गणेशबाह्यपूजा

Auto-scrollSpeed 3

Touch the screen or press any key to pause.

Reading settings

Text size
Show
Layout (wide screens)
Line spacing
  1. ॥ गणेशबाह्यपूजा ॥ ऐल उवाच - बाह्मपूजां वद विभो गृत्समदप्रकीर्तिताम् । तेन मार्गेण विघ्नेशं भजिष्यसि निरन्तरम् ॥ १ गार्ग्य उवाच- आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः। बाह्यां चकार विधिवत्तां शृणुष्व सुखप्रदाम् ॥ २ हृदि ध्यात्वा गणेशानं परिवारादिसंयुतम् । नासिकारन्ध्रमार्गेण तं बाह्याङ्गं चकार ह॥ ३ आदौ वैदिकमन्त्रं स गणानान्वेति सम्पठन् । पश्चाच्छ्लोकं समुच्चार्य पूजयामास विघ्नपम् ॥ ४ गृत्समद उवाच- चतुर्बाहुं त्रिनेत्रं च गजास्य रक्तवर्णकम् । पाशाङ्कुशादिसंयुक्तं मायायुक्तं प्रचिन्तयेत् ॥ ५ आगच्छ ब्रह्मणां नाथ सुरासुरवरार्चित । सिद्धिबुद्ध्यादिसंयुक्त भक्तिग्रहणलालस ॥ ६

  2. कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो । विघ्नेशानुगृहीतोऽहं सफलो मे भवोऽभवत् ॥ ७ रत्नसिह्मासनं स्वामिन् गृहाण गणनायक । तत्रोपविश्य विघ्नेश रक्ष भक्तान्विशेषतः ॥ ८ सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो । शीतोष्णाम्भः करोमि ते गृहाण पाद्यमुत्तमम् ॥ ९ सर्वतीर्थाहृतं तोयं सुवासित सुवस्तुभिः । आचमनं च तेनैव कुरुष्व गणनायक ॥ १० रत्नप्रवालमुक्ताद्यैरनर्घैः संस्कृतं प्रभो । अर्घ्यं गृहाण हेरम्ब द्विरदानन तोषकम् ॥ ११ दधिमधुघृतैर्युक्तं मधुपर्कं गजानन । गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते ॥ १२ पाद्ये च मधुपर्के च स्नाने वस्रोपधारणे । उपवीते भोजनान्ते पुनराचमनं कुरु ॥ १३ चम्पकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् । अभ्यङ्गं कुरु सर्वेश लम्बोदर नमोऽस्तु ते ॥ १४

  3. यक्षकर्दमकाद्यैश्च विघ्नेश भक्तवत्सल । उद्वर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो ॥ १५ नानातीर्थजलैर्ढुण्ढे सुखोष्णभावरूपकैः । कमण्डलूद्भवैः स्नानं मया कुरु समर्पितैः ॥ १६ कामधेनुसमुद्भूतं पयः परमपावनम् । तेन स्नानं कुरुष्व त्वं हेरम्ब परमार्थवित् ॥ १७ पञ्चामृतानां मध्ये तु जलैः स्नानं पुनः पुनः । कुरु त्वं सर्वतीर्थेभ्यो गङ्गादिभ्यः समाहृतैः ॥ १८ दधि धेनुपयोद्भूतं मलापहरणं परम् । गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥ १९ धेनोः समुद्भवं ढुण्ढे घृतं सन्तोषकारकम् । महामलापघातार्थं तेन स्नानं कुरु प्रभो ॥ २० सारघं संस्कृतं पूर्णं मधु मधुरसोद्भवम् । गृहाण स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥ २१ इक्षुदण्डसमुद्भूतां शर्करां मलनाशिनीम् । गृहण गणनाय त्वं तया स्नानं समाचर ॥ २२

  4. यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर । आन्त्यं मलहरं शुद्धं सर्वसौगन्ध्यैककारकम् ॥ २३ ततो गन्धाक्षतादींश्च दूर्वाङ्कूरान्गजानन । समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥ २४ ब्रह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः। अभिषेकं करोमि त्वं गृहाण द्विरदानन ॥ २५ तत आचमनं देव सुवासितजलेन च । कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥ २६ वस्त्रयुग्मं गृहाण त्वमनर्घं रक्तवर्णकम् । लोकलज्जाहरं चैव विघ्ननाथ नमोऽस्तु ते ॥ २७ उत्तरीयं सुचित्रं वै नभस्ताराङ्कितं यथा । गृहाण सर्वसिद्धीश मया दत्तं सुभक्तितः ॥ २८ उपवीतं गणाध्यक्ष गृहाण च ततः परम् । त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥ २९ ततः सिन्दूरकं देव गृहाण गणनायक । अङ्गलेपनभावार्थं सदानन्दविवर्धनम् ॥ ३० नानाभूषणकानि त्वमङ्गेषु विविधेषु च । भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भो ॥ ३१ अष्टगन्धसमायुक्तं गन्धं रक्तं गजानन । द्वादशाङ्गेषु ते ढुण्ढे लेपयामि सुचित्रवत् ॥ ३२ रक्तचन्दनसंयुक्तानथवा कुङ्कुमैर्युतान् । अक्षतान् विघ्नराज त्वं गृहाण मुखमण्डले ॥ ३३ चम्पकादिसुवृक्षेभ्यः सम्भूतानि गजानन । पुष्पाणि शमिमन्दारदूर्वादीनि गृहाण च ॥ ३४ दशाङ्गं गुग्गुलुं धूपं सर्वसौरभकारकम् । गृहाण त्वं मया दत्तं विनायक महोदर ॥ ३५ नानाजातिभवं दीपं गृहाण गणनायक । अज्ञानमलजं दोषं हरन्तं ज्योतिरूपकम् ॥ ३६ चतुर्विधान्नसम्पन्नं मधुरं लड्डुकादिकम् । नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप ॥ ३७ सुवासितं गृहाणेदं जलं तीर्थसमाहृतम् । भुक्तिमध्ये च पानार्थ देवदेवेश ते नमः॥३८ भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च । कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥ ३९ दाडिमं खर्जुरं द्राक्षां रम्भादीनि फलानि वै । गृहाण देवदेवेश नानामधुरकाणि तु ॥ ४० अष्टाङ्गं देव ताम्बूलं गृहाण मुखवासनम् । असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥ ४१ दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवाम् । रत्नाद्यैः संयुतां ढुण्ढे गृहाण सकलप्रिय ॥ ४२ राजोपचारकाद्यानि गृहाण गणनायक । दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥ ४३ तत आभरणं तेऽहमर्पयामि विधानतः। उपचारैश्च विविधैः तेन तुष्टो भव प्रभो ॥ ४४ ततो दूर्वाङ्कुरान्ढुण्ढे एकविंशतिसङ्ख्यकान् । गृहाण न्यूनसिद्धयर्थ भक्तवात्सल्यकारणात् ॥ ४५ नानादीपसमायुक्तं नीराजनमघापहन् । गृहाण भावसंयुक्तं सर्वाज्ञानाधिनाशन ॥ ४६ गणानां त्वेति मन्त्रस्य जपं साहस्रकं परम् । गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥ ४७ आरात्रिकं सुकर्पूरं नानादीपमयं प्रभो । गृहाण ज्योतिषां नाथ तथा नीराजयाम्यहम् ॥ ४८ पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो। एकं तु सप्तवारं वै सर्वाङ्गेषु निरञ्जनम् ॥ ४९ चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन । मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥ ५० पञ्चप्रकारकैः स्तोत्रैर्गाणपत्यैर्गणाधिप । स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक ॥ ५१ एकविंशतिसङ्ख्यं वा त्रिसङ्ख्यं वा गजानन । प्रादाक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन ॥ ५२ साष्टाङ्गां प्रणतिं नाथ एकविंशतिसम्मिताम् । हेरम्ब सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥ ५३ न्यूनातिरिक्तभावार्थं किञ्चिद्दूर्वाङ्कुरान्प्रभो । समर्पयामि तेन त्वं साङ्गां पूजों कुरुष्व ताम् ॥५४ त्वया दतं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम् । शिखायां धास्याम्येव सदा सर्वप्रदं च तत् ॥ ५५ अपराधानसङ्ख्यातान्क्षमख गणनायक। भक्तं कुरु च मां ढुण्ढे तव पादप्रियं सदा ॥ ५६ त्वं माता त्वं पिता मे वै सुहृत्सम्बन्धिकादयः। त्वमेव कुलदेवश्च सर्व त्वं मे न संशयः ॥५७ जाग्रत्स्वप्रसुषुप्तिभिर्देङ्भानसैः कृतम् । सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥५८ बाह्यं नानाविधं पापं महोग्रं तल्लयं ब्रजेत् । गणेशपादतीर्थस्य मस्तके धारणास्किल ॥ ५९ पादोदकं गणेशस्य पीतं मयेन तत्क्षणात् । सर्वान्तर्गतजं पापं नश्यति गणनातिगम् ।।६० गणेशोच्छिष्टगन्धं वै.द्वादशाङ्गेषु चर्चयेत् । राणेशतुल्यरूपः स दर्शनात्सर्वपापहा ॥६१ यदा गणेशपूजादौ गन्धभस्मादिकं चरेत् । अथुवोच्छिष्टगन्धं तु नो चेत्तत्र विधि वरेतु ॥ ६२ द्वादशाङ्गेषु विघ्नेशं नाममन्त्रेण चार्चयेत् । तेन सोऽपि गणेशेन समो भवति भूतले ॥६३ मूर्ध्नि गाणेश्वरं चादौ ललाटे विघ्ननायकम् । दक्षिणे कर्णमूले तु वक्रतुण्डं संमर्चयेत् ॥ ६४ वामे कर्णस्य मूले वै चैकदन्तं समर्चयेत् । कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥ ६५ बाहौ दक्षिणके चैव हेरम्ब वामबाहुके । विकट नाभिदेशे तु विघ्ननाथं समर्चयेत् ।। ६६ कुक्षौ दक्षिणगायां तु मयूरेशं समर्चयेत् । वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥ ६७ सर्वाङ्गलेपनं शस्तं चित्रितं त्ताष्टगन्धकैः गाणेशानां विशेषेण सर्वभद्रस्य कारणात् ।।६८ ततः शिष्टं तु नैवेद्यं गणेशस्य भुनज्म्यहम् । भुक्तिमुक्तिप्रदं पूर्ण नानापापनिकृन्तनम् ।।६९ गणेशस्मरणेनैव करोमि कालखण्डनम् । गाणपत्यैश्च संवासः सदा मेऽस्तु गजानन ॥ ७० . । गार्ग्य उवाच- एवं गृत्समदश्चैव चकार बाह्यपूजनम् । त्रिकालेषु महायोगी सदा भक्तिसमन्वितः॥ ७१ तथा कुरु महीपाल गाणपत्यो भविष्यति । . यथा गृत्समदः साक्षात्तथा त्वमपि निश्चितम् ॥४२ ॥ इति श्रीमदास्ये मौद्गल्ये बाह्यपूजा समाप्ता ॥

Roman transliteration (IAST)

Automatic transliteration.

  1. || gaṇeśabāhyapūjā || aila uvāca - bāhmapūjāṃ vada vibho gṛtsamadaprakīrtitām | tena mārgeṇa vighneśaṃ bhajiṣyasi nirantaram || 1 gārgya uvāca- ādau ca mānasīṃ pūjāṃ kṛtvā gṛtsamado muniḥ| bāhyāṃ cakāra vidhivattāṃ śṛṇuṣva sukhapradām || 2 hṛdi dhyātvā gaṇeśānaṃ parivārādisaṃyutam | nāsikārandhramārgeṇa taṃ bāhyāṅgaṃ cakāra ha|| 3 ādau vaidikamantraṃ sa gaṇānānveti sampaṭhan | paścācchlokaṃ samuccārya pūjayāmāsa vighnapam || 4 gṛtsamada uvāca- caturbāhuṃ trinetraṃ ca gajāsya raktavarṇakam | pāśāṅkuśādisaṃyuktaṃ māyāyuktaṃ pracintayet || 5 āgaccha brahmaṇāṃ nātha surāsuravarārcita | siddhibuddhyādisaṃyukta bhaktigrahaṇalālasa || 6

  2. kṛtārtho'haṃ kṛtārtho'haṃ tavāgamanataḥ prabho | vighneśānugṛhīto'haṃ saphalo me bhavo'bhavat || 7 ratnasihmāsanaṃ svāmin gṛhāṇa gaṇanāyaka | tatropaviśya vighneśa rakṣa bhaktānviśeṣataḥ || 8 suvāsitābhiradbhiśca pādaprakṣālanaṃ prabho | śītoṣṇāmbhaḥ karomi te gṛhāṇa pādyamuttamam || 9 sarvatīrthāhṛtaṃ toyaṃ suvāsita suvastubhiḥ | ācamanaṃ ca tenaiva kuruṣva gaṇanāyaka || 10 ratnapravālamuktādyairanarghaiḥ saṃskṛtaṃ prabho | arghyaṃ gṛhāṇa heramba dviradānana toṣakam || 11 dadhimadhughṛtairyuktaṃ madhuparkaṃ gajānana | gṛhāṇa bhāvasaṃyuktaṃ mayā dattaṃ namo'stu te || 12 pādye ca madhuparke ca snāne vasropadhāraṇe | upavīte bhojanānte punarācamanaṃ kuru || 13 campakādyairgaṇādhyakṣa vāsitaṃ tailamuttamam | abhyaṅgaṃ kuru sarveśa lambodara namo'stu te || 14

  3. yakṣakardamakādyaiśca vighneśa bhaktavatsala | udvartanaṃ kuruṣva tvaṃ mayā dattairmahāprabho || 15 nānātīrthajalairḍhuṇḍhe sukhoṣṇabhāvarūpakaiḥ | kamaṇḍalūdbhavaiḥ snānaṃ mayā kuru samarpitaiḥ || 16 kāmadhenusamudbhūtaṃ payaḥ paramapāvanam | tena snānaṃ kuruṣva tvaṃ heramba paramārthavit || 17 pañcāmṛtānāṃ madhye tu jalaiḥ snānaṃ punaḥ punaḥ | kuru tvaṃ sarvatīrthebhyo gaṅgādibhyaḥ samāhṛtaiḥ || 18 dadhi dhenupayodbhūtaṃ malāpaharaṇaṃ param | gṛhāṇa snānakāryārthaṃ vināyaka dayānidhe || 19 dhenoḥ samudbhavaṃ ḍhuṇḍhe ghṛtaṃ santoṣakārakam | mahāmalāpaghātārthaṃ tena snānaṃ kuru prabho || 20 sāraghaṃ saṃskṛtaṃ pūrṇaṃ madhu madhurasodbhavam | gṛhāṇa snānakāryārthaṃ vināyaka namo'stu te || 21 ikṣudaṇḍasamudbhūtāṃ śarkarāṃ malanāśinīm | gṛhaṇa gaṇanāya tvaṃ tayā snānaṃ samācara || 22

  4. yakṣakardamakādyaiśca snānaṃ kuru gaṇeśvara | āntyaṃ malaharaṃ śuddhaṃ sarvasaugandhyaikakārakam || 23 tato gandhākṣatādīṃśca dūrvāṅkūrāngajānana | samarpayāmi svalpāṃstvaṃ gṛhāṇa parameśvara || 24 brahmaṇaspatyasūktaiśca hyekaviṃśativārakaiḥ| abhiṣekaṃ karomi tvaṃ gṛhāṇa dviradānana || 25 tata ācamanaṃ deva suvāsitajalena ca | kuruṣva gaṇanātha tvaṃ sarvatīrthabhavena vai || 26 vastrayugmaṃ gṛhāṇa tvamanarghaṃ raktavarṇakam | lokalajjāharaṃ caiva vighnanātha namo'stu te || 27 uttarīyaṃ sucitraṃ vai nabhastārāṅkitaṃ yathā | gṛhāṇa sarvasiddhīśa mayā dattaṃ subhaktitaḥ || 28 upavītaṃ gaṇādhyakṣa gṛhāṇa ca tataḥ param | traiguṇyamayarūpaṃ tu praṇavagranthibandhanam || 29 tataḥ sindūrakaṃ deva gṛhāṇa gaṇanāyaka | aṅgalepanabhāvārthaṃ sadānandavivardhanam || 30 nānābhūṣaṇakāni tvamaṅgeṣu vividheṣu ca | bhāsurasvarṇaratnaiśca nirmitāni gṛhāṇa bho || 31 aṣṭagandhasamāyuktaṃ gandhaṃ raktaṃ gajānana | dvādaśāṅgeṣu te ḍhuṇḍhe lepayāmi sucitravat || 32 raktacandanasaṃyuktānathavā kuṅkumairyutān | akṣatān vighnarāja tvaṃ gṛhāṇa mukhamaṇḍale || 33 campakādisuvṛkṣebhyaḥ sambhūtāni gajānana | puṣpāṇi śamimandāradūrvādīni gṛhāṇa ca || 34 daśāṅgaṃ gugguluṃ dhūpaṃ sarvasaurabhakārakam | gṛhāṇa tvaṃ mayā dattaṃ vināyaka mahodara || 35 nānājātibhavaṃ dīpaṃ gṛhāṇa gaṇanāyaka | ajñānamalajaṃ doṣaṃ harantaṃ jyotirūpakam || 36 caturvidhānnasampannaṃ madhuraṃ laḍḍukādikam | naivedyaṃ te mayā dattaṃ bhojanaṃ kuru vighnapa || 37 suvāsitaṃ gṛhāṇedaṃ jalaṃ tīrthasamāhṛtam | bhuktimadhye ca pānārtha devadeveśa te namaḥ||38 bhojanānte karodvartaṃ yakṣakardamakena ca | kuruṣva tvaṃ gaṇādhyakṣa piba toyaṃ suvāsitam || 39 dāḍimaṃ kharjuraṃ drākṣāṃ rambhādīni phalāni vai | gṛhāṇa devadeveśa nānāmadhurakāṇi tu || 40 aṣṭāṅgaṃ deva tāmbūlaṃ gṛhāṇa mukhavāsanam | asakṛdvighnarāja tvaṃ mayā dattaṃ viśeṣataḥ || 41 dakṣiṇāṃ kāñcanādyāṃ tu nānādhātusamudbhavām | ratnādyaiḥ saṃyutāṃ ḍhuṇḍhe gṛhāṇa sakalapriya || 42 rājopacārakādyāni gṛhāṇa gaṇanāyaka | dānāni tu vicitrāṇi mayā dattāni vighnapa || 43 tata ābharaṇaṃ te'hamarpayāmi vidhānataḥ| upacāraiśca vividhaiḥ tena tuṣṭo bhava prabho || 44 tato dūrvāṅkurānḍhuṇḍhe ekaviṃśatisaṅkhyakān | gṛhāṇa nyūnasiddhayartha bhaktavātsalyakāraṇāt || 45 nānādīpasamāyuktaṃ nīrājanamaghāpahan | gṛhāṇa bhāvasaṃyuktaṃ sarvājñānādhināśana || 46 gaṇānāṃ tveti mantrasya japaṃ sāhasrakaṃ param | gṛhāṇa gaṇanātha tvaṃ sarvasiddhiprado bhava || 47 ārātrikaṃ sukarpūraṃ nānādīpamayaṃ prabho | gṛhāṇa jyotiṣāṃ nātha tathā nīrājayāmyaham || 48 pādayoste tu catvāri nābhau dve vadane prabho| ekaṃ tu saptavāraṃ vai sarvāṅgeṣu nirañjanam || 49 caturvedabhavairmantrairgāṇapatyairgajānana | mantritāni gṛhāṇa tvaṃ puṣpapatrāṇi vighnapa || 50 pañcaprakārakaiḥ stotrairgāṇapatyairgaṇādhipa | staumi tvāṃ tena santuṣṭo bhava bhaktipradāyaka || 51 ekaviṃśatisaṅkhyaṃ vā trisaṅkhyaṃ vā gajānana | prādākṣiṇyaṃ gṛhāṇa tvaṃ brahman brahmeśabhāvana || 52 sāṣṭāṅgāṃ praṇatiṃ nātha ekaviṃśatisammitām | heramba sarvapūjya tvaṃ gṛhāṇa tu mayā kṛtām || 53 nyūnātiriktabhāvārthaṃ kiñciddūrvāṅkurānprabho | samarpayāmi tena tvaṃ sāṅgāṃ pūjoṃ kuruṣva tām ||54 tvayā dataṃ svahastena nirmālyaṃ cintayāmyaham | śikhāyāṃ dhāsyāmyeva sadā sarvapradaṃ ca tat || 55 aparādhānasaṅkhyātānkṣamakha gaṇanāyaka| bhaktaṃ kuru ca māṃ ḍhuṇḍhe tava pādapriyaṃ sadā || 56 tvaṃ mātā tvaṃ pitā me vai suhṛtsambandhikādayaḥ| tvameva kuladevaśca sarva tvaṃ me na saṃśayaḥ ||57 jāgratsvaprasuṣuptibhirdeṅbhānasaiḥ kṛtam | sāṃsargikeṇa yatkarma gaṇeśāya samarpaye ||58 bāhyaṃ nānāvidhaṃ pāpaṃ mahograṃ tallayaṃ brajet | gaṇeśapādatīrthasya mastake dhāraṇāskila || 59 pādodakaṃ gaṇeśasya pītaṃ mayena tatkṣaṇāt | sarvāntargatajaṃ pāpaṃ naśyati gaṇanātigam ||60 gaṇeśocchiṣṭagandhaṃ vai.dvādaśāṅgeṣu carcayet | rāṇeśatulyarūpaḥ sa darśanātsarvapāpahā ||61 yadā gaṇeśapūjādau gandhabhasmādikaṃ caret | athuvocchiṣṭagandhaṃ tu no cettatra vidhi varetu || 62 dvādaśāṅgeṣu vighneśaṃ nāmamantreṇa cārcayet | tena so'pi gaṇeśena samo bhavati bhūtale ||63 mūrdhni gāṇeśvaraṃ cādau lalāṭe vighnanāyakam | dakṣiṇe karṇamūle tu vakratuṇḍaṃ saṃmarcayet || 64 vāme karṇasya mūle vai caikadantaṃ samarcayet | kaṇṭhe lambodaraṃ devaṃ hṛdi cintāmaṇiṃ tathā || 65 bāhau dakṣiṇake caiva heramba vāmabāhuke | vikaṭa nābhideśe tu vighnanāthaṃ samarcayet || 66 kukṣau dakṣiṇagāyāṃ tu mayūreśaṃ samarcayet | vāmakukṣau gajāsyaṃ vai pṛṣṭhe svānandavāsinam || 67 sarvāṅgalepanaṃ śastaṃ citritaṃ ttāṣṭagandhakaiḥ gāṇeśānāṃ viśeṣeṇa sarvabhadrasya kāraṇāt ||68 tataḥ śiṣṭaṃ tu naivedyaṃ gaṇeśasya bhunajmyaham | bhuktimuktipradaṃ pūrṇa nānāpāpanikṛntanam ||69 gaṇeśasmaraṇenaiva karomi kālakhaṇḍanam | gāṇapatyaiśca saṃvāsaḥ sadā me'stu gajānana || 70 . | gārgya uvāca- evaṃ gṛtsamadaścaiva cakāra bāhyapūjanam | trikāleṣu mahāyogī sadā bhaktisamanvitaḥ|| 71 tathā kuru mahīpāla gāṇapatyo bhaviṣyati | . yathā gṛtsamadaḥ sākṣāttathā tvamapi niścitam ||42 || iti śrīmadāsye maudgalye bāhyapūjā samāptā ||

How to use this page
  1. Tap Kirtan for large text that keeps the screen awake. Press Start to scroll while you sing; touch the screen to pause.

  2. Tap Aa to change the text size and line spacing, or to show both, lyrics only or translation only. Your choice is remembered.

  3. Under Read in, pick a script to read the same text in Devanagari, Bengali, Tamil, Telugu and more.

  4. Compare shows the lyrics side by side in two scripts, such as Devanagari and Roman, verse by verse. Choose any script or a translation for each column; on songs and prayers, Show meaning adds the meaning under each verse.

  5. Tap Save to keep this page under Your songs on the home page. Pages you open appear there too, on this device only.

  6. Share sends a link to this page. PDF makes a clean sheet without menus, to save or print.

  7. At the end, Previous and Next take you through the list in order.

All tips

Text: Sanskrit Wikisource (Sanskrit Wikisource contributors (history: https://sa.wikisource.org/w/index.php?title=%E0%A4%97%E0%A4%A3%E0%A5%87%E0%A4%B6%E0%A4%AC%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%82%E0%A4%9C%E0%A4%BE&action=history)),CC BY-SA 4.0, retrieved 2026-10-26. Other scripts and the Roman transliteration are generated automatically.