मुकुन्दमाला

Auto-scrollSpeed 3

Touch the screen or press any key to pause.

Reading settings

Text size
Show
Layout (wide screens)
Line spacing
  1. मुकुन्दमाला कुलशेखरः

  2. घुष्यते यस्य नगरे रङ्गयात्रा दिने दिने । तम् अहं शिरसा वन्दे राजानं कुलशेखरम् ॥

  3. श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति । नाथेति नागशयनेति जगन्निवासेत्यालापिनं प्रतिदिनं कुरु मां मुकुन्द ॥ मुकुन्दमाला.१ ॥

  4. जयतु जयतु देवो देवकीनन्दनो ऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ मुकुन्दमाला.२ ॥

  5. मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् । अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ॥ मुकुन्दमाला.३ ॥

  6. नाहं वन्दे तव चरणयोर्द्वन्द्वम् अद्वन्द्वहेतोः कुम्भीपाकं गुरुम् अपि हरे नारकं नापनेतुम् । रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं भावे भावे हृदयभवने भावयेयं भवन्तम् ॥ मुकुन्दमाला.४ ॥

  7. नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद् भाव्यं तद् भवतु भगवन् पूर्वकर्मानुरूपम् । एतत् प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ मुकुन्दमाला.५ ॥

  8. दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् । अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ मुकुन्दमाला.६ ॥

  9. कृष्ण त्वदीयपदपङ्कजपञ्जरान्तर् अद्यैव मे विशतु मानसराजहंसः । प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ मुकुन्दमाला.७ ॥

  10. चिन्तयामि हरिमेव सन्ततं मन्दमन्दहासिताननाम्बुजम् । नन्दगोपतनयं परात्परं नारदादिमुनिवृन्दवन्दितम् ॥ मुकुन्दमाला.८ ॥

  11. करचरणसरोजे कान्तिमन्नेत्रमीने श्रममुषि भुजवीचिव्याकुलेऽगाधमार्गे । हरिसरसि विगाह्यापीय तेजोजलौघं भवमरुपरिखिन्नः खेदमद्य त्यजामि ॥ मुकुन्दमाला.९ ॥

  12. सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमस्व चित्त रन्तुम् । सुखतरम् अपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम् ॥ मुकुन्दमाला.१० ॥

  13. माभीर् मन्दमनो विचिन्त्य बहुधा यामीश् चिरं यातना नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः । आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ मुकुन्दमाला.११ ॥

  14. भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् । विषमविषयतोये मज्जताम् अप्लवानां भवतु शरणम् एको विष्णुपोतो नराणाम् ॥ मुकुन्दमाला.१२ ॥

  15. भवजलधिम् अगाधं दुस्तरं निस्तरेयं कथम् अहम् इति चेतो मा स्म गाः कातरत्वम् । सरसिजदृशि देवे तावकी भक्तिर् एका नरकभिदि निषण्णा तारयिष्यत्य् अवश्यम् ॥ मुकुन्दमाला.१३ ॥

  16. तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसङ्घाकुले च । संसाराख्ये महति जलधौ मज्जतां नस् त्रिधामन् पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ ॥ मुकुन्दमाला.१४ ॥

  17. मा द्राक्षं क्षीणपुण्यान् क्षणम् अपि भवतो भक्तिहीनान् पदाब्जे मा श्रौषं श्राव्यबन्धं तव चरितम् अपास्यान्यद् आख्यानजातम् । मा स्मार्षं माधव त्वाम् अपि भुवनपते चेतसापह्नुवानान् मा भूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मान्तरे ऽपि ॥ मुकुन्दमाला.१५ ॥

  18. जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु । कृष्णं लोकय लोचनद्वय हरेर् गच्छाङ्घ्रियुग्मालयं जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन् नमाधोक्षजम् ॥ मुकुन्दमाला.१६ ॥

  19. हे लोकाः शृणुत प्रसूतिमरणव्याधेश् चिकित्साम् इमां योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः । अन्तर्ज्योतिर् अमेयम् एकम् अमृतं कृष्णाख्यम् आपीयतां तत् पीतं परमौषधं वितनुते निर्वाणम् आत्यन्तिकम् ॥ मुकुन्दमाला.१७ ॥

  20. हे मर्त्याः परमं हितं शृणुत वो वक्ष्यामि सङ्क्षेपतः संसारार्णवम् आपदूर्मिबहुलं सम्यक् प्रविश्य स्थिताः । नानाज्ञानम् अपास्य चेतसि नमो नारायणायेत्य् अमुं मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥ मुकुन्दमाला.१८ ॥

  21. पृथ्वी रेणुर् अणुः पयांसि कणिकाः फल्गुः स्फुलिङ्गो लघुः तेजो निःश्वसनं मरुत् तनुतरं रन्ध्रं सुसूक्ष्मं नभः । क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुराः दृष्टे यत्र स तावको विजयते भूमावधूतावधिः ॥ मुकुन्दमाला.१९ ॥

  22. बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना । नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम् अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥ मुकुन्दमाला.२० ॥

  23. हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव । हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ मुकुन्दमाला.२१ ॥

  24. भक्तापायभुजाङ्गगारुडमणिस् त्रैलोक्यरक्षामणिर् गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः । यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः श्रेयो देवशिखामणिर् दिशतु नो गोपालचूडामणिः ॥ मुकुन्दमाला.२२ ॥

  25. शत्रुच्छेदैकमन्त्रं सकलम् उपनिषद्वाक्यसम्पूज्यमन्त्रं संसारोत्तारमन्त्रं समुपचिततमसः सङ्घनिर्याणमन्त्रम् । सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥ मुकुन्दमाला.२३ ॥

  26. व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं दैत्येन्द्रार्तिकरौषधं त्रिभुवने सञ्जीवनैकौषधम् । भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥ मुकुन्दमाला.२४ ॥

  27. आम्नायाभ्यसनान्य् अरण्यरुदितं वेदव्रतान्य् अन्वहं मेदश्छेदफलानि पूर्तविधयः सर्वे हुतं भस्मनि । तीर्थानाम् अवगाहनानि च गजस्नानं विना यत्पद-द्वन्द्वाम्भोरुहसंस्मृतीर् विजयते देवः स नारायणः ॥ मुकुन्दमाला.२५ ॥

  28. श्रीमन्नाम प्रोच्य नारायणाख्यं के न प्रापुर् वाञ्छितं पापिनो ऽपि । हा नः पूर्वं वाक् प्रवृत्ता न तस्मिंस् तेन प्राप्तं गर्भवासादिदुःखम् ॥ मुकुन्दमाला.२६ ॥

  29. मज्जन्मनः फलम् इदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एष एव । त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य-भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ मुकुन्दमाला.२७ ॥

  30. नाथे नः पुरुषोत्तमे त्रिजगतां एकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति । यं कञ्चित् पुरुषाधमं कतिपयग्रामेशम् अल्पार्थदं सेवायै मृगयामहे नरम् अहो मूका वराका वयम् ॥ मुकुन्दमाला.२८ ॥

  31. मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि । हरनयनकृशानुना कृशो ऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥ मुकुन्दमाला.२९ ॥

  32. तत्त्वं ब्रुवाणानि परं परस्तान् मधु क्षरन्तीव सतां फलानि । प्रावर्तय प्राञ्जलिर् अस्मि जिह्वे नामानि नारायणगोचराणि ॥ मुकुन्दमाला.३० ॥

  33. इदं शरीरं परिणामपेशलं पतत्य् अवश्यं श्लथसन्धिजर्जरम् । किम् औषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥ मुकुन्दमाला.३१ ॥

  34. दारा वाराकरवरसुता ते तनूजो विरिञ्चः स्तोता वेदस् तव सुरगणो भृत्यवर्गः प्रसादः । मुक्तिर् माया जगद् अविकलं तावकी देवकी ते माता मित्रं बलरिपुसुतस् त्वय्य् अतो ऽन्यन् न जाने ॥ मुकुन्दमाला.३२ ॥

  35. कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमस्याम्य् अहं कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः । कृष्णाद् एव समुत्थितं जगद् इदं कृष्णस्य दासो ऽस्म्य् अहं कृष्णे तिष्ठति सर्वम् एतद् अखिलं हे कृष्ण संरक्ष माम् ॥ मुकुन्दमाला.३३ ॥

  36. स त्वं प्रसीद भगवन् कुरु मय्य् अनाथे विष्णो कृपां परमकारुणिकः किल त्वम् । संसारसागरनिमग्नम् अनन्त दीनम् उद्धर्तुम् अर्हसि हरे पुरुषोत्तमो ऽसि ॥ मुकुन्दमाला.३४ ॥

  37. नमामि नारायणपादपङ्कजं करोमि नारायणपूजनं सदा । वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वम् अव्ययम् ॥ मुकुन्दमाला.३५ ॥

  38. श्रीनाथ नारायण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे । श्रीपद्मनाभाच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे ॥ मुकुन्दमाला.३६ ॥

  39. अनन्त वैकुण्ठ मुकुन्द कृष्ण गोविन्द दामोदर माधवेति । वक्तुं समर्थो ऽपि न वक्ति कश्चिद् अहो जनानां व्यसनाभिमुख्यम् ॥ मुकुन्दमाला.३७ ॥

  40. ध्यायन्ति ये विष्णुम् अनन्तम् अव्ययं हृत्पद्ममध्ये सततं व्यवस्थितम् । समाहितानां सतताभय-प्रदं ते यान्ति सिद्धिं परमां तु वैष्णवीम् ॥ मुकुन्दमाला.३८ ॥

  41. क्षीरसागरतरङ्गशीकरा-सारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ मुकुन्दमाला.३९ ॥

  42. यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ मित्रे द्विजन्मवरपद्मशराव् अभूताम् । तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता कृतिर् इयं कुलशेखरेण ॥ मुकुन्दमाला.४० ॥

Roman transliteration (IAST)

Automatic transliteration.

  1. mukundamālā kulaśekharaḥ

  2. ghuṣyate yasya nagare raṅgayātrā dine dine | tam ahaṃ śirasā vande rājānaṃ kulaśekharam ||

  3. śrīvallabheti varadeti dayāpareti bhaktapriyeti bhavaluṇṭhanakovideti | nātheti nāgaśayaneti jagannivāsetyālāpinaṃ pratidinaṃ kuru māṃ mukunda || mukundamālā.1 ||

  4. jayatu jayatu devo devakīnandano 'yaṃ jayatu jayatu kṛṣṇo vṛṣṇivaṃśapradīpaḥ | jayatu jayatu meghaśyāmalaḥ komalāṅgo jayatu jayatu pṛthvībhāranāśo mukundaḥ || mukundamālā.2 ||

  5. mukunda mūrdhnā praṇipatya yāce bhavantamekāntamiyantamartham | avismṛtistvaccaraṇāravinde bhave bhave me'stu bhavatprasādāt || mukundamālā.3 ||

  6. nāhaṃ vande tava caraṇayordvandvam advandvahetoḥ kumbhīpākaṃ gurum api hare nārakaṃ nāpanetum | ramyā rāmā mṛdutanulatā nandane nāpi rantuṃ bhāve bhāve hṛdayabhavane bhāvayeyaṃ bhavantam || mukundamālā.4 ||

  7. nāsthā dharme na vasunicaye naiva kāmopabhoge yad bhāvyaṃ tad bhavatu bhagavan pūrvakarmānurūpam | etat prārthyaṃ mama bahumataṃ janmajanmāntare'pi tvatpādāmbhoruhayugagatā niścalā bhaktirastu || mukundamālā.5 ||

  8. divi vā bhuvi vā mamāstu vāso narake vā narakāntaka prakāmam | avadhīritaśāradāravindau caraṇau te maraṇe'pi cintayāmi || mukundamālā.6 ||

  9. kṛṣṇa tvadīyapadapaṅkajapañjarāntar adyaiva me viśatu mānasarājahaṃsaḥ | prāṇaprayāṇasamaye kaphavātapittaiḥ kaṇṭhāvarodhanavidhau smaraṇaṃ kutaste || mukundamālā.7 ||

  10. cintayāmi harimeva santataṃ mandamandahāsitānanāmbujam | nandagopatanayaṃ parātparaṃ nāradādimunivṛndavanditam || mukundamālā.8 ||

  11. karacaraṇasaroje kāntimannetramīne śramamuṣi bhujavīcivyākule'gādhamārge | harisarasi vigāhyāpīya tejojalaughaṃ bhavamaruparikhinnaḥ khedamadya tyajāmi || mukundamālā.9 ||

  12. sarasijanayane saśaṅkhacakre murabhidi mā viramasva citta rantum | sukhataram aparaṃ na jātu jāne haricaraṇasmaraṇāmṛtena tulyam || mukundamālā.10 ||

  13. mābhīr mandamano vicintya bahudhā yāmīś ciraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ | ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ lokasya vyasanāpanodanakaro dāsasya kiṃ na kṣamaḥ || mukundamālā.11 ||

  14. bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām | viṣamaviṣayatoye majjatām aplavānāṃ bhavatu śaraṇam eko viṣṇupoto narāṇām || mukundamālā.12 ||

  15. bhavajaladhim agādhaṃ dustaraṃ nistareyaṃ katham aham iti ceto mā sma gāḥ kātaratvam | sarasijadṛśi deve tāvakī bhaktir ekā narakabhidi niṣaṇṇā tārayiṣyaty avaśyam || mukundamālā.13 ||

  16. tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte tanayasahajagrāhasaṅghākule ca | saṃsārākhye mahati jaladhau majjatāṃ nas tridhāman pādāmbhoje varada bhavato bhaktināvaṃ prayaccha || mukundamālā.14 ||

  17. mā drākṣaṃ kṣīṇapuṇyān kṣaṇam api bhavato bhaktihīnān padābje mā śrauṣaṃ śrāvyabandhaṃ tava caritam apāsyānyad ākhyānajātam | mā smārṣaṃ mādhava tvām api bhuvanapate cetasāpahnuvānān mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare 'pi || mukundamālā.15 ||

  18. jihve kīrtaya keśavaṃ muraripuṃ ceto bhaja śrīdharaṃ pāṇidvandva samarcayācyutakathāḥ śrotradvaya tvaṃ śṛṇu | kṛṣṇaṃ lokaya locanadvaya harer gacchāṅghriyugmālayaṃ jighra ghrāṇa mukundapādatulasīṃ mūrdhan namādhokṣajam || mukundamālā.16 ||

  19. he lokāḥ śṛṇuta prasūtimaraṇavyādheś cikitsām imāṃ yogajñāḥ samudāharanti munayo yāṃ yājñavalkyādayaḥ | antarjyotir ameyam ekam amṛtaṃ kṛṣṇākhyam āpīyatāṃ tat pītaṃ paramauṣadhaṃ vitanute nirvāṇam ātyantikam || mukundamālā.17 ||

  20. he martyāḥ paramaṃ hitaṃ śṛṇuta vo vakṣyāmi saṅkṣepataḥ saṃsārārṇavam āpadūrmibahulaṃ samyak praviśya sthitāḥ | nānājñānam apāsya cetasi namo nārāyaṇāyety amuṃ mantraṃ sapraṇavaṃ praṇāmasahitaṃ prāvartayadhvaṃ muhuḥ || mukundamālā.18 ||

  21. pṛthvī reṇur aṇuḥ payāṃsi kaṇikāḥ phalguḥ sphuliṅgo laghuḥ tejo niḥśvasanaṃ marut tanutaraṃ randhraṃ susūkṣmaṃ nabhaḥ | kṣudrā rudrapitāmahaprabhṛtayaḥ kīṭāḥ samastāḥ surāḥ dṛṣṭe yatra sa tāvako vijayate bhūmāvadhūtāvadhiḥ || mukundamālā.19 ||

  22. baddhenāñjalinā natena śirasā gātraiḥ saromodgamaiḥ kaṇṭhena svaragadgadena nayanenodgīrṇabāṣpāmbunā | nityaṃ tvaccaraṇāravindayugaladhyānāmṛtāsvādinām asmākaṃ sarasīruhākṣa satataṃ sampadyatāṃ jīvitam || mukundamālā.20 ||

  23. he gopālaka he kṛpājalanidhe he sindhukanyāpate he kaṃsāntaka he gajendrakaruṇāpārīṇa he mādhava | he rāmānuja he jagattrayaguro he puṇḍarīkākṣa māṃ he gopījananātha pālaya paraṃ jānāmi na tvāṃ vinā || mukundamālā.21 ||

  24. bhaktāpāyabhujāṅgagāruḍamaṇis trailokyarakṣāmaṇir gopīlocanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ | yaḥ kāntāmaṇirukmiṇīghanakucadvandvaikabhūṣāmaṇiḥ śreyo devaśikhāmaṇir diśatu no gopālacūḍāmaṇiḥ || mukundamālā.22 ||

  25. śatrucchedaikamantraṃ sakalam upaniṣadvākyasampūjyamantraṃ saṃsārottāramantraṃ samupacitatamasaḥ saṅghaniryāṇamantram | sarvaiśvaryaikamantraṃ vyasanabhujagasandaṣṭasantrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram || mukundamālā.23 ||

  26. vyāmohapraśamauṣadhaṃ munimanovṛttipravṛttyauṣadhaṃ daityendrārtikarauṣadhaṃ tribhuvane sañjīvanaikauṣadham | bhaktātyantahitauṣadhaṃ bhavabhayapradhvaṃsanaikauṣadhaṃ śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇadivyauṣadham || mukundamālā.24 ||

  27. āmnāyābhyasanāny araṇyaruditaṃ vedavratāny anvahaṃ medaśchedaphalāni pūrtavidhayaḥ sarve hutaṃ bhasmani | tīrthānām avagāhanāni ca gajasnānaṃ vinā yatpada-dvandvāmbhoruhasaṃsmṛtīr vijayate devaḥ sa nārāyaṇaḥ || mukundamālā.25 ||

  28. śrīmannāma procya nārāyaṇākhyaṃ ke na prāpur vāñchitaṃ pāpino 'pi | hā naḥ pūrvaṃ vāk pravṛttā na tasmiṃs tena prāptaṃ garbhavāsādiduḥkham || mukundamālā.26 ||

  29. majjanmanaḥ phalam idaṃ madhukaiṭabhāre matprārthanīyamadanugraha eṣa eva | tvadbhṛtyabhṛtyaparicārakabhṛtyabhṛtya-bhṛtyasya bhṛtya iti māṃ smara lokanātha || mukundamālā.27 ||

  30. nāthe naḥ puruṣottame trijagatāṃ ekādhipe cetasā sevye svasya padasya dātari sure nārāyaṇe tiṣṭhati | yaṃ kañcit puruṣādhamaṃ katipayagrāmeśam alpārthadaṃ sevāyai mṛgayāmahe naram aho mūkā varākā vayam || mukundamālā.28 ||

  31. madana parihara sthitiṃ madīye manasi mukundapadāravindadhāmni | haranayanakṛśānunā kṛśo 'si smarasi na cakraparākramaṃ murāreḥ || mukundamālā.29 ||

  32. tattvaṃ bruvāṇāni paraṃ parastān madhu kṣarantīva satāṃ phalāni | prāvartaya prāñjalir asmi jihve nāmāni nārāyaṇagocarāṇi || mukundamālā.30 ||

  33. idaṃ śarīraṃ pariṇāmapeśalaṃ pataty avaśyaṃ ślathasandhijarjaram | kim auṣadhaiḥ kliśyasi mūḍha durmate nirāmayaṃ kṛṣṇarasāyanaṃ piba || mukundamālā.31 ||

  34. dārā vārākaravarasutā te tanūjo viriñcaḥ stotā vedas tava suragaṇo bhṛtyavargaḥ prasādaḥ | muktir māyā jagad avikalaṃ tāvakī devakī te mātā mitraṃ balaripusutas tvayy ato 'nyan na jāne || mukundamālā.32 ||

  35. kṛṣṇo rakṣatu no jagattrayaguruḥ kṛṣṇaṃ namasyāmy ahaṃ kṛṣṇenāmaraśatravo vinihatāḥ kṛṣṇāya tasmai namaḥ | kṛṣṇād eva samutthitaṃ jagad idaṃ kṛṣṇasya dāso 'smy ahaṃ kṛṣṇe tiṣṭhati sarvam etad akhilaṃ he kṛṣṇa saṃrakṣa mām || mukundamālā.33 ||

  36. sa tvaṃ prasīda bhagavan kuru mayy anāthe viṣṇo kṛpāṃ paramakāruṇikaḥ kila tvam | saṃsārasāgaranimagnam ananta dīnam uddhartum arhasi hare puruṣottamo 'si || mukundamālā.34 ||

  37. namāmi nārāyaṇapādapaṅkajaṃ karomi nārāyaṇapūjanaṃ sadā | vadāmi nārāyaṇanāma nirmalaṃ smarāmi nārāyaṇatattvam avyayam || mukundamālā.35 ||

  38. śrīnātha nārāyaṇa vāsudeva śrīkṛṣṇa bhaktapriya cakrapāṇe | śrīpadmanābhācyuta kaiṭabhāre śrīrāma padmākṣa hare murāre || mukundamālā.36 ||

  39. ananta vaikuṇṭha mukunda kṛṣṇa govinda dāmodara mādhaveti | vaktuṃ samartho 'pi na vakti kaścid aho janānāṃ vyasanābhimukhyam || mukundamālā.37 ||

  40. dhyāyanti ye viṣṇum anantam avyayaṃ hṛtpadmamadhye satataṃ vyavasthitam | samāhitānāṃ satatābhaya-pradaṃ te yānti siddhiṃ paramāṃ tu vaiṣṇavīm || mukundamālā.38 ||

  41. kṣīrasāgarataraṅgaśīkarā-sāratārakitacārumūrtaye | bhogibhogaśayanīyaśāyine mādhavāya madhuvidviṣe namaḥ || mukundamālā.39 ||

  42. yasya priyau śrutidharau kavilokavīrau mitre dvijanmavarapadmaśarāv abhūtām | tenāmbujākṣacaraṇāmbujaṣaṭpadena rājñā kṛtā kṛtir iyaṃ kulaśekhareṇa || mukundamālā.40 ||

How to use this page
  1. Tap Kirtan for large text that keeps the screen awake. Press Start to scroll while you sing; touch the screen to pause.

  2. Tap Aa to change the text size and line spacing, or to show both, lyrics only or translation only. Your choice is remembered.

  3. Under Read in, pick a script to read the same text in Devanagari, Bengali, Tamil, Telugu and more.

  4. Compare shows the lyrics side by side in two scripts, such as Devanagari and Roman, verse by verse. Choose any script or a translation for each column; on songs and prayers, Show meaning adds the meaning under each verse.

  5. Tap Save to keep this page under Your songs on the home page. Pages you open appear there too, on this device only.

  6. Share sends a link to this page. PDF makes a clean sheet without menus, to save or print.

  7. At the end, Previous and Next take you through the list in order.

All tips

Text: Sanskrit Wikisource (Sanskrit Wikisource contributors (history: https://sa.wikisource.org/w/index.php?title=%E0%A4%AE%E0%A5%81%E0%A4%95%E0%A5%81%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%AE%E0%A4%BE%E0%A4%B2%E0%A4%BE&action=history)),CC BY-SA 4.0, retrieved 2026-10-26. Other scripts and the Roman transliteration are generated automatically.