ्चितोऽस्मि वञ्चितोऽस्मि न संशयः । विश्वं गौररसे मग्नं स्पर्शोऽपि मम नाभवत् ॥११५॥ (४६)

  115. अहो वैकुण्ठस्थैरपि च भगवत्पार्षदवरैः सरोमाञ्चं दृष्टा यदनुचरवक्रेश्वरमुखाः । महाश्चर्यप्रेमोज्ज्वलरससदावेशविवशी कृताङ्गास्तं गौरं कथमकृतपुण्यः प्रणयतु ॥११६॥ (४४)

  116. कैर्वा सर्वपुमर्थमौलिरकृतायासैरिहासादितो नासीद्गौरपदारविन्दरजसा स्पृष्टे महीमण्डले । हा हा धिग्मम जीवितं धिगपि मे विद्यां धिगप्याश्रमं यद्दौर्भाग्यभरादहो मम न तद्सम्बन्धोगन्धोऽप्यभूत् ॥११७॥ (४७)

  117. विश्वं महाप्रणयसीधुसुधारसैक पाथोनिधौ सकलमेव निमज्जयन्तम् । गौराङ्गचन्द्रनखचन्द्रमणिच्छटायाः कञ्चिद्विचित्रमनुभावमहं स्मरामि ॥११८॥ (१२५)

  118. जितं जितं मयाद्यापि गौरस्मृत्य्अनुभावतः । तीर्णाः कुमतकान्ताराः पूर्णाः सर्वमनोरथाः ॥११९॥ (?)

  119. दन्ते निधाय तृणकं पदयोर्निपत्य कृत्वा च काकुशतमेतदहं ब्रवीमि । हे साधवः सकलमेव विहाय दूराद् गौराङ्गचन्द्रचरणे कुरुतानुरागम् ॥१२०॥ (९०)

  120. पतन्ति यदि सिद्धयः करतले स्वयं दुर्लभाः स्वयं च यदि सेवकीभवितुमागताः स्युः सुराः । किमन्यदिदमेव मे यदि चतुर्भुजं स्याद्वपुस् तथापि न मनो मनाक्चलति गौरचन्द्रान्मम ॥१२१॥ (६४)

  121. अहो न दुर्लभा मुक्तिर्न च भक्तिः सुदुर्लभा । गौरचन्द्रप्रसादस्तु वैकुण्ठेऽपि सुदुर्लभः ॥१२२॥ (९१)

  122. सोऽप्याश्चर्यमयः प्रभुर्नयनयोर्यन्नाभवद्गोचरो यन्नास्वादि हरेः पदाम्बुजरसस्तद्यद्गतं तद्गतम् । एतावन्मम तावदस्तु जगतीं येऽद्याप्यलङ्कुर्वते श्रीचैतन्यपदे निखातमनसस्तैर्यत्प्रसङ्गोत्सवः ॥१२३॥ (५०)

  123. उत्ससर्प जगदेव पूरयन् गौरचन्द्रकरुणामहार्णवः । बिन्दुमात्रमपि नापतन्महा दुर्भगे मयि किमेतदद्भुतम् ॥१२४॥ (४८)

  124. कालः कलिर्बलिन इन्द्रियवैरिवर्गाः श्रीभक्तिमार्ग इह कण्टककोटिरुद्धः । हा हा क्व यामि विकलः किमहं करोमि चैतन्यचन्द्र यदि नाद्य कृपां करोषि ॥१२५॥ (४९)

  125. कलिन्दतनयातटे स्फुरद्अमन्दवृन्दावनं विहाय लवणाम्बुधेः पुलिनपुष्पवाटीं गतः । धृतारुणपटः पराकृतसुपीतवासा हरिस् तिरोहितनिजच्छविः प्रकटगौरिमा मे गतिः ॥१२६॥ (७९)

  126. आस्तां वैराग्यकोटिर्भवतु शमदमक्षान्तिमैत्र्य्आदिकोटिस् तत्त्वानुध्यानकोटिर्भवतु भवतु वा वैष्णवी भक्तिकोटिः । कोट्य्अंशोऽप्यस्य न स्यात्तदपि गुणगणो यः स्वतःसिद्ध आस्ते श्रीमच्चैतन्यचन्द्रप्रियचरणनखज्योतिरामोदभाजाम् ॥१२७॥ (२६)

  127. भजन्तु चैतन्यपदारविन्दं भवन्तु सद्भक्तिरसेन पूर्णाः । आनन्दयन्तु त्रिजगद्विचित्र माधुर्यसौभाग्यदयाक्षमाद्यैः ॥१२८॥ (९२)

  128. ज्ञानवैराग्यभक्त्य्आदि साधयन्तु यथा तथा । चैतन्यचरणाम्भोज भक्तिलभ्यसमं कुतः ॥१२९॥ (९४)

  129. हा हन्त हन्त परमोषरचित्तभूमौ व्यर्थीभवन्ति मम साधनकोटयोऽपि । सर्वात्मना तदहमद्भुतभक्तिबीजं श्रीगौरचन्द्रचरणं शरणं करोमि ॥१३०॥ (५२)

  130. सर्वसाधनहीनोऽपि परमाश्चर्यवैभवे । गौराङ्गे न्यस्तभावो यः सर्वार्थपूर्ण एव सः ॥१३१॥ (३०)

  131. ब्रह्मेशादिमहाश्चर्यमहिमापि महाप्रभुः । मुग्धबालोदितं श्रुत्वा स्निग्धोऽवश्यं भविष्यति ॥१३२॥ (१४२)

  132. दृष्टं न शास्त्रं गुरवो न पृष्टा विवेचितं नापि बुधैः स्वबुद्ध्या । यथा तथा जल्पतु बालभावात् तथापि मे गौरहरिः प्रसीदतु ॥१३३॥ (१४३)

  133. केचित्सागरभूधरानपि पराक्रामन्ति नृत्यन्ति वै केचिद्देवपुरन्दरादिष्महाक्षेपं क्षिपन्ते मुहुः । आनन्दोद्भटजालविह्वलतया तेऽद्वैतचन्द्रादयः के किं नो कृतवन्त ईदृशि पुनश्चैतन्यनृत्योत्सवे ॥१३४॥ (२७)

  134. अवतीर्णे गौरचन्द्रे विस्तीर्णे प्रेमसागरे । ये न मज्जन्ति मज्जन्ति ते महानर्थसागरे ॥१३५॥ (३५)

  135. प्रसारितमहाप्रेमपीयूषरससागरे । चैतन्यचन्द्रे प्रकटे यो दीनो दीन एव सः ॥१३६॥ (३६)

  136. गीताभागवतं पठत्वविरतं तीर्थानि संसेवतां शालग्रामशिलां समर्चयतु वा कालत्रयं प्रत्यहम् । मुक्तिभ्यो महतीं पुमान्न लभते तत्कोषभूषाङ्करीं भक्तिं प्रेममयीं शचीसुतपदद्वन्द्वानुकम्पां विना ॥१३७॥ (?)

  137. आशा यस्य पदद्वन्द्वे चैतन्यस्य महाप्रभोः । तस्येन्द्रो दासवद्भाति का कथा नृपकीटके ॥१३८॥ (९६)

  138. यस्याशा कृष्णचैतन्ये राजद्वारि किमर्थिनः । चिन्तामणिचयं प्राप्य को गूढो रजतं व्रजेत् ॥१३९॥ (९७)

  139. माद्यत्कोटिमृगेन्द्रहुङ्कृतिरवस्तिग्मांशुकोटिच्छविः कोटीन्दूद्भवशीतलो गतिजितप्रोन्मत्तकोटिद्विपः । नाम्ना दुष्कृतकोटिनिष्कृतिकरो ब्रह्मादिकोडीश्वरः कोट्य्अद्वैतशिरोमणिर्विजयते श्रीश्रीशचीनन्दनः ॥१४०॥ (१०३)

  140. अतिपुण्यैरतिसुकृतैः कृतार्थीकृतः कोऽपि पूर्वैः । एवं कैरपि न कृतं यत्प्रेमाब्धौ निमज्जितं विश्वम् ॥१४१॥ (१२६)

  141. यदि निगदितमीनाद्य्अंशवद्गौरचन्द्रो न तदपि स हि कश्चिच्छक्तिलीलाविकाशः । अतुलसकलशक्त्याश्चर्यलीलाप्रकाशैर् अनधिगतमहत्त्वः पूर्ण एवावतीर्णः ॥१४२॥ (१४१)

  142. संसारसिन्धुतरणे हृदयं यदि स्यात् सङ्कीर्तनामृतरसे रमते मनश्चेत् । प्रेमाम्बुधौ विहरणे यदि चित्तवृत्तिश् चैतन्यचन्द्रचरणे शरणं प्रयातु ॥१४३॥ (९३)

  143. अचैतन्यमिदं विश्वं यदि चैतन्यमीश्वरम् । भजेत्सर्वतो मृत्युरुपास्यममरोत्तमैः ॥??॥ (९५)

Roman transliteration (IAST)

Automatic transliteration.

  1. stumastaṃ caitanyākṛtimativimaryādaparamā dbhutaudāryaṃ varyaṃ vrajapatikumāraṃ rasayitum | viśuddhasvapremonmadamadhurapīyuṣalaharīṃ pradātuṃ cānyebhyaḥ parapadanavadvīpaprakaṭam ||1|| (1)

  2. sarvairāmnāyacūḍāmaṇibhirapi na saṃlakṣyate yatsvarūpaṃ śrīśabrahmādyagamyā sumadhurapadavī kāpi yasyāsti ramyā | yenākasymājjagacchrīharirasamadirāmattametadvyadhāyi śrīmaccaitanyacandraḥ sa kimu mama girāṃ gocaraścetaso vā ||2|| (137)

  3. dharme niṣṭhāṃ dadhadanupamāṃ viṣṇubhaktiṃ gariṣṭhāṃ saṃbibhrāṇo dadhadahaha hṛttiṣṭhatīvāśmasāram | nīco goghrādapi jagadaho plāvayatyaśrupūraiḥ ko vā jānātyahaha gahanaṃ heamagaurāṅgaraṅgam ||3|| (127)

  4. dharmāspṛṣṭaḥ satataparamāviṣṭa evātyadharme dṛṣṭiṃ prāpto na hi khalu satāṃ sṛṣṭiṣu kvāpi no san | yaddattaśrīharirasasudhāsvādamattaḥ pranṛtya tyuccairgāyatyatha viluṭhati staumi taṃ kañcidīśam ||4|| (2)

  5. akasmādevāvirbhavati bhagavannāmalaharī parītānāṃ pāpairapi purubhireṣāṃ tanubhṛtām | aho vajraprāyaṃ hṛdapi navanītāyitamabhūn nṝṇāṃ yasmin loke'vatarati sa gauro mama gatiḥ ||5|| (110)

  6. na yogo na dhyānaṃ na ca japatapastyāganiyamā na vedā nācāraḥ kva nu bata niṣiddhādyuparatiḥ | akasmāccaitanye'vatarati dayāsārahṛdaye pumarthānāṃ mauliṃ paramiha mudā luṇṭhati janaḥ ||6|| (111)

  7. yannāptaṃ karmaniṣṭhairna ca samadhigataṃ yattapodhyānayogai rvairāgyaistyāgatattvastutibhirapi na yattarkitaṃ cāpi kaiścit | govindapremabhājāmapi na ca kalitaṃ yadrahasyaṃ svayaṃ tan nāmnaiva prādurāsīdavatarati pare yatra taṃ naumi gauram ||7|| (3)

  8. dhigastu brahmāhaṃ vadanapariphullān jaḍamatīn kriyāsaktān dhigdhigvikaḍatapaso dhikca yaminaḥ | kimetān śocāmo viṣayarasamattānnarapaśūn na keṣāṃcilleśo'pyahaha milito gauramadhunaḥ ||8|| (32)

  9. badhnan premabharaprakampitakaro granthīn kaṭīḍorakaiḥ saṅkhyātuṃ nijalokamaṅgalaharekṛṣṇetināmnāṃ japan | aśrusnātamukhaḥ svameva hi jagannāthaṃ didṛkṣurgatā yātairgauratanurvilocanamudaṃ tanvan hariḥ pātu vaḥ ||9|| (16)

  10. pāṣāṇaḥ pariṣocito'mṛtarasairnaivāṅkuraḥ sambhavet lāṅgūlaṃ saramāpatervivṛṇataḥ syādasya naivārjavam | hastāvunnayatā budhāḥ kathamaho dhāryaṃ vidhormaṇḍalaṃ sarvaṃ sādhanamastu gaurakaruṇābhāve na bhāvotsavaḥ ||10|| (36)

  11. saundarye kāmakoṭiḥ sakalajanasamāhlādane candrakoṭir vātsalye mātṛkoṭistridaśaviṭapito'pyadbhutaudāryakoṭiḥ | gāmbhīrye'mbhodhikoṭirmadhuramaṇi sudhākṣīramādhvīkakoṭir gauro devaḥ sa jīyān praṇayarasapade darśitāścaryakoṭiḥ ||11|| (101)

  12. premā nāmādbhutārthaḥ śravaṇapathagataḥ kasya nāmnāṃ mahimnaḥ ko vettā kasya vṛndāvanavipinamahāmādhurīṣu praveśaḥ | ko vā jānāti rādhāṃ paramarasacamatkāramādhuryasīmām ekaścaitanyacandraḥ paramakaruṇayā sarvamāviścakāra ||12|| (130)

  13. namaścaitanyacandrāya koṭicandrānanatviṣe | premānandābdhicandrāya cārucandrāṃśuhāsine ||13|| (8)

  14. yasyaiva pādāmbujabhaktilabhyaḥ pramābhidhānaḥ paramaḥ pumarthaḥ | tasmai jaganmaṅgalamaṅgalāya caitanyacandrāya namo namaste ||14|| (9)

  15. dadhanmūrdhanyūrdhvaṃ mukulitakarāmbhojayugalaṃ galannetrāmbhobhiḥ snapitamṛdugaṇḍasthalayugam | dukūlenāvītaṃ navakamalakiñjalkarucinā paraṃ jyotirgauraṃ kanakaruciracauraṃ praṇamata ||15|| (81)

  16. siṃhaskandhaṃ madhuramadhuraṃ smeragaṇḍasthalāntaṃ durvijñeyojjvalarasamayāścaryanānāvikāram | bibhratkāntiṃ vikacakanakāmbhojagarbhābhirāmām ekībhūtaṃ vapuravatu vo rādhayā mādhavasya ||16|| (13)

  17. pūrṇapremarasāmṛtābdhilaharīlolāṅgagauracchaṭā koṭyācchāditaviśvamīśvaravidhivyāsādibhiḥ saṃstutam | durlakṣyāṃ śrutikoṭibhiḥ prakaṭayanmūrtiṃ jaganmohinīm āścaryaṃ lavaṇodarodhasi paraṃ brahma svayaṃ nṛtyati ||17|| (131)

  18. uddāmadāmanakadāmagaṇābhirāma mārāmarāmamavirāmagṛhītanāmā | kāruṇyadhāma kanakojjvalagauradhāma caitanyanāma paramaṃ kalayāma dhāma ||18|| (69)

  19. avatīrṇe gauracandre vistīrṇe premasāgare | suprakāśitaratnaughe yo dīno dīna eva saḥ ||19|| (34)

  20. śravaṇamananasaṅkīrtyādibhaktyā murārer yadi paramapumarthaṃ sādhayetko'pi bhadram | mama tu paramapārapremapīyūṣasindhoḥ kimapi rasarahasyaṃ dhāma gauraṃ namasyam ||20|| (58)

  21. niṣṭhāṃ prāptā vyavahṛtitatirlaukikī vaidikī yā yā vā lajjā prahasansamudgānanāṭyotsaveṣu | ye vābhuvannahaha sahajaprāṇadehārthadharmā gauraścauraḥ sakalamaharatko'pi me tīvravīryaḥ ||21|| (60)

  22. mahākarmasrotonipatitamapi sthairyamayate mahāpāṣāṇebhyo'pyatikaṭhinameti dravadaśām | naṭatyūrdhvaṃ niḥsādhanamapi mahāyogimanasāṃ bhuvi śrīcaitanye'vatarati manaścitravibhave ||22|| (112)

  23. strīputrādikathāṃ jahurviṣayiṇaḥ śāstrapravādaṃ budhā yogīndrā vijahurmarunniyamajakleśaṃ tapastāpasāḥ | jñānābhyāsavidhiṃ jahuśca yatayaścaitanyacandre parām āviṣkurvati bhaktiyogapadavīṃ naivānya āsīdrasaḥ ||23|| (113)

  24. bhrāntaṃ yatra munīśvarairapi purā yasmin kṣamāmaṇḍale kasyāpi praviveśa naiva dhiṣaṇā yadveda no vā śukaḥ | yatra kvāpi kṛpāmayena ca nije'pyudghāṭitaṃ śauriṇā tasminnujjvalabhaktivartmani sukhaṃ khelanti gaurapriyāḥ ||24|| (18)

  25. īśaṃ bhajantu puruṣārthacatuṣṭayāśā dāsā bhavantu ca vidhāya harerupāsāḥ | kiñcidrahasyapadalobhitadhīrahaṃ tu caitanyacandracaraṇaṃ śaraṇaṃ karomi ||25|| (59)

  26. apyagaṇyamahāpuṇyamananyaśaraṇaṃ hareḥ | anupāsitacaitanyamadhanyaṃ manyate matiḥ ||26|| (31)

  27. bhrātaḥ kīrtaya nāma gokulapateruddāmanāmāvalīṃ yadvā bhāvaya tasya divyamadhuraṃ rūpaṃ jaganmohanam | hanta premamahārasojjvalapade nāśāpi te sambhavet śrīcaitanyamahāprabhoryadi kṛpādṛṣṭiḥ patenna tvayi ||27|| (82)

  28. bhūto vā bhavitāpi vā bhavati vā kasyāpi yaḥ ko'pi vā sambandho bhagavatpadāmbujarase nāsmin jaganmaṇḍale | tatsarvaṃ nijabhaktirūpaparamaiśvaryeṇa vikrīḍato gaurasyaiva kṛpāvijṛmbhitatayā jānanti nirmatsarāḥ ||28|| (28)

  29. svādaṃ svādaṃ madhurimabharaṃ svīyanāmāvalīnāṃ mādaṃ mādaṃ kimapi vivaśībhūtavisrastagātraḥ | vāraṃ vāraṃ vrajapatiguṇān gāya gāyeti jalpan gauro dṛṣṭaḥ sakṛdapi na yairdurghaṭā teṣu bhaktiḥ ||29|| (38)

  30. abhūdgehe gehe tumulaharisaṅkīrtanaravo babhau dehe dehe vipulapulakāśruvyatikaraḥ | api snehe snehe paramamadhurotkarṣapadavī davīyasyāmnāyādapi jagati gaure'vatarati ||30|| (114)

  31. jāḍyaṃ karmasu kutracijjapatapoyogādikaṃ kutracid govindārcanavikriyā kvacidapi jñānābhimānaḥ kvacit | śrībhaktiḥ kvacidujjvalāpi ca harervāṅmātra eva sthitā hā caitanya kuto gato'si padavī kutrāpi te nekṣyate ||31|| (138)

  32. vinā bījaṃ kiṃ nāṅkurajananamandho'pi na kathaṃ prapaśyenno paṅgurgiriśikharamārohati katham | yadi śrīcaitanye harirasamayāścaryavibhave' pyabhaktānāṃ bhāvī kathamapi parapremarabhasaḥ ||32|| (39)

  33. akasmādevaitadbhuvanamabhitaḥ plāvitamabhūn mahāpremāmbhodheḥ kimapi rasavanyābhirakhilam | akasmāccādṛṣṭaśrutacaravikārairalamabhūc camatkāraḥ kṛṣṇe kanakarucirāṅge'vatarati ||33|| (115)

  34. are mūḍhā gūḍhāṃ vicinuta harerbhaktipadavīṃ davīyasyā dṛṣṭyāpyaparicitapūrvāṃ munivaraiḥ | na viśrambhaścitte yadi yadi ca daurlabhyamiva tat parityajyāśeṣaṃ vrajata śaraṇaṃ gauracaraṇam ||34|| (80)

  35. tāvadbrahmakathā vimuktapadavī tāvanna tiktībhavet tāvaccāpi viśṛṅkhalatvamayate no lokavedasthitiḥ | tāvacchāstravidāṃ mithaḥ kalakalo nānābahirvartmasu śrīcaitanyapadāmbujapriyajano yāvanna diggocaraḥ ||35|| (19)

  36. sadā raṅge nīlācalaśikharaśṛṅge vilasato harereva bhrājanmukhakamalabhṛṅgekṣaṇayugam | samuttuṅgapremonmadarasataraṅgaṃ mṛgadṛśām anaṅgaṃ gaurāṅgaṃ smaratu gatasaṅgaṃ mama manaḥ ||36|| (70)

  37. kvacitkṛṣṇāveśānnaṭati bahubhaṅgīmabhinayan kvacidrādhāviṣṭo hari hari harītyārtaruditaḥ | kvacidriṅgan bālaḥ kvacidapi ca gopālacarito jagadgauro vismāpayati bahubhaṅgīmadhurimā ||37|| (128)

  38. aye na kuru sāhasaṃ tava hasanti sarvodyamaṃ janāḥ parita unmadā harirasāmṛtāsvādinaḥ | idaṃ tu nibhṛtaṃ śṛṇu praṇayavastu prastūyate yadeva nigameṣu tatpatirayaṃ hi gauraḥ param ||38|| (83)

  39. udgṛhṇanti samastaśāstramabhito durvāragarvāyitā dhanyaṃmanyadhiyaśca karmatapādyuccāvaceṣu sthitāḥ | dvitrāṇyeva japanti kecana harernāmāni vāmāśayāḥ pūrvaṃ samprati gauracandra udite premāpi sādhāraṇaḥ ||39|| (116)

  40. pāpīyānapi hīnajātirapi duḥśīlo'pi duṣkarmaṇāṃ sīmāpi śvapacādhamo'pi satataṃ durvāsanāḍhyo'pi ca | durdeśaprabhavo'pi tatra vihitāvāso'pi duḥsaṅgato naṣṭo'pyuddhṛta eva yena kṛpayā taṃ gaurameva stumaḥ ||40|| (78)

  41. acaitanyamidaṃ viśvaṃ yadi caitanyamīśvaram | na viduḥ sarvaśāstrajñā hyapi bhrāmyanti te janāḥ ||41|| (37)

  42. deve caitanyanāmanyavatarati suraprārthyapādābjaseve viṣvadrīcīḥ pravistārayati sumadhurapremapīyūṣavīcīḥ | ko bālaḥ kaśca vṛddhaḥ ka iha jaḍamatiḥ ko budhaḥ ko varākaḥ sarveṣāmaikarasyaṃ kimapi haripade bhaktibhājāṃ babhūva ||42|| (117)

  43. dattvā yaḥ kamapi prasādamatha sambhāṣya smitaśrīmukhaṃ dūrātsnigdhadṛśā nirīkṣya ca mahāpremotsavaṃ yacchati | yeṣāṃ hanta kutarkakarkaśadhiyāṃ tatrāpi nātyādaraḥ sākṣātpūrṇarasāvatāriṇi harau duṣṭā amī kevalam ||43|| (45)

  44. kāśīvāsānapi na gaṇaye kiṃ gayāṃ mārgaye'haṃ muktiḥ śuktībhavati yadi me kaḥ parārthaprasaṅgaḥ | trāsābhāsaḥ sphurati na mahāraurave'pi kva bhītiḥ strīputrādau yadi kṛpayate devadevaḥ sa gauraḥ ||44|| (99)

  45. belāyāṃ lavaṇodadhermadhurimaprāgbhāvasārasphural līlāyāṃ navavallavīrasanidherāveśayantī jagat | khelāyāmapi śaiśave nijarucā viśvaikasaṃmohinī mūrtiḥ kācana kāñcanadravamayī cittāya me rocate ||45|| (129)

  46. dṛṣṭvā mādyati nūtanāmbudacayaṃ saṃvīkṣya barhaṃ bhaved atyantaṃ vikalo vilokya valitāṃ guñjāvalīṃ vepate | dṛṣṭe śyāmakiśorake'pi cakitaṃ dhatte camatkāritām itthaṃ gauratanuḥ pracāritanijapremā hariḥ pātu vaḥ ||46|| (14)

  47. duṣkarmakoṭiniratasya durantaghora durvāsanānigaḍaśṛṅkhalitasya gāḍham | kliśyanmateḥ kumatikoṭikadarthitasya gauraṃ vinādya mama ko bhaviteha bandhuḥ ||47|| (51)

  48. hā hanta cittabhuvi me paramoṣarāyāṃ sadbhaktikalpalatikāṅkuritā kathaṃ syāt | hṛdyekameva paramāśasatnīyamasti caitanyanāma kalayanna kadāpi śocyaḥ ||48|| (53)

  49. kṛpāsindhuḥ sandhyāruṇaruciracitrāmbaradaro jjvalaḥ pūrṇapremāmṛtamayamahājyotiramalaḥ | śacīgarbhakṣīrābmbudhibhava udārādbhutakalaḥ kalānāthaḥ śrīmānudayatu mama svāntanabhasi ||49|| (15)

  50. kva tāvadvairāgyaṃ kva ca viṣayavārtāsu narake ṣvivodvegaḥ kvāsau vinayabharamādhuryalaharī | kva tattejo vālaukikamatha mahābhaktipadavī kva sā vā sambhāvyā yadavakalitaṃ gauragatiṣu ||50|| (20)

  51. svapādāmbhojaikapraṇayalaharīsādhanabhṛtāṃ śivabrahmādīnāmapi ca sumahāvismayabhṛtām | mahāpremāveśātkimapi naṭanāmunmada iva prabhurgauro jīyātprakaṭaparamāścaryamahimā ||51|| (102)

  52. sarve nāradaśaṅkarādaya ihāyātāḥ svayaṃ śrīrapi prāptā devahalāyudho'pi milito jātāśca te vṛṣṇayaḥ | bhūyaḥ kiṃ vrajavāsino'pi prakaṭā gopālagopyādayaḥ pūrṇapremaraseśvare'vatarati śrīgauracandre bhuvi ||52|| (118)

  53. bhṛtyāḥ snigdhā atha sumadhuraprojjvalodārabhājas tatpādābjadvitayasavidhe sarva evāvatīrṇāḥ | prāpuḥ pūrvādhikataramahāpremapīyūṣalakṣmīṃ svapremāṇaṃ vitarati jagatyadbhutaṃ hemagaure ||53|| (119)

  54. alaukikyā premonmadarasavilāsaprathanayā na yaḥ śrīgovindānucarasaciveṣveṣu kṛtiṣu | mahāścaryaṃ premotsavamapi haḍhāddātari na yan matirgaure sākṣātpara iha sa mūḍho narapaśuḥ ||54|| (40)

  55. asaṅkhyāḥ śrutyādau bhagavadavatārā nigaditāḥ prabhāvaṃ kaḥ sambhāvayatu paramīśāditarataḥ | kimanyatmatpreṣṭhe kati kati satāṃ nāpyanubhavās tathāpi śrīgaure hari hari na mūḍhā haridhiyaḥ ||55|| (41)

  56. rakṣodaityakulaṃ hataṃ kiyadidaṃ yogādivartmakriyā mārgo vā prakaṭīkṛtaḥ kiyadidaṃ sṛṣṭyādikaṃ vā kiyat | medinyuddharaṇādikaṃ kiyadidaṃ premojjvalāyā mahā bhaktervartmakarīṃ parāṃ bhagavataścaitanyamūrtiṃ stumaḥ ||56|| (7)

  57. sākṣānmokṣādikārthān vividhavikṛtibhistucchatāṃ darśantaṃ premānandaṃ prasūte sakalatanubhṛtāṃ yasya līlākaṭākṣaḥ | nāsau vedeṣu gūḍho jagati yadi bhavedīśvaro gauracandras tatprāpto'nīśavādaḥ śiva śiva gahane viṣṇumāye namaste ||57|| (42)

  58. vāso me varamastu ghoradahanavyālāvalīpañjare śrīcaitanyapadāravindavimukhairmā kutracitsaṅgamaḥ | vaikuṇṭhādipadaṃ svayaṃ ca militaṃ no me mano lipsate pādāmbhojarasacchaṭā yadi manākgaurasya no rasyate ||58|| (65)

  59. sakṛnnayanagocarīkṛtatadaśrudhārākula praphullakamalekṣaṇapraṇayakātaraśrīmukhaḥ | na gauracaraṇaṃ jihāsati kadāpi lokottara sphuranmadhurimārṇavaṃ navanavānurāgonmadaḥ ||59|| (21)

  60. ācarya dharmaṃ paricarya viṣṇuṃ vicarya tīrthāni vicārya vedān | vinā na gaurapriyapādasevāṃ vedādiduṣprāpapadaṃ vidanti ||60|| (22)

  61. jñānādivartmaviruciṃ vrajanāthabhakti rītiṃ na vedmi na ca sadguravo milanti | hā hanta hanta mama kaḥ śaraṇaṃ nigūḍha gauro haristava na karṇapathaṃ gato'sti ||61|| (84)

  62. mṛgyāpi sā śivaśukoddhavanāradādyair āścaryabhaktipadavī na davīyastī naḥ | durbodhavaibhavapate mayi pāmare'pi caitanyacandra yadi te karuṇākaṭākṣaḥ ||62|| (55)

  63. vṛthāveśaṃ karmasvapanayata vārtāmapi manāk na karṇābhyarṇe'pi kvacana nayatādhyātmasaraṇeḥ | na mohaṃ dehādau bhajata paramāścaryamadhuraḥ pumarthānāṃ maulirmilati bhavatāṃ gaurakṛpayā ||63|| (85)

  64. alaṃ śāstrābhyāsairalamahaha tīrthāṭanikayā sadā yoṣidvyāghryāstrasata vitathaṃ thūtkuruta re | tṛṇaṃmanyā dhanyāḥyśrayata kila sannyāsikapaṭaṃ naṭantaṃ gaurāṅgaṃ nijarasamadādambudhitaṭe ||64|| (86)

  65. uccairāsphālayantaṃ karacaraṇamaho hemadaṇḍaprakāṇḍau bāhū proddhṛtya sattāṇḍavataralatanuṃ puṇḍarīkāyatākṣam | viśvasyāmaṅgalaghnaṃ kimapi hariharītyunmadānandanādair vande taṃ devacūḍāmaṇimatularasāviṣṭacaitanyacandram ||65|| (10)

  66. huṅkārairdaśadiṅmukhaṃ mukharayannaṭṭahāsacchaṭā vīcībhiḥ sphuṭakundakairavagaṇaprodbhāsi kurvannabhaḥ | sarvāṅgaḥ pavanoccalaccaladalaprāyaprakampaṃ dadhan mattaḥ premarasonmadāplutagatirgauro hariḥ śobhate ||66|| (106)

  67. kva sā niraṅkuśakṛpā kva tadvaibhavamadbhutam | kva sā vatsalatā śaure yādṛkgaure tavātmani ||67|| (56)

  68. ānandalīlāmayavigrahāya hemābhadivyacchavisundarāya | tasmai mahāpremarasapradāya caitanyacandrāya namo namaste ||68|| (11)

  69. mahāpuruṣamānināṃ suramunīśvarāṇāṃ nijaṃ padāmbujamajānatāṃ kimapi garvanirvāsanam | aho nayanagocaraṃ nigamacakracūḍācayaṃ śacīsutamacīkaratka iha bhūribhāgyodayaḥ ||69|| (29)

  70. āstāṃ nāma mahānmahāniti ravaḥ sarvakṣamāmaṇḍale loke vā prakaṭāstu nāma mahatī siddhiścamatkāriṇī | kāmaṃ cārucaturbhujatvamayatāmārādhya viśveśvaraṃ ceto me bahumanyate nahi nahi śrīgaurabhaktiṃ vinā ||70|| (66)

  71. nirdoṣaścārunṛtyo vidhutamalinatāvakrabhāvaḥ kadācin niḥśeṣaprāṇitāpatrayaharaṇamahāpremapīyūṣavarṣī | udbhūtaḥ ko'pi bhāgyodayaruciraśacīgarbhadugdhāmburāśer bhaktānāṃ hṛccakorasvaditapadarucirbhāti gaurāṅgacandraḥ ||71|| (107)

  72. devā dundubhivādanaṃ vidadhire gandharvamukhyā jaguḥ siddhāḥ santatapuṣpavṛṣṭibhirimāṃ pṛthvīṃ samācchādayan | divyastotraparā maharṣinivahāḥ prītyopatasthurnija premonmādini tāṇḍavaṃ racayati śrīgauracandre bhuvi ||72|| (133)

  73. mattakeśarikiśoravikramaḥ premasindhujagadāplavodyamaḥ | ko'pi divyanavahemakandalī komalo jayati gauracandramāḥ ||73|| (100) alaṅkāraḥ paṅkeruhanayananiḥsyandipayasāṃ pṛṣadbhiḥ sanmuktāphalasulalitairyasya vapuṣi | udañcadromāñcairapi ca paramā yasya suṣamā tamālambe gauraṃ harimaruṇarociṣṇuvasanam ||74|| (71)

  74. kandarpādapi sundaraḥ surasaritpūrādaho pāvanaḥ śītāṃśorapi śītalaḥ sumadhuro mādhvīkasārādapi | dātā kalpamahīruhādapi mahān snigdho jananyā api premṇā gaurahariḥ kadā nu hṛdi me dhyātuḥ padaḥ dhāsyati ||75|| (72)

  75. puñjaṃ puñjaṃ madhuramadhurpremamādhvīrasānāṃ dattvā dattvā svayamurudayo modayan viśvametat | eko devaḥ kaṭitaṭamilanmañjumāñjiṣṭavāsā bhāsā nirbhartsitanavataḍitkoṭireva priyo me ||76|| (73)

  76. dṛṣṭaḥ spṛṣṭaḥ kīrtitaḥ saṃsmṛto vā dūrasthairapyānato vādṛto vā | premṇaḥ sāraṃ dātumīśo ya ekaḥ śrīcaitanyaṃ naumi devaṃ dayālum ||77|| (4)

  77. siñcan siñcannayanapayasā pāṇḍugaṇḍasthalāntaṃ muñcanmuñcan pratimuhuraho dīrghaniḥśvāsajātam | uccaiḥ krandan karuṇakaruṇo dīrghahāhetinādo gauraḥ ko'pi vrajavirahiṇībhāvamagnaścakāsti ||78|| (108)

  78. kiṃ tāvadbata durgameṣu viphalaṃ yogādimārgeṣvaho bhaktiṃ kṛṣṇapadāmbuje vidadhataḥ sarvārthamāluṇṭhataḥ | āśā premamahotsave yadi śivabrahmādyalabhye'dbhute gaure dhāmani durvigāhamahimodāre tadā rajyatām ||79|| (87)

  79. hasantyuccairuccairahaha kulavadhvo'pi parito dravībhāvaṃ gacchantyapi kuviṣayagrāvaghaṭitāḥ | tiraskurvantyajñā api sakalaśāstrajñasamitiṃ kṣitau śrīcaitanye'dbhutamahimasāre'vatarati ||80|| (120)

  80. prāyaścaitanyamāsīdapi sakalavidāṃ neha pūrvaṃ yadeṣāṃ khaarvā sarvārthasāre'pyakṛta nahi padaṃ kuṇṭhitā buddhivṛttiḥ | gambhīrodārabhāvojjvalarasamadhurapremabhaktipraveśaḥ keṣāṃ nāsīdidānīṃ jagati karuṇayā gauracandre'vatīrṇe ||81|| (121)

  81. abhivyakto yatra drutakanakagauro harirabhūn mahimnā tasyaiva praṇayarasamagnaṃ jagadabhūt | abhūduccairuccaistumulaharisaṅkīrtanavidhiḥ sa kālaḥ kiṃ bhūyo'pyahaha parivartate madhuraḥ ||82|| (139)

  82. saiveyaṃ bhuvi dhanyagauḍanagarī velāpi saivāmbudheḥ so'yaṃ śrīpuruṣottamo madhupatestānyeva nāmāni ca | no kutrāpi nirīkṣyate hari hari premotsavastādṛśo hā caitanya kṛpānidhāna tava kiṃ vikṣe punarvaibhavam ||83|| (140)

  83. apārāvāraṃ cedamṛtamayapāthodhimadhikaṃ vimathya prāptaṃ syātkimapi paramaṃ sāramatulam | tathāpi śrīgaurākṛtimadanagopālacaraṇa cchaṭāspṛṣṭānāṃ tadvahati vikaṭāmeva kaṭutām ||84|| (23)

  84. tṛṇādapi sunīcatā sahajasaumyamugdhākṛtiḥ sudhāmadhurabhāṣitā viṣayagandhathūthūtkṛtiḥ | haripraṇayavihvalā kimapi dhīranārambhitā bhavanti kila sadguṇā jagati gaurabhājāmamī ||85|| (24)

  85. kadā śaure gaure vapuṣi paramapremarasade sadekaprāṇe niṣkapaṭakṛtabhāvo'smi bhavitā | kadā vā tasyālaukikasadanumānena mama hṛdy akasmātśrīrādhāpadanakhamaṇijyotirudabhūt ||86|| (68)

  86. aśrūṇāṃ kimapi pravāhanivahaiḥ kṣauṇīṃ puraḥ paṅkilī kurvan pāṇitale nidhāya badarīpāṇḍuṃ kapolasthalīm | āścaryaṃ lavaṇodarodhasi vasan śoṇaṃ dadhāno'ṃśukaṃ gaurībhūya hariḥ svayaṃ vitanute rādhāpadābje ratim ||87|| (135)

  87. sāndrānandojjvalanavarasapremapīyūṣasindhoḥ koṭiṃ varṣan kimapi kaaurṇasnigdhanetrāñcalena | ko'yaṃ devaḥ kanakakadalīgarbhagaurāṅgayaṣṭiś ceto'kasmānmama nijapade gāḍhamuptaṃ cakāra ||88|| (61)

  88. yathā yathā gaurapadāravinde vindeta bhaktiṃ kṛtapuṇyarāśiḥ | tathā tathotsarpati hṛdyakasmāt rādhāpadāmbhojasudhāṃśurāśiḥ ||89|| (88)

  89. ko'yaṃ paṭṭaghaṭīvirājitakaṭīdeśaḥ kare kaṅkaṇaṃ hāraṃ vakṣasi kuṇḍalaṃ śravaṇayorbibhratpade nūpurau | ūrdhvīkṛtya nibaddhakuntalabharaprotphullamallīsragā pīḍaḥ krīḍati gauranāgaravaro nṛtyannijairnāmabhiḥ ||90|| (132)

  90. saṃsāraduḥkhajaladhau patitasya kāma krodhādinakramakaraiḥ kavalīkṛtasya | durvāsanānigaḍitasya nirāśrayasya caitanyacandra mama dehi padāvalambam ||91|| (54)

  91. kāntyā ninditakoṭikoṭimadanaḥ śrīmanmukhenducchaṭā vicchāyīkṛtakoṭikoṭiśaradunmīlattuṣāracchaviḥ | audāryeṇa ca koṭikoṭiguṇitaṃ kalpadrumaṃ hyalpayan gauro me hṛdi koṭikoṭijanuṣāṃ bhāgyaiḥ padaṃ dhāsyati ||92|| (74)

  92. kṣaṇaṃ hasati roditi kṣaṇamatha kṣaṇaṃ mūrcchati kṣaṇaṃ luṭhati dhāvati kṣaṇamatha kṣaṇaṃ nṛtyati | kṣaṇaṃ śvasiti muñcati kṣaṇamudārahāhāravaṃ mahāpraṇayalīlayā viharatīha gauro hariḥ ||93|| (134)

  93. kṣaṇaṃ kṣīṇaḥ pīnaḥ kṣaṇamahaha sāśruḥ kṣaṇamatha kṣaṇaṃ smeraḥ śītaḥ kṣaṇamanalataptaḥ kṣaṇamapi | kṣaṇaṃ dhāvan stabdhaḥ kṣaṇamadhikajalpan kṣaṇamaho kṣaṇaṃ mūko gauraḥ sphuratu mama deho bhagavataḥ ||94|| (76)

  94. kaivalyaṃ narakāyate tridaśapūrākāśapuṣpāyate durdāntendriyakālasarpapaṭalī protkhātadaṃṣṭrāyate | viśvaṃ pūrṇasukhāyate vidhimahendrādiśca kīṭāyate yatkāruṇyakaṭākṣavaibhavavatāṃ taṃ gaurameva stumaḥ ||95|| (5)

  95. pravāhairaśrūṇāṃ navajaladakoṭīriva dṛśor dadhānaṃ premārdhyā paramapadakoṭiprahasanam | vamantaṃ mādhuryairamṛtanidhikoṭīriva tanū cchaṭābhistaṃ vande harimahaha sannyāsakapaṭam ||96|| (12)

  96. svatejasā kṛṣṇapadāravinde mahārasāveśitaviśvamīśam | kamapyaśeṣaśrutigūḍhaveśaṃ gaurāṅgamaṅgīkuru mūḍhacetaḥ ||97|| (57)

  97. caitanyeti kṛpāmayeti paramodāreti nānāvidha premāveśitasarvabhūtahṛdayetyāścaryadhāmanniti | gaurāṅgeti guṇārṇaveti rasarūpeti svanāmapriye tyāśrāntaṃ mama jalpato janiriyaṃ yāyāditi prārthaye ||98|| (67)

  98. mādyantaḥ paripīya yasya caraṇāmbhojasravatprojjvala premānandamayāmṛtādbhutarasān sarve suparveḍitāḥ | brahmādīṃśca hasanti nātibahumanyante mahāvaiṣṇavān dhikkurvanti sca jñānakarmaviduṣastaṃ gaurameva stumaḥ ||99|| (6)

  99. yo mārgo duraśūnyo ya iha bata balatkaṇṭako yo'tidurgo mithyārthabhrāmako yaḥ sapadi rasamayānandaniḥsyandano yaḥ | sadyaḥ pradyotayaṃstaṃ prakaṭitamahimā snehavaddhṛdguhāyāṃ ko'pyantardhvāntahantā sa jayati navadvīpadīpyatpradīpaḥ ||100|| (104)

  100. dūrādeva dahan kutarkaśalabhān koṭīndusaṃśītala jyotiḥkandalasaṃvalanmadhurimā bāhyāntaradhvāntahṛt | sasnehāśayavṛttidivyavisarattejāḥ suvarṇadyutiḥ kāruṇyādiha jājvalīti sa navadvīpapradīpo'dbhutaḥ ||101|| (105)

  101. svayaṃ devo yatra drutakanakagauraḥ karuṇayā mahāpremānandojjvalarasavapuḥ prādurabhavat | navadvīpe tasmin praibhavanabhaktyutsavamaye mano me vaikuṇṭhādapi ca madhure dhāmni ramate ||102|| (62)

  102. bibhradvarṇaṃ kimapi dahanottīrṇasauvarṇasāraṃ divyākāraṃ kimapi kalayan dṛptagopālamauleḥ | āviṣkurvan kvacidavasare tattadāścaryalīlāṃ sākṣādrādhāmadhuripurvapurbhāti gaurāṅgacandraḥ ||103|| (109)

  103. yattadvadantu śāstrāṇi yattadvyākhyāntu tārkikāḥ | jīvanaṃ mama caitanyapādāmbhojasudhaiva tu ||104|| (63)

  104. pādāghātaravairdiśo mukharayannetrāmbhasāṃ veṇībhiḥ kṣauṇiṃ paṅkilayannaho viśadayannaṭṭāṭṭahāsairnabhaḥ | candrajyotirudārasundarakaṭivyālolaśoṇāmbaraḥ ko devo lavaṇodakūlakusumodyāne mudā nṛtyati ||105|| (136)

  105. dhigastu kulamujjvalaṃ dhigapi vāgmitāṃ dhigyaśo dhigadhyayanamākṛtiṃ navavayaḥ śriyaṃ cāpi dhik | dvijatvamapi dhikpara:a vimalamāśramādyaṃ ca dhik na cetparicitaḥ kalau prakaṭagauragopīpatiḥ ||106|| (43)

  106. dhyāyanto girikandareṣu bahavo brahmānubhūyāsate yogābhyāsaparāśca santi bahavaḥ siddhā mahīmaṇḍale | vidyāśauryadhanādibhiśca bahavo valganti mithyoddhatāḥ ko vā gaurakṛpāṃ vinādya jagati premonmado nṛtyatu ||107|| (98)

  107. antardhvāntacayaṃ samastajagatāmunmūlayantī haṭhāt premānandarasāmbudhiṃ niravadhiṃ prodvelayantī balāt | viśvaṃ śītalayantyatīva vikalaṃ tāpatrayeṇāniśaṃ sāsmākaṃ hṛdaye cakāstu satataṃ caitanyacandracchaṭā ||108|| (17,75)

  108. upāsatāṃ vā guruvaryakoṭīr adhīyatāṃ vā śrutiśātrakoṭīḥ | caitanyakāruṇyakaṭākṣabhājāṃ sadyaḥ paraṃ syāddhi rahasyalābhaḥ ||109|| (25)

  109. apārasya premojjvalarasarahasyāmṛtanidher nidhānaṃ brahmeśārcita iha hi caitanyacaraṇaḥ | atastaṃ dhyāyantu praṇayabharato yāntu śaraṇaṃ tameva pronmattāstamiha kila gāyantu kṛtinaḥ ||110|| (89)

  110. śrīmadbhāgavatasya yatra paramaṃ tātparyamuṭṭaṅkitaṃ śrīvaiyāsakinā duranvayatayā rāsaprasaṅge'pi yat | yadrādhāratikelināgararasāsvādaikasadbhājanaṃ tadvastuprathanāya gauravapuṣā loke'vatīrṇo hariḥ ||111|| (122)

  111. pātrāpātravicāraṇaṃ na kurute na svaṃ paraṃ vīkṣate deyādeyavimarśako na hi na vā kālapratīkṣaḥ prabhuḥ | sadyo yaḥ śravaṇekṣaṇapraṇamanadhyānādinā durlabhaṃ datte bhaktirasaṃ sa eva bhagavān gauraḥ paraṃ me gatiḥ ||112|| (77)

  112. keciddāsyamavāpuruddhavamukhāḥ ślāghyaṃ pare lebhire śrīdāmādipadaṃ vrajāmbudṛśāṃ bhāvaṃ bhejuḥ pare | anye dhanyatamā dhayanti madhuraṃ rādhārasāmbhonidhiṃ śrīcaitanyamahāprabhoḥ karuṇayā lokasya kāḥ sampadaḥ ||113|| (123)

  113. sarvajñairmunipuṅgavaiḥ pravitate tattanmate yuktibhiḥ pūrvaṃ naikataratra ko'pi sudṛḍhaṃ viśvasta āsījjanaḥ | sampratyapratimaprabhāva udite gaurāṅgacandre punaḥ śrutyartho haribhaktireva paramaḥ kairvā na nirdhāryate ||114|| (124)

  114. vañcito'smi vañcito'smi vañcito'smi na saṃśayaḥ | viśvaṃ gaurarase magnaṃ sparśo'pi mama nābhavat ||115|| (46)

  115. aho vaikuṇṭhasthairapi ca bhagavatpārṣadavaraiḥ saromāñcaṃ dṛṣṭā yadanucaravakreśvaramukhāḥ | mahāścaryapremojjvalarasasadāveśavivaśī kṛtāṅgāstaṃ gauraṃ kathamakṛtapuṇyaḥ praṇayatu ||116|| (44)

  116. kairvā sarvapumarthamaulirakṛtāyāsairihāsādito nāsīdgaurapadāravindarajasā spṛṣṭe mahīmaṇḍale | hā hā dhigmama jīvitaṃ dhigapi me vidyāṃ dhigapyāśramaṃ yaddaurbhāgyabharādaho mama na tadsambandhogandho'pyabhūt ||117|| (47)

  117. viśvaṃ mahāpraṇayasīdhusudhārasaika pāthonidhau sakalameva nimajjayantam | gaurāṅgacandranakhacandramaṇicchaṭāyāḥ kañcidvicitramanubhāvamahaṃ smarāmi ||118|| (125)

  118. jitaṃ jitaṃ mayādyāpi gaurasmṛtyanubhāvataḥ | tīrṇāḥ kumatakāntārāḥ pūrṇāḥ sarvamanorathāḥ ||119|| (?)

  119. dante nidhāya tṛṇakaṃ padayornipatya kṛtvā ca kākuśatametadahaṃ bravīmi | he sādhavaḥ sakalameva vihāya dūrād gaurāṅgacandracaraṇe kurutānurāgam ||120|| (90)

  120. patanti yadi siddhayaḥ karatale svayaṃ durlabhāḥ svayaṃ ca yadi sevakībhavitumāgatāḥ syuḥ surāḥ | kimanyadidameva me yadi caturbhujaṃ syādvapus tathāpi na mano manākcalati gauracandrānmama ||121|| (64)

  121. aho na durlabhā muktirna ca bhaktiḥ sudurlabhā | gauracandraprasādastu vaikuṇṭhe'pi sudurlabhaḥ ||122|| (91)

  122. so'pyāścaryamayaḥ prabhurnayanayoryannābhavadgocaro yannāsvādi hareḥ padāmbujarasastadyadgataṃ tadgatam | etāvanmama tāvadastu jagatīṃ ye'dyāpyalaṅkurvate śrīcaitanyapade nikhātamanasastairyatprasaṅgotsavaḥ ||123|| (50)

  123. utsasarpa jagadeva pūrayan gauracandrakaruṇāmahārṇavaḥ | bindumātramapi nāpatanmahā durbhage mayi kimetadadbhutam ||124|| (48)

  124. kālaḥ kalirbalina indriyavairivargāḥ śrībhaktimārga iha kaṇṭakakoṭiruddhaḥ | hā hā kva yāmi vikalaḥ kimahaṃ karomi caitanyacandra yadi nādya kṛpāṃ karoṣi ||125|| (49)

  125. kalindatanayātaṭe sphuradamandavṛndāvanaṃ vihāya lavaṇāmbudheḥ pulinapuṣpavāṭīṃ gataḥ | dhṛtāruṇapaṭaḥ parākṛtasupītavāsā haris tirohitanijacchaviḥ prakaṭagaurimā me gatiḥ ||126|| (79)

  126. āstāṃ vairāgyakoṭirbhavatu śamadamakṣāntimaitryādikoṭis tattvānudhyānakoṭirbhavatu bhavatu vā vaiṣṇavī bhaktikoṭiḥ | koṭyaṃśo'pyasya na syāttadapi guṇagaṇo yaḥ svataḥsiddha āste śrīmaccaitanyacandrapriyacaraṇanakhajyotirāmodabhājām ||127|| (26)

  127. bhajantu caitanyapadāravindaṃ bhavantu sadbhaktirasena pūrṇāḥ | ānandayantu trijagadvicitra mādhuryasaubhāgyadayākṣamādyaiḥ ||128|| (92)

  128. jñānavairāgyabhaktyādi sādhayantu yathā tathā | caitanyacaraṇāmbhoja bhaktilabhyasamaṃ kutaḥ ||129|| (94)

  129. hā hanta hanta paramoṣaracittabhūmau vyarthībhavanti mama sādhanakoṭayo'pi | sarvātmanā tadahamadbhutabhaktibījaṃ śrīgauracandracaraṇaṃ śaraṇaṃ karomi ||130|| (52)

  130. sarvasādhanahīno'pi paramāścaryavaibhave | gaurāṅge nyastabhāvo yaḥ sarvārthapūrṇa eva saḥ ||131|| (30)

  131. brahmeśādimahāścaryamahimāpi mahāprabhuḥ | mugdhabāloditaṃ śrutvā snigdho'vaśyaṃ bhaviṣyati ||132|| (142)

  132. dṛṣṭaṃ na śāstraṃ guravo na pṛṣṭā vivecitaṃ nāpi budhaiḥ svabuddhyā | yathā tathā jalpatu bālabhāvāt tathāpi me gaurahariḥ prasīdatu ||133|| (143)

  133. kecitsāgarabhūdharānapi parākrāmanti nṛtyanti vai keciddevapurandarādiṣmahākṣepaṃ kṣipante muhuḥ | ānandodbhaṭajālavihvalatayā te'dvaitacandrādayaḥ ke kiṃ no kṛtavanta īdṛśi punaścaitanyanṛtyotsave ||134|| (27)

  134. avatīrṇe gauracandre vistīrṇe premasāgare | ye na majjanti majjanti te mahānarthasāgare ||135|| (35)

  135. prasāritamahāpremapīyūṣarasasāgare | caitanyacandre prakaṭe yo dīno dīna eva saḥ ||136|| (36)

  136. gītābhāgavataṃ paṭhatvavirataṃ tīrthāni saṃsevatāṃ śālagrāmaśilāṃ samarcayatu vā kālatrayaṃ pratyaham | muktibhyo mahatīṃ pumānna labhate tatkoṣabhūṣāṅkarīṃ bhaktiṃ premamayīṃ śacīsutapadadvandvānukampāṃ vinā ||137|| (?)

  137. āśā yasya padadvandve caitanyasya mahāprabhoḥ | tasyendro dāsavadbhāti kā kathā nṛpakīṭake ||138|| (96)

  138. yasyāśā kṛṣṇacaitanye rājadvāri kimarthinaḥ | cintāmaṇicayaṃ prāpya ko gūḍho rajataṃ vrajet ||139|| (97)

  139. mādyatkoṭimṛgendrahuṅkṛtiravastigmāṃśukoṭicchaviḥ koṭīndūdbhavaśītalo gatijitapronmattakoṭidvipaḥ | nāmnā duṣkṛtakoṭiniṣkṛtikaro brahmādikoḍīśvaraḥ koṭyadvaitaśiromaṇirvijayate śrīśrīśacīnandanaḥ ||140|| (103)

  140. atipuṇyairatisukṛtaiḥ kṛtārthīkṛtaḥ ko'pi pūrvaiḥ | evaṃ kairapi na kṛtaṃ yatpremābdhau nimajjitaṃ viśvam ||141|| (126)

  141. yadi nigaditamīnādyaṃśavadgauracandro na tadapi sa hi kaścicchaktilīlāvikāśaḥ | atulasakalaśaktyāścaryalīlāprakāśair anadhigatamahattvaḥ pūrṇa evāvatīrṇaḥ ||142|| (141)

  142. saṃsārasindhutaraṇe hṛdayaṃ yadi syāt saṅkīrtanāmṛtarase ramate manaścet | premāmbudhau viharaṇe yadi cittavṛttiś caitanyacandracaraṇe śaraṇaṃ prayātu ||143|| (93)

  143. acaitanyamidaṃ viśvaṃ yadi caitanyamīśvaram | bhajetsarvato mṛtyurupāsyamamarottamaiḥ ||??|| (95)

How to use this page
  1. Tap Kirtan for large text that keeps the screen awake. Press Start to scroll while you sing; touch the screen to pause.

  2. Tap Aa to change the text size and line spacing, or to show both, lyrics only or translation only. Your choice is remembered.

  3. Under Read in, pick a script to read the same text in Devanagari, Bengali, Tamil, Telugu and more.

  4. Compare shows the lyrics side by side in two scripts, such as Devanagari and Roman, verse by verse. Choose any script or a translation for each column; on songs and prayers, Show meaning adds the meaning under each verse.

  5. Tap Save to keep this page under Your songs on the home page. Pages you open appear there too, on this device only.

  6. Share sends a link to this page. PDF makes a clean sheet without menus, to save or print.

  7. At the end, Previous and Next take you through the list in order.

All tips

Text: Sanskrit Wikisource (Sanskrit Wikisource contributors (history: https://sa.wikisource.org/w/index.php?title=%E0%A4%9A%E0%A5%88%E0%A4%A4%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%AE%E0%A5%8D&action=history)),CC BY-SA 4.0, retrieved 2026-10-26. Other scripts and the Roman transliteration are generated automatically.