शिवपादादिकेशान्तस्तुतिः

Auto-scrollSpeed 3

Touch the screen or press any key to pause.

Reading settings

Text size
Show
Layout (wide screens)
Line spacing
  1. ॥ शिवपादादिकेशान्तस्तुतिः ॥

  2. कल्याणं वो विधत्तां कटक- तटलसत्कल्पवाटीनिकुञ्ज- क्रीडासंसक्तविद्याधरनिवहवधूगीतरुद्रापदानः । तारैर्हरेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी- कैलासश्शर्वनिर्वृत्त्यभिजनकपदस्सर्वदा पर्वतेन्द्रः॥१ यस्य प्राहुस्स्वरूपं सकलदिविषदां सारसर्वस्वयोगं वस्येषुश्शार्ङ्गधन्वा समज- नि जगतां रक्षणे जागरूकः । मौर्वीं दुर्वीकराणामपि च परि- बृढः पूस्रयी सा च लक्ष्यं सोऽध्यादव्याजमस्मानशिव- भिदनिशं नाकिनां श्रीपिनाकः ।। ३ आलङ्कावेगहारी सकल- दिविषामङ्घ्रिपद्माश्रयाणां

  3. २६१

  4. शिवपादादिकेशान्तस्तुतिः मातङ्गाद्युग्रदैत्यप्रकर- तनुगळद्रक्तधारात्तधारः । क्रूरः सूरायुतानामपि च परिभवं स्वीयमासा वितन्वन् । घोराकार: कुठारो दृढत- रदुरिताख्याटवीं पाटयेन्नः॥ ३ काळाराते: कराग्रे कृतव- सतिरुरश्शाणशातो रिपूणां काले काले कुलाद्रिप्रवर- तनयया कल्पितस्नेहलेपः। पायान्नः पावकार्चिःप्रसर- सखमुखः पापहन्ता नितान्तं शूलश्श्रीपादसेवाभजन- परहृदां पालनैकान्तशीलः ॥ ४ देवस्थाङ्काश्रयायाः कुलगि- रिदुहितुर्नेत्रकोणप्रचार-

  5. २६२ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

  6. प्रस्तारानत्युदारान् पिपठि- षुरिव यो नित्यमत्यादरेण । आधत्ते भङ्गितुङ्गैरनिश- मवयवैरन्तरङ्गं स्रमोदं सोमापीडस्य सोऽयं प्रदिश- तु कुशलं पाणिरङ्गः कुरङ्गः ॥ कण्ठप्रान्तावसज्जत्कनक- मयमहाघण्टिकाघोरघोषैः कण्ठारावैरकुण्ठैरपि भरि- तजगच्चक्रवाळान्तराळः। चण्ड प्रोद्दण्डशृङ्गः ककुभ- कबळितीत्तुङ्गकैलासशृङ्गः कण्ठे कालस्य वाहः शमय- तु दुरितं शाश्वतं शाक्वरेन्द्रः ॥ ६ निर्यद्दानाम्बुधारापरिमळ- तरळीभूतलोलम्बपाली

  7. २६३ शिवपादादिकेशान्तस्तुतिः

  8. झङ्कारैः शङ्कराद्रेः शिखर- शतदरी: पूरयन् भूरिघोषैः। शार्वस्सौवर्णशैलप्रतिम- पृथुवपुस्सर्वविघ्नोपहर्ता शर्वाण्याः पूर्वसूनुस्स भव- तु भवतां स्वस्तिदो हस्तिवक्त्रः ॥ ७ यः पुण्यैर्देवतानां समज- नि शिवयोश्श्र्लाघ्यवीरैकमत्या यनाग्नि श्रूयमाणे दितिज- भटघटा भीतिभारं भजन्ते । भूयात्सोऽयं विभूत्यै निशित- शरशिखापाटितक्रौञ्चशैल- स्संसारागाधकूपोदरप वितसमुत्तारकस्तारकारिः॥ ८ आरूढ़प्रौढवेगप्रविजित- पवनं तुङ्गतुङ्गं तुरङ्गं

  9. २६४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

  10. चेलं नीलं वसानः करत- लविलसत्काण्डकोदण्डदण्डः । रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता कुर्वन्नाखेटलीलां परिलसतु मनःकानने मामकीने ॥ अम्भोजाभ्यां च रम्भारथच- रणलताद्वन्द्वकुम्भीन्द्रकुम्भै- र्बिदेनेन्दोश्च कम्बोरुपरि- विलसता विद्रुमेणोत्पलाभ्याम् । अम्भोदेनापि सम्पादितमु- पजनिताडम्बरं शम्बरारे: शम्भोरसम्भोगयोग्यं किमपि धनमिदं सम्भवेत्ससम्पदे नः ॥ वेणीसौभाग्यविस्मापितत- पनसुताचारुवेणीविलासा- न्वाणीनिर्धूतवाणीकरत- लविधृतोदारवीणाविरावान् ।

  11. २६५

  12. शिवपादादिकेशान्तस्तुतिः एणीनेत्रान्तभङ्गीनिरस- ननिपुणापाङ्गकोणानुपासे शोणान्प्राणानुदूढप्रति- नवसुषुमाकन्दळानिन्दुमौळेः ॥ ११ नृत्तारम्भेषु हस्ताहतमु- रजधिमीधिक्कृतैरत्युवारै- श्चित्तानन्दं विधत्ते सदसि भगवतस्तन्ततं यस्स नन्दी। चण्डीशाद्यास्तथान्ये चतुर- गुणगणप्राणितस्वामिस- त्कारोत्कर्षोद्यत्प्रतापाः प्रमथ- परिबृढास्सन्तु सन्तोषिणो न ॥ १२ मुक्तामाणिक्यजालैः परिकलि- तमहासालमालोकनीयं प्रत्युप्तानर्घरत्नैर्दिशि भ- वनैः कल्पितैर्दिक्पतीनाम्

  13. २६६

  14. बृहत्स्तोत्ररत्नाकरे - प्रथमभागः उद्यानैरद्रिकन्यापरिजन- वनितामाननीयैः परीतं हृद्यं स्तुत्यं सुराणां मम भुव- नपतेर्धाम सोमार्धमौळेः ॥ १३ स्तम्भैर्जम्भारिरत्नप्रवर- विरचितैस्सम्भृतोपान्तभागं शुभप्रत्सोपानमार्गं शुचिम- णिनिचयैर्गुम्भितानल्पशिल्पम् । कुम्भैस्सम्पूर्णशोभं शिरसि सुघटितैः शातकुम्भैरपङ्कै श्शम्भोस्सम्भावनीयं सकल- मुनिजनैस्सर्वदा सुप्रसन्नः॥ १४ न्यस्तो मध्ये सभायाः परिस- रविलसत्पादपीठाभिरामो हृद्यः पादैश्चतुर्भिः कनक- मणिमयैरुच्चकैरुज्ज्वलात्मा।

  15. २६७

  16. शिवपादादिकेशान्तस्तुतिः वासोरत्नेन केनाप्यधिक मृदुकेरणास्रतो विस्मृतश्री- पीठ: पीडाधरं न: शमय- तु शिवयोस्स्वैरसंवासयोग्यः ॥ १५ आसीनस्याधिपीठं त्रिजग- दधिपतेरङ्घ्रिपीठानुषक्तौ पाथोजाभोगभाजौ परिमृदु- लतलोल्लासिपद्माभिलेखौ। पातां पादावुभौ तौ नमद- मरकिरीटोल्लसच्चारुहीर- श्रेणीशोणायमानोन्नतन- स्वदशकोद्भासमानौ समानौ ॥ १६ यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु- र्लक्ष्मीसम्भोगसौख्यं विरचय- ति ययोश्चापदे रूपभेदे।

  17. २६८

  18. बृहत्स्तोत्ररत्नाकरे प्रथमभागः शम्भोस्सम्भावनीये पदक- मलसमासङ्गतस्तुङ्गशोभे माङ्गल्यं नस्समग्रं सकल- सुखकरे नूपुरे पूरयेताम् ॥ १७ अङ्गे शृङ्गारयोनेस्सपदि शलभतां नेत्रवह्नौ प्रयाते शत्रोरुद्धृत्य तस्मादिषुधि- युगमथ न्यस्तमग्रे किमेतत् । शङ्कामित्थं नतानाममर- परिषदामन्तरं क्रूरय- त्तत्सङ्घातं चारुजङ्घायुग- मखिलपते रंहसां संहरेन्नः ॥ १८ जानुद्वन्द्वेन मीनध्वज नृप- रसमुद्रोपमानेन साकं राजन्तौ राजरम्भाकरिक- रकनकस्तम्भसम्भावनीयौ

  19. शिवपादादिकेशान्तस्तुतिः २६९

  20. ऊरू गौरीकराम्भोरुहसर- ससमामर्दनानन्दभाजा- वूरू दूरीक्रियेतां दुरित- मुपचितं जन्मजन्मान्तरे नः ॥ १९ आमुक्तानर्घरत्नप्रकर- करपरिष्वक्तकल्याणकाञ्ची- दाम्ना बद्धन दुग्धद्युति- निचयमुषा चीनपट्टाम्बरेण । संवीते शैलकन्यासुचरि- तपरिपाकायमाने नितम्बे नित्यं नानर्तु चित्तं मम निखि- लजगत्स्वामिनस्सोममौलेः ॥ २० सन्ध्याकालानुरञ्जद्दिनक- रसरुचा कालधौतेन गाधं व्यावद्धस्निग्धवर्णस्सरस- मुदरबन्धेन पीतोपमेन।

  21. २७०

  22. बृहत्स्तोत्ररत्नाकरे - प्रथमभाग: उद्दीप्रैस्स्वप्रकाशैरुपचित- महिमा मन्मथारेरुदारो मध्या मिथ्यार्थसध्रचङ् दिशतु मम सदा सङ्गतिं मङ्गळानाम् ॥ २१ नाभीचक्रालवालान्नवनव- सुषमादोहळश्रीपरीता- दुद्गच्छन्ती पुरस्तादुदर- पथमतिक्रम्य वक्षः प्रयान्ती। श्यामा कामागमार्थप्रकथ- नलिपिवद्भासते या निकामं सा मा सोमार्धमौळेस्सुखय- तु सततं रोमवल्ली मतल्ली ॥ २१ आश्लेषेष्वद्रिजाया: कठिन- कुचतटीलिप्तकाश्मीरपङ्क- व्यासङ्गादुद्यदर्कद्युतिमिरुपचितस्पर्धमुद्दामहृद्यम् । दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं

  23. वक्षो विक्षोभिताचं सतत- नतिजुषां रक्षादक्षतं नः ॥२३ वामाङ्के विष्फुरन्त्याः करत- लविलसञ्चारु रक्तोत्पलाया: कान्ताया वामवक्षोरुहमरशिखरोन्मर्दनव्यग्रमेकम् । अन्यांस्त्रीनत्युदारान्वरपरशुमृगालङ्कृतान्सिन्धुमौळे- र्बाहूनाबद्धहेमाङ्गदम- णिकटकानन्तरालोकयामः ॥ २४ सन्भ्रान्तायाशिशवायाः पतिवि- लयभयारसर्वलोकोपतापा- त्संविप्नस्यापि विष्णोः सरभ- समुभयोार्वारणप्रेरणाभ्याम् । मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा सोऽयं सर्वापदां नः शमय- तु निचयं नीलकण्ठस्य कण्ठः ॥२५ हृधैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्गुमश्री- रुद्योतन्त्या नितान्तं धवल- धवलया मिश्रितो दन्तकान्त्या । मुक्तामाणिक्यपूरव्यतिकरसदृशा तेजसा भासमान- स्सद्योजातस्य दद्यादधर- मणिरसौ सम्पदां सञ्चयं नः॥२६ कर्णालङ्कार नानामणिनिकररुचा सञ्चयैरंञ्च्वतायां वर्ण्यायां खर्णपद्मोदरप- रिविलसत्कर्णिकासन्निभायाम्। पद्धयां प्राणवायोः प्रणत- जनहृदम्भोजवानस्य शम्भो- र्नित्यं नश्चित्तमेतद्विरच- यतु सुखेनासिकां नासिकायाम् ॥२७ अत्यन्तं भासमाने रुचिर- तररुचां सङ्गमात्सन्मणीना- मुद्यञ्चण्डांशुधामप्रसर-

  24. निरसनस्पष्टरष्टापदाने । भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे भक्ताळीफालसज्जज्जनिमर- णलिपेः कुण्डले कुण्डले ते ॥२८ याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां येषामाहुस्स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम् । रुद्राणीवक्त्रपङ्केरुहसत- तविहरोत्सुकेन्दिन्दिरेभ्य- स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमु- परचये त्रीक्षणस्येक्षणेभ्यः॥ २९ वामं वामाङ्कगाया वदन- सरसिजे व्यावलद्वल्लभाया व्यानस्नेष्वन्यदन्यत्पुनर- ळिकभवं पीतनिश्शेषरौक्ष्यम् । . भूयो भूयोऽपि मोदाग्निपत- दतिदयाशीतळं चूतबाणे वक्षारेरीक्षणानां त्रयमप- हरतादाशु तापत्रयं नः॥३० यस्मिन्नर्धेन्दुमुग्धातिविमि- रतिरस्कारनिस्तन्द्रकान्तौ काश्मीरक्षोदसङ्कल्पितमि- व रुचिरं चित्रकं भाति नेत्रम् । तस्मिन्नुल्लीलचिल्लीनटव- रतरुणीलास्यरङ्गायमाणे कालारै फालदेशे विहर- तु हृदयं वीतचिन्तान्तरं नः ॥३१ स्वामिन् गङ्गामिवाङ्गीकुरु त- व शिरसा मामपीत्यर्थयन्तीं धन्यां कन्यां खरांशोशिशर्हसि दहति किन्वेष कारुण्यशाली । इत्थं शङ्कां जनानां जनय- दतिधनं कौशिकं कालमेघ- च्छायं भूयादुदारं त्रिपुर- विजयिनः श्रेयसे भूयसे नः॥३२ शृङ्गाराकल्पयोग्यैरिशखरिव- रसुतास्रत्सखीहस्तलूनै- स्सूनैराबद्धमालावलिप- रिविलसत्सौरभाकृष्टभृङ्गम् । तु माणिक्यकान्त्या परिह- सितमुरावासशैलेन्द्रशृङ्गं सङ्घं नः सङ्कटानां विघट‌- यतु काङ्कटीकं किरीटम् ॥३३ वक्राकार: कळङ्की जडत- नुरहमप्यङ्घ्रिसेवानुभावा- दुत्तंसत्वं प्रयातस्सुलभ- तरघृणास्मन्दिश्चन्द्रमौळेः । तत्सेवन्तां जनौघाश्शिव- मिति निजयावस्थयापि ब्रुवाणं वन्दे देवस्य शम्भोर्मुकुट- सुघटितं मुग्धपीयूषभानुम् ॥३४ कान्त्या सस्फुल्लमल्लीकुसुम- धवळया व्याप्य विश्वं विराजन् वृत्ताकारो वितन्वन्मुहुरपि च वरां निर्वृतिं पादभाजाम् । सानन्दं नन्दिदोष्णा मणिक- टकवता वाह्यमानः पुरारेः श्वेतच्छत्राख्यशीतद्युतिर- पहरतादापदस्तांपदा नः ।।३५ दिव्याकल्पोज्जूलानां शिव- गिरिसुतयोः पार्श्वयोरानिश्रितानां रुद्राणीसत्सखीनामतितर- ळकटाक्षाञ्चलैरञ्चितानाम् । ।

  25. उद्वेलद्वाहुवल्लीविलसन- समये चामरीन्दोलनीना- मुद्भूतः कङ्कणाळीवलय- कलकलो वारयेदापदो नः ॥३६ खर्गौकस्सुन्दरीणां सुललि- तवपुषां स्वामिसेवापराणां वल्गभ्दूषाणि वक्त्राम्बुजपरि- विगळन्मुग्धगीतामृतानि। नित्यं नृत्तान्युपासे भुजवि- धुतिपदन्यासभावावलोक- प्रत्युद्यत्पीतिमाद्यन्प्रथमनट- नटीदत्तसम्भावनानि ॥३७ स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा- स्वानावच्छिन्नताळक्रमम- मृतमिवास्वाद्यमानं शिवायाम् । नानारागारिहृद्यं नवर- समधुरस्तोत्रजातानुविद्धं गानं वीणामहर्षेः कळम- तिललितं कर्णपूरायतास्नः ॥३८ चेतो जातप्रमोदं सपदि विदधति प्राणिनां वाणिनीनां पाणिद्वन्दाप्रकूजत्सुललि- तविलसत्स्वर्णताळानुकूला। स्वियारावेण पायोभरर- वपटुना नादयन्तीं मयूरीं मायूरी मन्दभावं मणिमु- रजभवा मार्जना मार्जयेन्नः॥३९ देवेभ्यो दानवेभ्यः पितृमु- निपरिषरिसद्धविद्याधरेभ्यः साध्येभ्यश्चारणेभ्यो मनुज- पशुलसज्जातिकीटादिकेभ्यः । श्रीकैलास्रपरूढास्तृणवि- टपिमुखाश्चापि ये सन्ति तेभ्य- स्सर्वेभ्यो निर्विचार नतिमु- परचये शर्वपावाश्रयेभ्यः ॥४० इत्थं ध्यायन् प्रभाते प्रतिदि- वसमिदं स्तोत्ररत्रं पठेद्यः किंवा ब्रूमस्तदीयं सुचरि- वमथवा कीर्तयामस्समासात् । सम्पज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वं सम्प्राप्यायुश्शतान्ते पद- मयति परब्रह्मणो मन्मथारेः॥४१ इति श्रीमत्परमहंस परिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ ॥ शिवपादादिकेशान्तस्तुतिः सम्पूर्णा ॥

Roman transliteration (IAST)

Automatic transliteration.

  1. ॥ śivapādādikeśāntastutiḥ ॥

  2. kalyāṇaṃ vo vidhattāṃ kaṭaka- taṭalasatkalpavāṭīnikuñja- krīḍāsaṃsaktavidyādharanivahavadhūgītarudrāpadānaḥ । tārairharerambanādaistaralitaninadattārakārātikekī- kailāsaśśarvanirvṛttyabhijanakapadassarvadā parvatendraḥ॥1 yasya prāhussvarūpaṃ sakaladiviṣadāṃ sārasarvasvayogaṃ vasyeṣuśśārṅgadhanvā samaja- ni jagatāṃ rakṣaṇe jāgarūkaḥ । maurvīṃ durvīkarāṇāmapi ca pari- bṛḍhaḥ pūsrayī sā ca lakṣyaṃ so'dhyādavyājamasmānaśiva- bhidaniśaṃ nākināṃ śrīpinākaḥ ॥ 3 ālaṅkāvegahārī sakala- diviṣāmaṅghripadmāśrayāṇāṃ

  3. 261

  4. śivapādādikeśāntastutiḥ mātaṅgādyugradaityaprakara- tanugal̤adraktadhārāttadhāraḥ । krūraḥ sūrāyutānāmapi ca paribhavaṃ svīyamāsā vitanvan । ghorākāra: kuṭhāro dṛḍhata- raduritākhyāṭavīṃ pāṭayennaḥ॥ 3 kāl̤ārāte: karāgre kṛtava- satiruraśśāṇaśāto ripūṇāṃ kāle kāle kulādripravara- tanayayā kalpitasnehalepaḥ। pāyānnaḥ pāvakārciḥprasara- sakhamukhaḥ pāpahantā nitāntaṃ śūlaśśrīpādasevābhajana- parahṛdāṃ pālanaikāntaśīlaḥ ॥ 4 devasthāṅkāśrayāyāḥ kulagi- riduhiturnetrakoṇapracāra-

  5. 262 bṛhatstotraratnākare - prathamabhāga:

  6. prastārānatyudārān pipaṭhi- ṣuriva yo nityamatyādareṇa । ādhatte bhaṅgituṅgairaniśa- mavayavairantaraṅgaṃ sramodaṃ somāpīḍasya so'yaṃ pradiśa- tu kuśalaṃ pāṇiraṅgaḥ kuraṅgaḥ ॥ kaṇṭhaprāntāvasajjatkanaka- mayamahāghaṇṭikāghoraghoṣaiḥ kaṇṭhārāvairakuṇṭhairapi bhari- tajagaccakravāl̤āntarāl̤aḥ। caṇḍa proddaṇḍaśṛṅgaḥ kakubha- kabal̤itīttuṅgakailāsaśṛṅgaḥ kaṇṭhe kālasya vāhaḥ śamaya- tu duritaṃ śāśvataṃ śākvarendraḥ ॥ 6 niryaddānāmbudhārāparimal̤a- taral̤ībhūtalolambapālī

  7. 263 śivapādādikeśāntastutiḥ

  8. jhaṅkāraiḥ śaṅkarādreḥ śikhara- śatadarī: pūrayan bhūrighoṣaiḥ। śārvassauvarṇaśailapratima- pṛthuvapussarvavighnopahartā śarvāṇyāḥ pūrvasūnussa bhava- tu bhavatāṃ svastido hastivaktraḥ ॥ 7 yaḥ puṇyairdevatānāṃ samaja- ni śivayośśrlāghyavīraikamatyā yanāgni śrūyamāṇe ditija- bhaṭaghaṭā bhītibhāraṃ bhajante । bhūyātso'yaṃ vibhūtyai niśita- śaraśikhāpāṭitakrauñcaśaila- ssaṃsārāgādhakūpodarapa vitasamuttārakastārakāriḥ॥ 8 ārūḍha़prauḍhavegapravijita- pavanaṃ tuṅgatuṅgaṃ turaṅgaṃ

  9. 264 bṛhatstotraratnākare - prathamabhāga:

  10. celaṃ nīlaṃ vasānaḥ karata- lavilasatkāṇḍakodaṇḍadaṇḍaḥ । rāgadveṣādinānāvidhamṛgapaṭalībhītikṛdbhūtabhartā kurvannākheṭalīlāṃ parilasatu manaḥkānane māmakīne ॥ ambhojābhyāṃ ca rambhārathaca- raṇalatādvandvakumbhīndrakumbhai- rbidenendośca kamborupari- vilasatā vidrumeṇotpalābhyām । ambhodenāpi sampāditamu- pajanitāḍambaraṃ śambarāre: śambhorasambhogayogyaṃ kimapi dhanamidaṃ sambhavetsasampade naḥ ॥ veṇīsaubhāgyavismāpitata- panasutācāruveṇīvilāsā- nvāṇīnirdhūtavāṇīkarata- lavidhṛtodāravīṇāvirāvān ।

  11. 265

  12. śivapādādikeśāntastutiḥ eṇīnetrāntabhaṅgīnirasa- nanipuṇāpāṅgakoṇānupāse śoṇānprāṇānudūḍhaprati- navasuṣumākandal̤ānindumaul̤eḥ ॥ 11 nṛttārambheṣu hastāhatamu- rajadhimīdhikkṛtairatyuvārai- ścittānandaṃ vidhatte sadasi bhagavatastantataṃ yassa nandī। caṇḍīśādyāstathānye catura- guṇagaṇaprāṇitasvāmisa- tkārotkarṣodyatpratāpāḥ pramatha- paribṛḍhāssantu santoṣiṇo na ॥ 12 muktāmāṇikyajālaiḥ parikali- tamahāsālamālokanīyaṃ pratyuptānargharatnairdiśi bha- vanaiḥ kalpitairdikpatīnām

  13. 266

  14. bṛhatstotraratnākare - prathamabhāgaḥ udyānairadrikanyāparijana- vanitāmānanīyaiḥ parītaṃ hṛdyaṃ stutyaṃ surāṇāṃ mama bhuva- napaterdhāma somārdhamaul̤eḥ ॥ 13 stambhairjambhāriratnapravara- viracitaissambhṛtopāntabhāgaṃ śubhapratsopānamārgaṃ śucima- ṇinicayairgumbhitānalpaśilpam । kumbhaissampūrṇaśobhaṃ śirasi sughaṭitaiḥ śātakumbhairapaṅkai śśambhossambhāvanīyaṃ sakala- munijanaissarvadā suprasannaḥ॥ 14 nyasto madhye sabhāyāḥ parisa- ravilasatpādapīṭhābhirāmo hṛdyaḥ pādaiścaturbhiḥ kanaka- maṇimayairuccakairujjvalātmā।

  15. 267

  16. śivapādādikeśāntastutiḥ vāsoratnena kenāpyadhika mṛdukeraṇāsrato vismṛtaśrī- pīṭha: pīḍādharaṃ na: śamaya- tu śivayossvairasaṃvāsayogyaḥ ॥ 15 āsīnasyādhipīṭhaṃ trijaga- dadhipateraṅghripīṭhānuṣaktau pāthojābhogabhājau parimṛdu- latalollāsipadmābhilekhau। pātāṃ pādāvubhau tau namada- marakirīṭollasaccāruhīra- śreṇīśoṇāyamānonnatana- svadaśakodbhāsamānau samānau ॥ 16 yannādo vedavācāṃ nigadati nikhilaṃ lakṣaṇaṃ pakṣiketu- rlakṣmīsambhogasaukhyaṃ viracaya- ti yayoścāpade rūpabhede।

  17. 268

  18. bṛhatstotraratnākare prathamabhāgaḥ śambhossambhāvanīye padaka- malasamāsaṅgatastuṅgaśobhe māṅgalyaṃ nassamagraṃ sakala- sukhakare nūpure pūrayetām ॥ 17 aṅge śṛṅgārayonessapadi śalabhatāṃ netravahnau prayāte śatroruddhṛtya tasmādiṣudhi- yugamatha nyastamagre kimetat । śaṅkāmitthaṃ natānāmamara- pariṣadāmantaraṃ krūraya- ttatsaṅghātaṃ cārujaṅghāyuga- makhilapate raṃhasāṃ saṃharennaḥ ॥ 18 jānudvandvena mīnadhvaja nṛpa- rasamudropamānena sākaṃ rājantau rājarambhākarika- rakanakastambhasambhāvanīyau

  19. śivapādādikeśāntastutiḥ 269

  20. ūrū gaurīkarāmbhoruhasara- sasamāmardanānandabhājā- vūrū dūrīkriyetāṃ durita- mupacitaṃ janmajanmāntare naḥ ॥ 19 āmuktānargharatnaprakara- karapariṣvaktakalyāṇakāñcī- dāmnā baddhana dugdhadyuti- nicayamuṣā cīnapaṭṭāmbareṇa । saṃvīte śailakanyāsucari- taparipākāyamāne nitambe nityaṃ nānartu cittaṃ mama nikhi- lajagatsvāminassomamauleḥ ॥ 20 sandhyākālānurañjaddinaka- rasarucā kāladhautena gādhaṃ vyāvaddhasnigdhavarṇassarasa- mudarabandhena pītopamena।

  21. 270

  22. bṛhatstotraratnākare - prathamabhāga: uddīpraissvaprakāśairupacita- mahimā manmathārerudāro madhyā mithyārthasadhracaṅ diśatu mama sadā saṅgatiṃ maṅgal̤ānām ॥ 21 nābhīcakrālavālānnavanava- suṣamādohal̤aśrīparītā- dudgacchantī purastādudara- pathamatikramya vakṣaḥ prayāntī। śyāmā kāmāgamārthaprakatha- nalipivadbhāsate yā nikāmaṃ sā mā somārdhamaul̤essukhaya- tu satataṃ romavallī matallī ॥ 21 āśleṣeṣvadrijāyā: kaṭhina- kucataṭīliptakāśmīrapaṅka- vyāsaṅgādudyadarkadyutimirupacitaspardhamuddāmahṛdyam । dakṣārāterudūḍhapratinavamaṇimālāvalībhāsamānaṃ

  23. vakṣo vikṣobhitācaṃ satata- natijuṣāṃ rakṣādakṣataṃ naḥ ॥23 vāmāṅke viṣphurantyāḥ karata- lavilasañcāru raktotpalāyā: kāntāyā vāmavakṣoruhamaraśikharonmardanavyagramekam । anyāṃstrīnatyudārānvaraparaśumṛgālaṅkṛtānsindhumaul̤e- rbāhūnābaddhahemāṅgadama- ṇikaṭakānantarālokayāmaḥ ॥ 24 sanbhrāntāyāśiśavāyāḥ pativi- layabhayārasarvalokopatāpā- tsaṃvipnasyāpi viṣṇoḥ sarabha- samubhayoārvāraṇapreraṇābhyām । madhye traiśaṅkavīyāmanubhavati daśāṃ yatra hālāhaloṣmā so'yaṃ sarvāpadāṃ naḥ śamaya- tu nicayaṃ nīlakaṇṭhasya kaṇṭhaḥ ॥25 hṛdhairadrīndrakanyāmṛdudaśanapadairmudrito vidgumaśrī- rudyotantyā nitāntaṃ dhavala- dhavalayā miśrito dantakāntyā । muktāmāṇikyapūravyatikarasadṛśā tejasā bhāsamāna- ssadyojātasya dadyādadhara- maṇirasau sampadāṃ sañcayaṃ naḥ॥26 karṇālaṅkāra nānāmaṇinikararucā sañcayairaṃñcvatāyāṃ varṇyāyāṃ kharṇapadmodarapa- rivilasatkarṇikāsannibhāyām। paddhayāṃ prāṇavāyoḥ praṇata- janahṛdambhojavānasya śambho- rnityaṃ naścittametadviraca- yatu sukhenāsikāṃ nāsikāyām ॥27 atyantaṃ bhāsamāne rucira- tararucāṃ saṅgamātsanmaṇīnā- mudyañcaṇḍāṃśudhāmaprasara-

  24. nirasanaspaṣṭaraṣṭāpadāne । bhūyāstāṃ bhūtaye naḥ karivarajayinaḥ karṇapāśāvalambe bhaktāl̤īphālasajjajjanimara- ṇalipeḥ kuṇḍale kuṇḍale te ॥28 yābhyāṃ kālavyavasthā bhavati tanumatāṃ yo mukhaṃ devatānāṃ yeṣāmāhussvarūpaṃ jagati munivarā devatānāṃ trayīṃ tām । rudrāṇīvaktrapaṅkeruhasata- taviharotsukendindirebhya- stebhyastribhyaḥ praṇāmāñjalimu- paracaye trīkṣaṇasyekṣaṇebhyaḥ॥ 29 vāmaṃ vāmāṅkagāyā vadana- sarasije vyāvaladvallabhāyā vyānasneṣvanyadanyatpunara- l̤ikabhavaṃ pītaniśśeṣaraukṣyam । . bhūyo bhūyo'pi modāgnipata- datidayāśītal̤aṃ cūtabāṇe vakṣārerīkṣaṇānāṃ trayamapa- haratādāśu tāpatrayaṃ naḥ॥30 yasminnardhendumugdhātivimi- ratiraskāranistandrakāntau kāśmīrakṣodasaṅkalpitami- va ruciraṃ citrakaṃ bhāti netram । tasminnullīlacillīnaṭava- rataruṇīlāsyaraṅgāyamāṇe kālārai phāladeśe vihara- tu hṛdayaṃ vītacintāntaraṃ naḥ ॥31 svāmin gaṅgāmivāṅgīkuru ta- va śirasā māmapītyarthayantīṃ dhanyāṃ kanyāṃ kharāṃśośiśarhasi dahati kinveṣa kāruṇyaśālī । itthaṃ śaṅkāṃ janānāṃ janaya- datidhanaṃ kauśikaṃ kālamegha- cchāyaṃ bhūyādudāraṃ tripura- vijayinaḥ śreyase bhūyase naḥ॥32 śṛṅgārākalpayogyairiśakhariva- rasutāsratsakhīhastalūnai- ssūnairābaddhamālāvalipa- rivilasatsaurabhākṛṣṭabhṛṅgam । tu māṇikyakāntyā pariha- sitamurāvāsaśailendraśṛṅgaṃ saṅghaṃ naḥ saṅkaṭānāṃ vighaṭa‌- yatu kāṅkaṭīkaṃ kirīṭam ॥33 vakrākāra: kal̤aṅkī jaḍata- nurahamapyaṅghrisevānubhāvā- duttaṃsatvaṃ prayātassulabha- taraghṛṇāsmandiścandramaul̤eḥ । tatsevantāṃ janaughāśśiva- miti nijayāvasthayāpi bruvāṇaṃ vande devasya śambhormukuṭa- sughaṭitaṃ mugdhapīyūṣabhānum ॥34 kāntyā sasphullamallīkusuma- dhaval̤ayā vyāpya viśvaṃ virājan vṛttākāro vitanvanmuhurapi ca varāṃ nirvṛtiṃ pādabhājām । sānandaṃ nandidoṣṇā maṇika- ṭakavatā vāhyamānaḥ purāreḥ śvetacchatrākhyaśītadyutira- paharatādāpadastāṃpadā naḥ ॥35 divyākalpojjūlānāṃ śiva- girisutayoḥ pārśvayorāniśritānāṃ rudrāṇīsatsakhīnāmatitara- l̤akaṭākṣāñcalairañcitānām । ।

  25. udveladvāhuvallīvilasana- samaye cāmarīndolanīnā- mudbhūtaḥ kaṅkaṇāl̤īvalaya- kalakalo vārayedāpado naḥ ॥36 khargaukassundarīṇāṃ sulali- tavapuṣāṃ svāmisevāparāṇāṃ valgabhdūṣāṇi vaktrāmbujapari- vigal̤anmugdhagītāmṛtāni। nityaṃ nṛttānyupāse bhujavi- dhutipadanyāsabhāvāvaloka- pratyudyatpītimādyanprathamanaṭa- naṭīdattasambhāvanāni ॥37 sthānaprāptyā svarāṇāṃ kimapi viśadatāṃ vyañjayanmañjuvīṇā- svānāvacchinnatāl̤akramama- mṛtamivāsvādyamānaṃ śivāyām । nānārāgārihṛdyaṃ navara- samadhurastotrajātānuviddhaṃ gānaṃ vīṇāmaharṣeḥ kal̤ama- tilalitaṃ karṇapūrāyatāsnaḥ ॥38 ceto jātapramodaṃ sapadi vidadhati prāṇināṃ vāṇinīnāṃ pāṇidvandāprakūjatsulali- tavilasatsvarṇatāl̤ānukūlā। sviyārāveṇa pāyobharara- vapaṭunā nādayantīṃ mayūrīṃ māyūrī mandabhāvaṃ maṇimu- rajabhavā mārjanā mārjayennaḥ॥39 devebhyo dānavebhyaḥ pitṛmu- nipariṣarisaddhavidyādharebhyaḥ sādhyebhyaścāraṇebhyo manuja- paśulasajjātikīṭādikebhyaḥ । śrīkailāsraparūḍhāstṛṇavi- ṭapimukhāścāpi ye santi tebhya- ssarvebhyo nirvicāra natimu- paracaye śarvapāvāśrayebhyaḥ ॥40 itthaṃ dhyāyan prabhāte pratidi- vasamidaṃ stotraratraṃ paṭhedyaḥ kiṃvā brūmastadīyaṃ sucari- vamathavā kīrtayāmassamāsāt । sampajjātaṃ samagraṃ sadasi bahumatiṃ sarvalokapriyatvaṃ samprāpyāyuśśatānte pada- mayati parabrahmaṇo manmathāreḥ॥41 iti śrīmatparamahaṃsa parivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau ॥ śivapādādikeśāntastutiḥ sampūrṇā ॥

How to use this page
  1. Tap Kirtan for large text that keeps the screen awake. Press Start to scroll while you sing; touch the screen to pause.

  2. Tap Aa to change the text size and line spacing, or to show both, lyrics only or translation only. Your choice is remembered.

  3. Under Read in, pick a script to read the same text in Devanagari, Bengali, Tamil, Telugu and more.

  4. Compare shows the lyrics side by side in two scripts, such as Devanagari and Roman, verse by verse. Choose any script or a translation for each column; on songs and prayers, Show meaning adds the meaning under each verse.

  5. Tap Save to keep this page under Your songs on the home page. Pages you open appear there too, on this device only.

  6. Share sends a link to this page. PDF makes a clean sheet without menus, to save or print.

  7. At the end, Previous and Next take you through the list in order.

All tips

Text: Sanskrit Wikisource (Sanskrit Wikisource contributors (history: https://sa.wikisource.org/w/index.php?title=%E0%A4%B6%E0%A4%BF%E0%A4%B5%E0%A4%AA%E0%A4%BE%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%95%E0%A5%87%E0%A4%B6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%81%E0%A4%A4%E0%A4%BF%E0%A4%83&action=history)),CC BY-SA 4.0, retrieved 2026-10-26. Other scripts and the Roman transliteration are generated automatically.