सौन्दर्यलहरी

Auto-scrollSpeed 3

Touch the screen or press any key to pause.

Reading settings

Text size
Show
Layout (wide screens)
Line spacing
  1. ॥ सौन्दर्यलहरी॥

  2. शिवः शक्त्या युक्तो यदि भवति शक्त: प्रभवितुं न चेदेवं देवो न खलु कुशल: स्पन्दितुमपि । अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १॥

  3. तनीयांसं पांसुं तव चरणपङ्केरुहभवं विरिञ्चिः संचिन्वन्विरचयति लोकानविकलम् । वहत्येनं शौरिः कथमपि सहस्रेण शिरसां हर: संक्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ २ ॥

  4. अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी । दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ।। ३ ॥ त्वदन्यः पाणिभ्यामभयवरदो दैवतगण- स्त्वमेका नैवासि प्रकटितवराभीत्यभिनया । भयात्त्रातुं दातुं फलमपि च वाञ्छासमधिकं शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४ ॥

  5. हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् । स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महताम ॥ ५॥

  6. धनुः पौंष्पं मौर्वी मधुकरमयी पञ्च विशिखा वसन्तः सामन्तो मलयमरुदायोधनरथः । तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा- मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६ ॥

  7. कणत्काञ्चीदामा करिकलभकुम्भस्तननता परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना । धनुर्बाणान्पाशं सृणिमपि दधाना करतलैः पुरस्तादास्तां न: पुरमथितुराहोपुरुषिका ॥ ७ ॥ सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे । शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८ ॥

  8. महीं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि । मनोऽपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसे ।। ९॥

  9. सुधाधारासारैश्चरणयुगलान्तर्विगलितैः प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः । अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १० ॥

  10. चतुर्भि: श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः । चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय- त्रिरेखाभिः सार्धं तव शरणकोणा: परिणताः ॥ ११ ॥ त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्रा: कल्पन्ते कथमपि विरिञ्चिप्रभृतयः । यदालोकौत्सुक्यादमरललना यान्ति मनसा तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम ॥ १२ ॥

  11. नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापाङ्गालोके पतितमनुधावन्ति शतशः । गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया हठात्त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ।। १३ ।

  12. क्षितौ षट्पञ्चाशद्विसमधिकपञ्चाशदुदके हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले । दिवि द्विःषट्त्रिंशन्मनसि च चतुःषष्टिरिति ये मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम ॥ १४ ॥

  13. शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां वरत्रासत्राणस्फटिकघटिकापुस्तककराम् । सकृन्न त्वा नत्वा कथमिव सतां संनिदधते मधुक्षीरद्राक्षामधुरिमधुरीणा: फणितयः ॥ १५॥ कवीन्द्राणां चेतःकमलवनबालातपरुचिं भजन्ते ये सन्त: कतिचिदरुणामेव भवतीम् । विरिञ्चिप्रेयस्यास्तरुणतरश‍ृङ्गारलहरी- गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ १६ ॥

  14. सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभि- र्वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति यः । स कर्ता काव्यानां भवति मह्तां भङ्गिरुचिभि- र्वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७ ॥

  15. तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभि- र्दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः । भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कति कति न गीर्वाणगणिका: ।।१८।।

  16. मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् । स सद्यः संक्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ १९॥ किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः । स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान्दृष्ट्या सुखयति सुधाधारसिरया ॥ २० ॥

  17. तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं निषण्णां षण्णामप्युपरि कमलानां तव कलाम । महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ २१ ॥

  18. भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा- मिति स्तोतुं वाञ्छन्कथयति भवानि त्वमिति यः । तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम ॥ २२ ।।

  19. त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा शरीरार्धं शंभोरपरमपि शङ्के हृतमभूत् । यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ २३ ॥

  20. जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति । सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव- स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः

  21. त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत्पूजा पूजा तव चरणयोर्या विरचिता । तथाहि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः

  22. विरिश्चि: पञ्चत्वं व्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् । वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा महासंहारेऽस्मिन्विहरति सति त्वत्पतिरसौ

  23. जपो जल्प: शिल्पं सकलमपि मुद्राविरचना गति: प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः । प्रणाम: संवेश: सुखमखिलमात्मार्पणदृशा सपर्यापर्यायस्तव भवतु यन्मे विलसितम्

  24. सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः । करालं यत्क्ष्वेलं कबलितवतः कालकलना न शंभोस्तन्मूलं तव जननि ताटङ्कमहिमा

  25. किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम् । प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते

  26. स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो निषेव्ये नित्ये त्वामहमिति सदा भावयति यः । किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो महासंवर्ताग्निर्विरचयति नीराजनविधिम

  27. चतुःषष्टया तन्त्रैः सकलमतिसन्धाय भुवनं स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः । पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना- स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम्

  28. शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरण: स्मरो हंसः शक्रस्तदनु च परामारहरयः । अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामावयवताम्

  29. स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो- र्निधायैके नित्ये निरवधिमहाभोगरसिकाः । भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलया: शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः

  30. शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं तवात्मानं मन्ये भगवति नवात्मानमनघम् । अत: शेष: शेषीत्ययमुभयसाधारणतया स्थित: संबन्धो वां समरसपरानन्दपरयोः

  31. मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम । त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवति भावेन बिभृषे

  32. तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं परं शंभुं वन्दे परिमिलितपार्श्वं परचिता । यमाराध्यन्भक्त्या रविशशिशुचीनामविषये निरालोकेऽलोके निवसति हि भालोकभुवने

  33. विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं शिवं सेवे देवीमपि शिवसमानव्यवसिताम । ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे- र्विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती

  34. समुन्मीलत्संवित्कमलमकरन्दैकरसिकं भजे हंसद्वन्द्वं किमपि महतां मानसचरम् । यदालापादष्टादशगुणितविद्यापरिणति- र्यदादत्ते दोषाद्गुणमखिलमद्भ्यः पय इव

  35. तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं तमीडे संवर्तं जननि महतीं तां च समयाम् । यदालोके लोकान्दहति महति क्रोधकलिते दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति

  36. तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् । तव श्यामं मेघं कमपि मणिपूरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम

  37. तवाधारे मूले सह समयया लास्यपरया नवात्मानं मन्ये नवरसमहाताण्डवनटम् । उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम्

  38. गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः । स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं धनु: शौनासीरं किमिति न निबध्नाति धिषणाम्

  39. धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे । यदीयं सौरभ्यं सहजमुपलब्धं सुमनसो वसन्त्यस्मिन्मन्ये वलमथनवाटीविटपिनाम्

  40. तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी- परीवाहः स्रोत:सरणिरिव सीमन्तसरणिः । वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर- द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम

  41. अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् । दरस्मेरे यस्मिन्दशनरुचिकिञ्जल्करुचिरे सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः

  42. ललाटं लावण्यद्युतिविमलमाभाति तब य- द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् । विपर्यासन्यासादुभयमपि संभूय च मिथ: सुधालेपस्यूति: परिणमति राकाहिमकरः

  43. भ्रुवौ भुग्ने किंचिद्भुवनभयभङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् । धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे

  44. अहः सूते सव्यं तव नयनमर्कात्मकतया त्रियामां वामं ते सृजति रजनीनायकतया । तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम्

  45. विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः कृपाधाराधारा किमपि मधुराभोगवतिका । अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते

  46. कवीनां संदर्भस्तबकमकरन्दैकरसिकं कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् । अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला- वसूयासंसर्गादलिकनयनं किंचिदरुणम्

  47. शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती । हराहिभ्यो भीता सरसिरुहसौभाग्यजननी सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा

  48. गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले । इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके तवाकर्णाकृष्टस्मरशरविलासं कलयतः

  49. विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते । पुनः स्रष्टुं देवान्द्रुहिणहरिरुद्रानुपरता- न्ररजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव

  50. पवित्रीकर्तुं नः पशुपतिपराधीनह्रदये दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः । नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं त्रयाणां तीर्थानामुपनयसि संभेदमनघम्

  51. निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती तवेत्याहुः सन्तो धरणिधरराजन्यतनये । त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयत: परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः

  52. तवापर्णे कर्णेजपनयनपैशुन्यचकिता निलीयन्ते तोये नियतमनिमेषा: शफरिकाः । इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं जहाति प्रत्यूषे निशि च विघटय्य प्रविशति

  53. दृशा द्राधीयस्या दरदलितनीलोत्पलरुचा दवीयांसं दीनं स्नपय कृपया मामपि शिवे । अनेनायं धन्यो भवति न च ते हानिरियता वने वा हर्म्ये वा समकरनिपातो हिमकरः

  54. अरालं ते पालीयुगलमगराजन्यतनये न केषामाधत्ते कुसुमशरकोदण्डकुतुकम । तिरश्चीनो यत्र श्रवणपथमुल्लङ्घय विलस- न्नपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम्

  55. स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं चतुश्चक्रं मन्ये तव सुखमिदं मन्मथरथम् । यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं महावीरो मारः प्रमथपतये सज्जितवते

  56. सरस्वत्या: सूक्तीरमृतलहरीकौशलहरी: पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् । चमत्कारश्लाघाचलितशिरसः कुण्डलगणो झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते

  57. असौं नासावंशस्तुहिनगिरिवंशध्वजपटि त्वदीयो नेदीयः फलतु फलमस्माकमुचितम । वहत्यन्तर्मुक्ता: शिशिरकरनिश्वासगलितं समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः

  58. प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचे: प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता । न बिम्बं तद्विम्बप्रतिफलनरागादरुणितं तुलामध्यारोढुं कथमिव विलज्जेत कलया

  59. स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां चकोराणामासीदतिरसतया चञ्चुजडिमा । अतस्ते शीतांशोरमृतलहरीमाम्लरुचय: पिबन्ति स्वच्छन्दं निशिनिशि भृशं काञ्जिकधिया

  60. अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा जपापुष्पच्छाया तव जननि जिह्वा जयति सा । यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा

  61. रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभि- र्निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः । विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला विलीयन्ते मातस्तव वदनताम्बूलकबलाः

  62. विपञ्च्या गायन्ती विविधमपदानं पशुपते- स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने । तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतम्

  63. कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया गिरीशेनोदस्तं मुहुरधरपानाकुलतया । करग्राह्यं शंभोर्मुखमुकुरवृन्तं गिरिसुते कथंकारं ब्रूमस्तव चुबुकमौपम्यरहितम्

  64. भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् । स्वतः श्वेता कालागुरुबहुलजम्बालमलिना मृणालीलालित्यं वहति यदधो हारलतिका

  65. गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः । विराजन्ते नानाविधमधुररागाकरभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते

  66. मृणालीमृद्वीनां तव भुजलतानां चतसृणां चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः । नखेभ्य: संत्रस्यन्प्रथममथनादन्धकरिपो- श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया

  67. नखानामुद्योतैर्नवनलिनरागं विहसतां कराणां ते कान्तिं कथय कथयामः कथमुमे । कयाचिद्वा साम्यं भजतु कलया हन्त कमलं यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणम्

  68. समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् । यदालोक्याशङ्काकुलितहृदयो हासजनक: स्वकुम्भौ हेरम्ब: परिभृशति हस्तेन झडिति

  69. अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ न संदेहस्पन्दो नगपतिपताके मनसि नः । पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ

  70. वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः समारब्धां मुक्तामणिभिरमलां हारलतिकाम । कुचाभोगो बिम्बाधररुचिभिरन्त: शबलितां प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते

  71. तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयःपारावार: परिवहति सारस्वतमिव । दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव य- त्कवीनां प्रौढानामजनि कमनीयः कवयिता

  72. हरक्रोधज्वालावलिभिरवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः । समुत्तस्थौ तस्मादचलतनये धूमलतिका जनस्तां जानीते तव जननि रोमावलिरिति

  73. यदेतत्कालिन्दीतनुतरतरङ्गाकृति शिवे कृशे मध्ये किंचिज्जननि तव यद्भाति सुधियाम् । विमर्दादन्योन्यं कुचकलशयोरन्तरगतं तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम्

  74. स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता- कलावालं कुण्डं कुसुमशरतेजोहुतभुजः । रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते बिलद्वारं सिद्धेगिरिशनयनानां विजयते

  75. निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव । चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा समावस्थास्थेम्नो भवतु कुशलं शैलतनये

  76. कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता । तव त्रातुं भङ्गादलमिति वलग्रं तनुभुवा त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव

  77. गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा- न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे । अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं नितम्बप्राग्भार: स्थगयति लधुत्वं नयति च

  78. करीन्द्राणां शुण्डान्कनककदलीकाण्डपटली- मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवति । सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि

  79. पराजेतुं रुद्रं द्विगुणशरगभौ गिरिसुते निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत । यदग्ने दृश्यन्ते दशशरफला: पादयुगली- नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः

  80. श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्येतौ मातः शिरसि दयया धेहि चरणौ । ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः

  81. नमोवाकं ब्रूमो नयनरमणीयाय पदयो- स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते । असूयत्यत्यन्तं यदभिहननाय स्पृहयते पशूनामीशानः प्रमदवनकङ्केलितरवे

  82. मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले ताडयति ते चिरादन्तःशल्यं दहनकृतमुन्मूलितवता तुलाकोटिक्काणैः किलिकिलितमीशानरिपुणा

  83. हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ निशायां निद्राणं निशि चरमभागे च विशदौ । वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम्

  84. पदं ते कीर्तीनां प्रपदमपदं देवि विपदां कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् । कथं वा बाहुभ्यामुपयमनकाले पुरभिदा यदादाय न्यस्तं दृषदि दयमानेन मनसा

  85. नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि- स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ

  86. ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी- ममन्दं सौन्दर्यप्रकरमकरन्दं विकिरति । तवास्मिन्मन्दारस्तबकसुभगे यातु चरणे निमज्जन्मज्जीवः करणचरण: षट्चरणताम्

  87. पदन्यासक्रीडापरिचयमिवारब्धुमनसः स्खलन्तस्ते खेलं भवनकलहंसा न जहति । अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित- च्छलादाचक्षाणं चरणकमलं चारुचरिते

  88. गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः । त्वदीयानां भासां प्रतिफलनरागारुणतया शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम्

  89. अराला केशेषु प्रकृतिसरला मन्दहसिते शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे । भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये जगत्त्रातुं शंभोर्जयति करुणा काचिदरुणा

  90. कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् । अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं विधिर्भूयो भूयो निबिडयति नूनं तव कृते

  91. पुरारातेरन्त:पुरमसि ततस्त्वच्चरणयोः सपर्यामर्यादा तरलकरणानामसुलभा । तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः

  92. कलत्रं वैधात्रं कतिकति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पति: कैरपि धनैः । महादेवं हित्वा तव सति सतीनामचरमे कुचाभ्यामासङ्ग्ः कुरवकतरोरप्यसुलभः

  93. गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् । तुरीया कापि त्वं दुरधिगमनिःसीममहिमा महामाया विश्वं भ्रमयसि परब्रह्ममहिषि

  94. कदा काले मातः कथय कलितालक्तकरसं पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् । प्रकृत्या मूकानामपि च कविताकारणतया कदा धत्ते वाणीमुखकमलताम्बूलरसताम्

  95. सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रते: पातिव्रत्यं शिथिलयति रम्येण वपुषा । चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः परानन्दाभिख्यं रसयति रसं त्वद्भजनवान्

  96. प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना । स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम्

  97. इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

  98. श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

  99. श्रीमच्छंकरभगवतः कृतौ

  100. सौन्दर्यलहरी संपूर्णा ॥

Roman transliteration (IAST)

Automatic transliteration.

  1. || saundaryalaharī||

  2. śivaḥ śaktyā yukto yadi bhavati śakta: prabhavituṃ na cedevaṃ devo na khalu kuśala: spanditumapi | atastvāmārādhyāṃ hariharaviriñcādibhirapi praṇantuṃ stotuṃ vā kathamakṛtapuṇyaḥ prabhavati || 1||

  3. tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ viriñciḥ saṃcinvanviracayati lokānavikalam | vahatyenaṃ śauriḥ kathamapi sahasreṇa śirasāṃ hara: saṃkṣudyainaṃ bhajati bhasitoddhūlanavidhim || 2 ||

  4. avidyānāmantastimiramihiradvīpanagarī jaḍānāṃ caitanyastabakamakarandasrutijharī | daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripuvarāhasya bhavati || 3 || tvadanyaḥ pāṇibhyāmabhayavarado daivatagaṇa- stvamekā naivāsi prakaṭitavarābhītyabhinayā | bhayāttrātuṃ dātuṃ phalamapi ca vāñchāsamadhikaṃ śaraṇye lokānāṃ tava hi caraṇāveva nipuṇau || 4 ||

  5. haristvāmārādhya praṇatajanasaubhāgyajananīṃ purā nārī bhūtvā puraripumapi kṣobhamanayat | smaro'pi tvāṃ natvā ratinayanalehyena vapuṣā munīnāmapyantaḥ prabhavati hi mohāya mahatāma || 5||

  6. dhanuḥ pauṃṣpaṃ maurvī madhukaramayī pañca viśikhā vasantaḥ sāmanto malayamarudāyodhanarathaḥ | tathāpyekaḥ sarvaṃ himagirisute kāmapi kṛpā- mapāṅgātte labdhvā jagadidamanaṅgo vijayate || 6 ||

  7. kaṇatkāñcīdāmā karikalabhakumbhastananatā parikṣīṇā madhye pariṇataśaraccandravadanā | dhanurbāṇānpāśaṃ sṛṇimapi dadhānā karatalaiḥ purastādāstāṃ na: puramathiturāhopuruṣikā || 7 || sudhāsindhormadhye suraviṭapivāṭīparivṛte maṇidvīpe nīpopavanavati cintāmaṇigṛhe | śivākāre mañce paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ katicana cidānandalaharīm || 8 ||

  8. mahīṃ mūlādhāre kamapi maṇipūre hutavahaṃ sthitaṃ svādhiṣṭhāne hṛdi marutamākāśamupari | mano'pi bhrūmadhye sakalamapi bhittvā kulapathaṃ sahasrāre padme saha rahasi patyā viharase || 9||

  9. sudhādhārāsāraiścaraṇayugalāntarvigalitaiḥ prapañcaṃ siñcantī punarapi rasāmnāyamahasaḥ | avāpya svāṃ bhūmiṃ bhujaganibhamadhyuṣṭavalayaṃ svamātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi || 10 ||

  10. caturbhi: śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhirapi prabhinnābhiḥ śambhornavabhirapi mūlaprakṛtibhiḥ | catuścatvāriṃśadvasudalakalāśratrivalaya- trirekhābhiḥ sārdhaṃ tava śaraṇakoṇā: pariṇatāḥ || 11 || tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ kavīndrā: kalpante kathamapi viriñciprabhṛtayaḥ | yadālokautsukyādamaralalanā yānti manasā tapobhirduṣprāpāmapi giriśasāyujyapadavīma || 12 ||

  11. naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ tavāpāṅgāloke patitamanudhāvanti śataśaḥ | galadveṇībandhāḥ kucakalaśavisrastasicayā haṭhāttruṭyatkāñcyo vigalitadukūlā yuvatayaḥ || 13 |

  12. kṣitau ṣaṭpañcāśadvisamadhikapañcāśadudake hutāśe dvāṣaṣṭiścaturadhikapañcāśadanile | divi dviḥṣaṭtriṃśanmanasi ca catuḥṣaṣṭiriti ye mayūkhāsteṣāmapyupari tava pādāmbujayugama || 14 ||

  13. śarajjyotsnāśuddhāṃ śaśiyutajaṭājūṭamakuṭāṃ varatrāsatrāṇasphaṭikaghaṭikāpustakakarām | sakṛnna tvā natvā kathamiva satāṃ saṃnidadhate madhukṣīradrākṣāmadhurimadhurīṇā: phaṇitayaḥ || 15|| kavīndrāṇāṃ cetaḥkamalavanabālātaparuciṃ bhajante ye santa: katicidaruṇāmeva bhavatīm | viriñcipreyasyāstaruṇataraśaṛṅgāralaharī- gabhīrābhirvāgbhirvidadhati satāṃ rañjanamamī || 16 ||

  14. savitrībhirvācāṃ śaśimaṇiśilābhaṅgarucibhi- rvaśinyādyābhistvāṃ saha janani saṃcintayati yaḥ | sa kartā kāvyānāṃ bhavati mahtāṃ bhaṅgirucibhi- rvacobhirvāgdevīvadanakamalāmodamadhuraiḥ || 17 ||

  15. tanucchāyābhiste taruṇataraṇiśrīsaraṇibhi- rdivaṃ sarvāmurvīmaruṇimani magnāṃ smarati yaḥ | bhavantyasya trasyadvanahariṇaśālīnanayanāḥ sahorvaśyā vaśyāḥ kati kati na gīrvāṇagaṇikā: ||18||

  16. mukhaṃ binduṃ kṛtvā kucayugamadhastasya tadadho harārdhaṃ dhyāyedyo haramahiṣi te manmathakalām | sa sadyaḥ saṃkṣobhaṃ nayati vanitā ityatilaghu trilokīmapyāśu bhramayati ravīndustanayugām || 19|| kirantīmaṅgebhyaḥ kiraṇanikurumbāmṛtarasaṃ hṛdi tvāmādhatte himakaraśilāmūrtimiva yaḥ | sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva jvarapluṣṭāndṛṣṭyā sukhayati sudhādhārasirayā || 20 ||

  17. taṭillekhātanvīṃ tapanaśaśivaiśvānaramayīṃ niṣaṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalāma | mahāpadmāṭavyāṃ mṛditamalamāyena manasā mahāntaḥ paśyanto dadhati paramāhlādalaharīm || 21 ||

  18. bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sakaruṇā- miti stotuṃ vāñchankathayati bhavāni tvamiti yaḥ | tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ mukundabrahmendrasphuṭamakuṭanīrājitapadāma || 22 ||

  19. tvayā hṛtvā vāmaṃ vapuraparitṛptena manasā śarīrārdhaṃ śaṃbhoraparamapi śaṅke hṛtamabhūt | yadetattvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ kucābhyāmānamraṃ kuṭilaśaśicūḍālamakuṭam || 23 ||

  20. jagatsūte dhātā hariravati rudraḥ kṣapayate tiraskurvannetatsvamapi vapurīśastirayati | sadāpūrvaḥ sarvaṃ tadidamanugṛhṇāti ca śiva- stavājñāmālambya kṣaṇacalitayorbhrūlatikayoḥ

  21. trayāṇāṃ devānāṃ triguṇajanitānāṃ tava śive bhavetpūjā pūjā tava caraṇayoryā viracitā | tathāhi tvatpādodvahanamaṇipīṭhasya nikaṭe sthitā hyete śaśvanmukulitakarottaṃsamakuṭāḥ

  22. viriści: pañcatvaṃ vrajati harirāpnoti viratiṃ vināśaṃ kīnāśo bhajati dhanado yāti nidhanam | vitandrī māhendrī vitatirapi saṃmīlitadṛśā mahāsaṃhāre'sminviharati sati tvatpatirasau

  23. japo jalpa: śilpaṃ sakalamapi mudrāviracanā gati: prādakṣiṇyakramaṇamaśanādyāhutividhiḥ | praṇāma: saṃveśa: sukhamakhilamātmārpaṇadṛśā saparyāparyāyastava bhavatu yanme vilasitam

  24. sudhāmapyāsvādya pratibhayajarāmṛtyuhariṇīṃ vipadyante viśve vidhiśatamakhādyā diviṣadaḥ | karālaṃ yatkṣvelaṃ kabalitavataḥ kālakalanā na śaṃbhostanmūlaṃ tava janani tāṭaṅkamahimā

  25. kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥ kaṭhore koṭīre skhalasi jahi jambhārimakuṭam | praṇamreṣveteṣu prasabhamupayātasya bhavanaṃ bhavasyābhyutthāne tava parijanoktirvijayate

  26. svadehodbhūtābhirghṛṇibhiraṇimādyābhirabhito niṣevye nitye tvāmahamiti sadā bhāvayati yaḥ | kimāścaryaṃ tasya trinayanasamṛddhiṃ tṛṇayato mahāsaṃvartāgnirviracayati nīrājanavidhima

  27. catuḥṣaṣṭayā tantraiḥ sakalamatisandhāya bhuvanaṃ sthitastattatsiddhiprasavaparatantraiḥ paśupatiḥ | punastvannirbandhādakhilapuruṣārthaikaghaṭanā- svatantraṃ te tantraṃ kṣititalamavātītaradidam

  28. śivaḥ śaktiḥ kāmaḥ kṣitiratha raviḥ śītakiraṇa: smaro haṃsaḥ śakrastadanu ca parāmāraharayaḥ | amī hṛllekhābhistisṛbhiravasāneṣu ghaṭitā bhajante varṇāste tava janani nāmāvayavatām

  29. smaraṃ yoniṃ lakṣmīṃ tritayamidamādau tava mano- rnidhāyaike nitye niravadhimahābhogarasikāḥ | bhajanti tvāṃ cintāmaṇiguṇanibaddhākṣavalayā: śivāgnau juhvantaḥ surabhighṛtadhārāhutiśataiḥ

  30. śarīraṃ tvaṃ śaṃbhoḥ śaśimihiravakṣoruhayugaṃ tavātmānaṃ manye bhagavati navātmānamanagham | ata: śeṣa: śeṣītyayamubhayasādhāraṇatayā sthita: saṃbandho vāṃ samarasaparānandaparayoḥ

  31. manastvaṃ vyoma tvaṃ marudasi marutsārathirasi tvamāpastvaṃ bhūmistvayi pariṇatāyāṃ na hi parama | tvameva svātmānaṃ pariṇamayituṃ viśvavapuṣā cidānandākāraṃ śivayuvati bhāvena bibhṛṣe

  32. tavājñācakrasthaṃ tapanaśaśikoṭidyutidharaṃ paraṃ śaṃbhuṃ vande parimilitapārśvaṃ paracitā | yamārādhyanbhaktyā raviśaśiśucīnāmaviṣaye nirāloke'loke nivasati hi bhālokabhuvane

  33. viśuddhau te śuddhasphaṭikaviśadaṃ vyomajanakaṃ śivaṃ seve devīmapi śivasamānavyavasitāma | yayoḥ kāntyā yāntyāḥ śaśikiraṇasārūpyasaraṇe- rvidhūtāntardhvāntā vilasati cakorīva jagatī

  34. samunmīlatsaṃvitkamalamakarandaikarasikaṃ bhaje haṃsadvandvaṃ kimapi mahatāṃ mānasacaram | yadālāpādaṣṭādaśaguṇitavidyāpariṇati- ryadādatte doṣādguṇamakhilamadbhyaḥ paya iva

  35. tava svādhiṣṭhāne hutavahamadhiṣṭhāya nirataṃ tamīḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām | yadāloke lokāndahati mahati krodhakalite dayārdrā yā dṛṣṭiḥ śiśiramupacāraṃ racayati

  36. taṭittvantaṃ śaktyā timiraparipanthisphuraṇayā sphurannānāratnābharaṇapariṇaddhendradhanuṣam | tava śyāmaṃ meghaṃ kamapi maṇipūraikaśaraṇaṃ niṣeve varṣantaṃ haramihirataptaṃ tribhuvanama

  37. tavādhāre mūle saha samayayā lāsyaparayā navātmānaṃ manye navarasamahātāṇḍavanaṭam | ubhābhyāmetābhyāmudayavidhimuddiśya dayayā sanāthābhyāṃ jajñe janakajananīmajjagadidam

  38. gatairmāṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ kirīṭaṃ te haimaṃ himagirisute kīrtayati yaḥ | sa nīḍeyacchāyācchuraṇaśabalaṃ candraśakalaṃ dhanu: śaunāsīraṃ kimiti na nibadhnāti dhiṣaṇām

  39. dhunotu dhvāntaṃ nastulitadalitendīvaravanaṃ ghanasnigdhaślakṣṇaṃ cikuranikurumbaṃ tava śive | yadīyaṃ saurabhyaṃ sahajamupalabdhaṃ sumanaso vasantyasminmanye valamathanavāṭīviṭapinām

  40. tanotu kṣemaṃ nastava vadanasaundaryalaharī- parīvāhaḥ srota:saraṇiriva sīmantasaraṇiḥ | vahantī sindūraṃ prabalakabarībhāratimira- dviṣāṃ bṛndairbandīkṛtamiva navīnārkakiraṇama

  41. arālaiḥ svābhāvyādalikalabhasaśrībhiralakaiḥ parītaṃ te vaktraṃ parihasati paṅkeruharucim | darasmere yasmindaśanarucikiñjalkarucire sugandhau mādyanti smaradahanacakṣurmadhulihaḥ

  42. lalāṭaṃ lāvaṇyadyutivimalamābhāti taba ya- ddvitīyaṃ tanmanye makuṭaghaṭitaṃ candraśakalam | viparyāsanyāsādubhayamapi saṃbhūya ca mitha: sudhālepasyūti: pariṇamati rākāhimakaraḥ

  43. bhruvau bhugne kiṃcidbhuvanabhayabhaṅgavyasanini tvadīye netrābhyāṃ madhukararucibhyāṃ dhṛtaguṇam | dhanurmanye savyetarakaragṛhītaṃ ratipateḥ prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaramume

  44. ahaḥ sūte savyaṃ tava nayanamarkātmakatayā triyāmāṃ vāmaṃ te sṛjati rajanīnāyakatayā | tṛtīyā te dṛṣṭirdaradalitahemāmbujaruciḥ samādhatte sandhyāṃ divasaniśayorantaracarīm

  45. viśālā kalyāṇī sphuṭarucirayodhyā kuvalayaiḥ kṛpādhārādhārā kimapi madhurābhogavatikā | avantī dṛṣṭiste bahunagaravistāravijayā dhruvaṃ tattannāmavyavaharaṇayogyā vijayate

  46. kavīnāṃ saṃdarbhastabakamakarandaikarasikaṃ kaṭākṣavyākṣepabhramarakalabhau karṇayugalam | amuñcantau dṛṣṭvā tava navarasāsvādataralā- vasūyāsaṃsargādalikanayanaṃ kiṃcidaruṇam

  47. śive śṛṅgārārdrā taditarajane kutsanaparā saroṣā gaṅgāyāṃ giriśacarite vismayavatī | harāhibhyo bhītā sarasiruhasaubhāgyajananī sakhīṣu smerā te mayi janani dṛṣṭiḥ sakaruṇā

  48. gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī purāṃ bhettuścittapraśamarasavidrāvaṇaphale | ime netre gotrādharapatikulottaṃsakalike tavākarṇākṛṣṭasmaraśaravilāsaṃ kalayataḥ

  49. vibhaktatraivarṇyaṃ vyatikaritalīlāñjanatayā vibhāti tvannetratritayamidamīśānadayite | punaḥ sraṣṭuṃ devāndruhiṇaharirudrānuparatā- nrarajaḥ sattvaṃ bibhrattama iti guṇānāṃ trayamiva

  50. pavitrīkartuṃ naḥ paśupatiparādhīnahradaye dayāmitrairnetrairaruṇadhavalaśyāmarucibhiḥ | nadaḥ śoṇo gaṅgā tapanatanayeti dhruvamamuṃ trayāṇāṃ tīrthānāmupanayasi saṃbhedamanagham

  51. nimeṣonmeṣābhyāṃ pralayamudayaṃ yāti jagatī tavetyāhuḥ santo dharaṇidhararājanyatanaye | tvadunmeṣājjātaṃ jagadidamaśeṣaṃ pralayata: paritrātuṃ śaṅke parihṛtanimeṣāstava dṛśaḥ

  52. tavāparṇe karṇejapanayanapaiśunyacakitā nilīyante toye niyatamanimeṣā: śapharikāḥ | iyaṃ ca śrīrbaddhacchadapuṭakavāṭaṃ kuvalayaṃ jahāti pratyūṣe niśi ca vighaṭayya praviśati

  53. dṛśā drādhīyasyā daradalitanīlotpalarucā davīyāṃsaṃ dīnaṃ snapaya kṛpayā māmapi śive | anenāyaṃ dhanyo bhavati na ca te hāniriyatā vane vā harmye vā samakaranipāto himakaraḥ

  54. arālaṃ te pālīyugalamagarājanyatanaye na keṣāmādhatte kusumaśarakodaṇḍakutukama | tiraścīno yatra śravaṇapathamullaṅghaya vilasa- nnapāṅgavyāsaṅgo diśati śarasaṃdhānadhiṣaṇām

  55. sphuradgaṇḍābhogapratiphalitatāṭaṅkayugalaṃ catuścakraṃ manye tava sukhamidaṃ manmatharatham | yamāruhya druhyatyavanirathamarkenducaraṇaṃ mahāvīro māraḥ pramathapataye sajjitavate

  56. sarasvatyā: sūktīramṛtalaharīkauśalaharī: pibantyāḥ śarvāṇi śravaṇaculukābhyāmaviralam | camatkāraślāghācalitaśirasaḥ kuṇḍalagaṇo jhaṇatkāraistāraiḥ prativacanamācaṣṭa iva te

  57. asauṃ nāsāvaṃśastuhinagirivaṃśadhvajapaṭi tvadīyo nedīyaḥ phalatu phalamasmākamucitama | vahatyantarmuktā: śiśirakaraniśvāsagalitaṃ samṛddhyā yattāsāṃ bahirapi ca muktāmaṇidharaḥ

  58. prakṛtyā raktāyāstava sudati dantacchadaruce: pravakṣye sādṛśyaṃ janayatu phalaṃ vidrumalatā | na bimbaṃ tadvimbapratiphalanarāgādaruṇitaṃ tulāmadhyāroḍhuṃ kathamiva vilajjeta kalayā

  59. smitajyotsnājālaṃ tava vadanacandrasya pibatāṃ cakorāṇāmāsīdatirasatayā cañcujaḍimā | ataste śītāṃśoramṛtalaharīmāmlarucaya: pibanti svacchandaṃ niśiniśi bhṛśaṃ kāñjikadhiyā

  60. aviśrāntaṃ patyurguṇagaṇakathāmreḍanajapā japāpuṣpacchāyā tava janani jihvā jayati sā | yadagrāsīnāyāḥ sphaṭikadṛṣadacchacchavimayī sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā

  61. raṇe jitvā daityānapahṛtaśirastraiḥ kavacibhi- rnivṛttaiścaṇḍāṃśatripuraharanirmālyavimukhaiḥ | viśākhendropendraiḥ śaśiviśadakarpūraśakalā vilīyante mātastava vadanatāmbūlakabalāḥ

  62. vipañcyā gāyantī vividhamapadānaṃ paśupate- stvayārabdhe vaktuṃ calitaśirasā sādhuvacane | tadīyairmādhuryairapalapitatantrīkalaravāṃ nijāṃ vīṇāṃ vāṇī niculayati colena nibhṛtam

  63. karāgreṇa spṛṣṭaṃ tuhinagiriṇā vatsalatayā girīśenodastaṃ muhuradharapānākulatayā | karagrāhyaṃ śaṃbhormukhamukuravṛntaṃ girisute kathaṃkāraṃ brūmastava cubukamaupamyarahitam

  64. bhujāśleṣānnityaṃ puradamayituḥ kaṇṭakavatī tava grīvā dhatte mukhakamalanālaśriyamiyam | svataḥ śvetā kālāgurubahulajambālamalinā mṛṇālīlālityaṃ vahati yadadho hāralatikā

  65. gale rekhāstisro gatigamakagītaikanipuṇe vivāhavyānaddhapraguṇaguṇasaṃkhyāpratibhuvaḥ | virājante nānāvidhamadhurarāgākarabhuvāṃ trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva te

  66. mṛṇālīmṛdvīnāṃ tava bhujalatānāṃ catasṛṇāṃ caturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥ | nakhebhya: saṃtrasyanprathamamathanādandhakaripo- ścaturṇāṃ śīrṣāṇāṃ samamabhayahastārpaṇadhiyā

  67. nakhānāmudyotairnavanalinarāgaṃ vihasatāṃ karāṇāṃ te kāntiṃ kathaya kathayāmaḥ kathamume | kayācidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ yadi krīḍallakṣmīcaraṇatalalākṣārasacaṇam

  68. samaṃ devi skandadvipavadanapītaṃ stanayugaṃ tavedaṃ naḥ khedaṃ haratu satataṃ prasnutamukham | yadālokyāśaṅkākulitahṛdayo hāsajanaka: svakumbhau heramba: paribhṛśati hastena jhaḍiti

  69. amū te vakṣojāvamṛtarasamāṇikyakutupau na saṃdehaspando nagapatipatāke manasi naḥ | pibantau tau yasmādaviditavadhūsaṅgarasikau kumārāvadyāpi dviradavadanakrauñcadalanau

  70. vahatyamba stamberamadanujakumbhaprakṛtibhiḥ samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikāma | kucābhogo bimbādhararucibhiranta: śabalitāṃ pratāpavyāmiśrāṃ puradamayituḥ kīrtimiva te

  71. tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ payaḥpārāvāra: parivahati sārasvatamiva | dayāvatyā dattaṃ draviḍaśiśurāsvādya tava ya- tkavīnāṃ prauḍhānāmajani kamanīyaḥ kavayitā

  72. harakrodhajvālāvalibhiravalīḍhena vapuṣā gabhīre te nābhīsarasi kṛtasaṅgo manasijaḥ | samuttasthau tasmādacalatanaye dhūmalatikā janastāṃ jānīte tava janani romāvaliriti

  73. yadetatkālindītanutarataraṅgākṛti śive kṛśe madhye kiṃcijjanani tava yadbhāti sudhiyām | vimardādanyonyaṃ kucakalaśayorantaragataṃ tanūbhūtaṃ vyoma praviśadiva nābhiṃ kuhariṇīm

  74. sthiro gaṅgāvartaḥ stanamukularomāvalilatā- kalāvālaṃ kuṇḍaṃ kusumaśaratejohutabhujaḥ | raterlīlāgāraṃ kimapi tava nābhirgirisute biladvāraṃ siddhegiriśanayanānāṃ vijayate

  75. nisargakṣīṇasya stanataṭabhareṇa klamajuṣo namanmūrternārītilaka śanakaistruṭyata iva | ciraṃ te madhyasya truṭitataṭinītīrataruṇā samāvasthāsthemno bhavatu kuśalaṃ śailatanaye

  76. kucau sadyaḥ svidyattaṭaghaṭitakūrpāsabhidurau kaṣantau dormūle kanakakalaśābhau kalayatā | tava trātuṃ bhaṅgādalamiti valagraṃ tanubhuvā tridhā naddhaṃ devi trivali lavalīvallibhiriva

  77. gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijā- nnitambādācchidya tvayi haraṇarūpeṇa nidadhe | ataste vistīrṇo gururayamaśeṣāṃ vasumatīṃ nitambaprāgbhāra: sthagayati ladhutvaṃ nayati ca

  78. karīndrāṇāṃ śuṇḍānkanakakadalīkāṇḍapaṭalī- mubhābhyāmūrubhyāmubhayamapi nirjitya bhavati | suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisute vidhijñe jānubhyāṃ vibudhakarikumbhadvayamasi

  79. parājetuṃ rudraṃ dviguṇaśaragabhau girisute niṣaṅgau jaṅghe te viṣamaviśikho bāḍhamakṛta | yadagne dṛśyante daśaśaraphalā: pādayugalī- nakhāgracchadmānaḥ suramakuṭaśāṇaikaniśitāḥ

  80. śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā mamāpyetau mātaḥ śirasi dayayā dhehi caraṇau | yayoḥ pādyaṃ pāthaḥ paśupatijaṭājūṭataṭinī yayorlākṣālakṣmīraruṇaharicūḍāmaṇiruciḥ

  81. namovākaṃ brūmo nayanaramaṇīyāya padayo- stavāsmai dvandvāya sphuṭarucirasālaktakavate | asūyatyatyantaṃ yadabhihananāya spṛhayate paśūnāmīśānaḥ pramadavanakaṅkelitarave

  82. mṛṣā kṛtvā gotraskhalanamatha vailakṣyanamitaṃ lalāṭe bhartāraṃ caraṇakamale tāḍayati te cirādantaḥśalyaṃ dahanakṛtamunmūlitavatā tulākoṭikkāṇaiḥ kilikilitamīśānaripuṇā

  83. himānīhantavyaṃ himagirinivāsaikacaturau niśāyāṃ nidrāṇaṃ niśi caramabhāge ca viśadau | varaṃ lakṣmīpātraṃ śriyamatisṛjantau samayināṃ sarojaṃ tvatpādau janani jayataścitramiha kim

  84. padaṃ te kīrtīnāṃ prapadamapadaṃ devi vipadāṃ kathaṃ nītaṃ sadbhiḥ kaṭhinakamaṭhīkarparatulām | kathaṃ vā bāhubhyāmupayamanakāle purabhidā yadādāya nyastaṃ dṛṣadi dayamānena manasā

  85. nakhairnākastrīṇāṃ karakamalasaṃkocaśaśibhi- starūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau phalāni svaḥsthebhyaḥ kisalayakarāgreṇa dadatāṃ daridrebhyo bhadrāṃ śriyamaniśamahnāya dadatau

  86. dadāne dīnebhyaḥ śriyamaniśamāśānusadṛśī- mamandaṃ saundaryaprakaramakarandaṃ vikirati | tavāsminmandārastabakasubhage yātu caraṇe nimajjanmajjīvaḥ karaṇacaraṇa: ṣaṭcaraṇatām

  87. padanyāsakrīḍāparicayamivārabdhumanasaḥ skhalantaste khelaṃ bhavanakalahaṃsā na jahati | atasteṣāṃ śikṣāṃ subhagamaṇimañjīraraṇita- cchalādācakṣāṇaṃ caraṇakamalaṃ cārucarite

  88. gatāste mañcatvaṃ druhiṇaharirudreśvarabhṛtaḥ śivaḥ svacchacchāyāghaṭitakapaṭapracchadapaṭaḥ | tvadīyānāṃ bhāsāṃ pratiphalanarāgāruṇatayā śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam

  89. arālā keśeṣu prakṛtisaralā mandahasite śirīṣābhā citte dṛṣadupalaśobhā kucataṭe | bhṛśaṃ tanvī madhye pṛthururasijārohaviṣaye jagattrātuṃ śaṃbhorjayati karuṇā kācidaruṇā

  90. kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayaṃ kalābhiḥ karpūrairmarakatakaraṇḍaṃ nibiḍitam | atastvadbhogena pratidinamidaṃ riktakuharaṃ vidhirbhūyo bhūyo nibiḍayati nūnaṃ tava kṛte

  91. purārāteranta:puramasi tatastvaccaraṇayoḥ saparyāmaryādā taralakaraṇānāmasulabhā | tathā hyete nītāḥ śatamakhamukhāḥ siddhimatulāṃ tava dvāropāntasthitibhiraṇimādyābhiramarāḥ

  92. kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥ śriyo devyāḥ ko vā na bhavati pati: kairapi dhanaiḥ | mahādevaṃ hitvā tava sati satīnāmacarame kucābhyāmāsaṅgḥ kuravakatarorapyasulabhaḥ

  93. girāmāhurdevīṃ druhiṇagṛhiṇīmāgamavido hareḥ patnīṃ padmāṃ harasahacarīmadritanayām | turīyā kāpi tvaṃ duradhigamaniḥsīmamahimā mahāmāyā viśvaṃ bhramayasi parabrahmamahiṣi

  94. kadā kāle mātaḥ kathaya kalitālaktakarasaṃ pibeyaṃ vidyārthī tava caraṇanirṇejanajalam | prakṛtyā mūkānāmapi ca kavitākāraṇatayā kadā dhatte vāṇīmukhakamalatāmbūlarasatām

  95. sarasvatyā lakṣmyā vidhiharisapatno viharate rate: pātivratyaṃ śithilayati ramyeṇa vapuṣā | ciraṃ jīvanneva kṣapitapaśupāśavyatikaraḥ parānandābhikhyaṃ rasayati rasaṃ tvadbhajanavān

  96. pradīpajvālābhirdivasakaranīrājanavidhiḥ sudhāsūteścandropalajalalavairarghyaracanā | svakīyairambhobhiḥ salilanidhisauhityakaraṇaṃ tvadīyābhirvāgbhistava janani vācāṃ stutiriyam

  97. iti śrīmatparamahaṃsaparivrājakācāryasya

  98. śrīgovindabhagavatpūjyapādaśiṣyasya

  99. śrīmacchaṃkarabhagavataḥ kṛtau

  100. saundaryalaharī saṃpūrṇā ||

How to use this page
  1. Tap Kirtan for large text that keeps the screen awake. Press Start to scroll while you sing; touch the screen to pause.

  2. Tap Aa to change the text size and line spacing, or to show both, lyrics only or translation only. Your choice is remembered.

  3. Under Read in, pick a script to read the same text in Devanagari, Bengali, Tamil, Telugu and more.

  4. Compare shows the lyrics side by side in two scripts, such as Devanagari and Roman, verse by verse. Choose any script or a translation for each column; on songs and prayers, Show meaning adds the meaning under each verse.

  5. Tap Save to keep this page under Your songs on the home page. Pages you open appear there too, on this device only.

  6. Share sends a link to this page. PDF makes a clean sheet without menus, to save or print.

  7. At the end, Previous and Next take you through the list in order.

All tips

Text: Sanskrit Wikisource (Sanskrit Wikisource contributors (history: https://sa.wikisource.org/w/index.php?title=%E0%A4%B8%E0%A5%8C%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%B2%E0%A4%B9%E0%A4%B0%E0%A5%80&action=history)),CC BY-SA 4.0, retrieved 2026-10-26. Other scripts and the Roman transliteration are generated automatically.