शिवपूजास्तवः

Auto-scrollSpeed 3

Touch the screen or press any key to pause.

Reading settings

Text size
Show
Layout (wide screens)
Line spacing
  1. प्रातः शङ्करचिन्तनस्नपनसंसेकासुसंरोधनैः सन्ध्यासंस्मृतिमार्जनाघशमनोपस्थानसन्तर्पणैः । द्वारस्यार्चनयागधामगतविघ्नोद्वासनाद्यैः प्रभोर्यः श्रीमान्यजनं करोति भवतस्तस्यैव सिद्धिद्वयं । । १ । ।

  2. एकैवार्थत ईशशक्तिरमिता यानेकरूपा शिवा कालोपाधिवशाद्द्विजास्त्वनुदिनं ब्राह्म्यादिरूपेण तां । ध्यायन्त्यत्र तु निर्मलात्मशिवयोः सन्धिश्च शैवी पुरा सन्ध्यातः शिव एव साधकवरैर्ध्येयः सदा निर्मलः । । २ । ।

  3. प्रातः स्मरामि हृदयाब्जस्वमध्यसंस्थं चन्द्रार्कमार्गविरहोदितचित्स्वरूपं । ध्येयं सदा मुनिवरैरपवर्गसिद्ध्यै विश्वात्मकं सदसदन्तमनन्तमीशं । । ३ । ।

  4. मध्यन्दिने शतसहस्रनिशाकराभं विश्वेश्वरं परमकारणमप्रमेयं । शम्भुं सदोदितममायवियत्स्वरूपं कोदण्डमध्यनिलयं नियतं स्मरामि । । ४ । ।

  5. ब्रह्माक्षरं निशिमुखेऽमृतसागराभं विश्वाधिपं शिवमनूत्थितनादसंस्थं । बोधामृतं करणकारणकार्यहीनं तं ब्रह्मरन्ध्रनिलयं नियतं स्मरामि । । ५ । ।

  6. तेजोनिधानमचलं शिवमर्धरात्रे नित्यं निरस्तविषयैः परमार्थदृग्भिः । विज्ञेयमव्ययमचिन्त्यमभावनीयं उन्मन्यतीतविषयं सततं स्मरामि । । ६ । ।

  7. क्ष्मादिग्रन्थ्यन्ततत्त्वक्रमनिहितपदाक्रान्तसंशुद्धविद्या- तत्त्वान्तव्यापिसादाशिवविशदपदं भावयन्नात्मरूपं । शैवज्ञानप्रसिद्धप्रवरविधिगताशेषसत्कृत्यकारी जीवं हृद्येव कुर्याद्रविशशिदहनव्योमशक्त्यन्तरस्थं । । ७ । ।

  8. आयामैः श्वनस्य भौतिकमलं देहं कलाभिः सुधीर्यः पञ्चाध्वविसर्पिणीभिरनिशं संशोध्य तच्छम्बरैः । मन्त्रालङ्कृतदेहभृन्निशि दिवा सन्ध्यासु सन्तोषयन्नर्चाहोमसमाधिभिः शिवमसौ संयाति शैवं पदं । । ८ । ।

  9. य एष देवो महतो महीयानणोरणीयान्भवभीरुभिः सः । ज्ञेयः शिवः सर्वगतः शरीरे ध्येयः स पूज्यः शिवलिङ्गमध्ये । । ९ । ।

  10. हृत्पद्माख्यशिवालये मनसिजे तत्कर्णिकाख्ये क्रियापीठे ज्ञानमयं विशुद्धमनसा संस्थाप्य नादात्मना । लिङ्गं तच्च सुधामयेन पयसा संस्नाप्य सम्यक्पुनो वैराग्येण च चन्दनेन वसुभिः पुष्पैरहिंसादिभिः । । १० । ।

  11. प्राणायामभवेन धूपविधिना चिद्दीपदानेन यः प्रत्याहारमयेन सोमहविषा सौषुम्नजापेन च । तच्चित्ते बहुधारणाभिरमलध्यानोद्भवैर्भूषणैस्तत्साम्याणिनिवेदनेन यजते धन्यः स एवामलः । । ११ । ।

  12. चन्द्रस्राविसुधामयेन हविषा नाभिस्थकुण्डेऽनलं सन्तर्प्येशमयं शिवास्पदगतव्योम्नि स्थिते सर्वगे । कन्दोद्भूतशिवाणुनादशिखया वृत्त्यात्मसंवेदनं शैवे ज्योतिषि यः करोति पुरुषो मुक्तः स एवाक्षयः । । १२ । ।

  13. यथावदात्माश्रयवस्तुमन्त्र- स्वायत्तलिङ्गादिषु शोधितेषु । सिद्धान्तमार्गस्थितसाधकानां त्वत्पूजनं नात्र विलोमतोऽस्तु । । १३ । ।

  14. धारिकाभिधशक्तिबीजमनन्तपङ्कजकुड्मलं पुण्यबोधविरागभूतिपदं विलोमचतुष्टयं । गात्रकं छदनद्वयं कमलं सकेसरकर्णिकं शक्तिमण्डलसङ्घयुक्तमहं नमामि शिवासनं । । १४ । ।

  15. पृथ्वीकन्दं कालतत्त्वान्तनालं लोकौघं तत्कण्टकं भावसूत्रं । ग्रन्थिग्रन्थिं शुद्धविद्यासरोजं विद्येशानारूढपत्राष्टकं च । । १५ । ।

  16. वामादिशक्तिगतकेसरकर्णिकाढ्यं अर्कादिबिम्बसहितं वरयोगपीठं । तत्र स्थितं हृदयमन्त्रगतात्ममन्त्र- मूर्तिं च बिन्दुगतमीशमहं नमामि । । १६ । ।

  17. तत्कन्दं शतकोटियोजनमितं नालं परार्धान्तकं ग्रन्थिः कोटिपरार्धपश्चिमसहस्रोऽब्जं च तल्लक्षकं ।* मूर्तिस्तस्य च कोटिरीश्वरमयी तस्यार्बुदस्यार्बुदाम्भोजं मन्त्रमयं सदाशिववपुस्तद्वानमेयः शिवः । । १७ । ।*

  18. यस्यामौषधभूषणध्वनिमयी मूर्तिः परा बैन्दवी ध्येया शङ्करमन्त्रतन्त्रनिरतैर्ज्ञानक्रियाङ्गी शिवा । सर्वैश्वर्यसुखप्रदा निरुपमा सादाशिवी निर्मला नादाख्याय सदाशिवाय महते शान्ताय तस्मै नमः । । १८ । ।

  19. ध्येयः सदा गगनमण्डलमध्यवर्ती निर्विघ्नशुद्धशिवयोगिहृदम्बुजस्थः । ईशोर्ध्वनिष्कलशिवान्तवपुः सदेशो बिन्दुः स्वरोद्भवकलाभुवनेशगर्भः । । १९ । ।

  20. योऽसावीशानमूर्धा नरमुखकमलोऽघोरहृद्वामगुह्यः सद्योमूर्तिः पुरेशाननहृदयपदः षड्विधाध्वस्वरूपः । भूताम्भोराशिसिद्धिस्मरभुजगकलाक्ळ्प्तदेहः क्रियेच्छा- दृङ्मासार्धाम्बकं तं कबिलगतमहं न्ॐइ विद्याशरीरं । । २० । ।

  21. श्वेतासृक्कृष्णपीतस्फटिकशशिसुवर्णारुणाल्यग्निवर्णैर्ब्रह्माङ्गैर्व्यक्तमूर्तिर्भवहरशिवसंयोगतः स्फाटिकाभः । ऐक्यान्मन्त्रार्थयोरित्यखिलशिवमतेष्वाहसर्वार्थहेतुर्वक्त्राणां वर्णभेदश्चिदचिदधिपतेश्चित्रमेतत्स्वरूपं । । २१ । ।

  22. ईशानेन वियन्मयेन धवलप्रख्येन सर्वप्रभोर्व्याप्तं वक्त्रचतुष्टयं पुरुषहृद्गुह्याजमन्त्रात्मकं । तेनेदं धवलप्रभं शिवविदः पूर्वादिकाष्ठाभृतां वर्णानुग्रहहेतुतः प्रतिमुखं पीतादिवर्णं विदुः । । २२ । ।

  23. ईशतत्पुरुषाघोर- वामाजवदनं शिवं । बालयौवनवृद्धस्त्री- नराकारं नमाम्यहं । । २३ । ।

  24. त्रिशूलखट्वाङ्गधरः सशक्तिर्वराब्जहस्तोऽभयपाणिरीशः । सेन्दीवराहिर्डमरुप्रसक्तः सबीजपूरः सुभगोऽक्षसूत्री । । २४ । ।

  25. बोधानन्दमयी विभोर्भवभयप्रध्वंसकृच्छक्तयस्तिस्रस्ताः परिणामतश्च विवृतिर्निःशेषबीजस्य हि । तपूर्णं प्रकृतिः कलाद्यभिमुखी दीर्घाक्षसूत्रं मनः शम्भोरस्त्रनिकाय आगमपरैर्ज्ञेयः परो नापरः । । २५ । ।

  26. ईशानं सर्वासां विद्यानामीश्वरं च भूतानां ।* ब्रह्माधिपतिं ब्रह्मत्वान्निष्कलरूपं सदाशिवं न्ॐइ । । २६ । ।*

  27. तत्पुरुषं भक्तानां शैवज्ञानप्रदं महदेवं ।* रुद्रं शिवत्वसिद्ध्यै तत्त्वप्रेरकमहं वन्दे । । २७ । ।*

  28. अथ घोरमघोरं पशुपाशनिराकरणं घोरघोरतरं ।* (थिशल्फ़्-लिने अप्पेअर्स्तो बे उन्मेत्रिचलार्या) सर्वस्माच्छरणमहं शर्वं बहुरूपिणं वन्दे । । २८ । ।*

  29. वामं ज्येष्ठं रौद्रं कलविकरणं बलविकरणं कान्तं ।* बलप्रमथनं सर्वभूतदमनं मनोन्मनमहं वन्दे । । २९ । ।* (थिशल्फ़्-लिने अप्पेअर्स्तो बे उन्मेत्रिचलार्या) सद्योजातं सर्वज्ञं प्रणतानां भवभयापहरं ।* (थिशल्फ़्-लिने अप्पेअर्स्तो बे उन्मेत्रिचलार्या) अतिभवयोजकममलं भवोद्भवं न्ॐइ जगदधिपं । । ३० । ।*

  30. श्रीमन्मूलमनूत्थनादशिखया ब्रह्मादिसादाशिव- स्थानत्यागगतिक्रमोर्ध्वविलसद्व्योमान्तसंस्थाय ते । बोधानन्दमयाय सर्वविभवे नित्याय विश्वात्मने शुद्धायामलतेजसे च महते तस्मै परस्मै नमः । । ३१ । ।

  31. चन्द्रयुग्मगुणार्थमात्रतदर्धतद्दलषोडश- द्व्युत्तरत्रिदशाब्धिषष्टिभुजङ्गमश्रवणक्षमा । दर्शनेषुकरांशभावमितोन्मनी परमासनं यस्य तं प्रणतोऽस्मि निष्कलमव्ययं परमं शिवं । । ३२ । ।

  32. आदिपञ्चममृत्युभूषणचन्द्रखण्डगुणाश्रदृग्- भानुगध्वनिसीरभास्करसेन्दुवृत्तहलाकृतिः । सांशुमत्त्रिशिखद्विबिम्बगतद्विकुब्जग उन्मना पातु वः सकलापरः सकलाकलः सकलः शिवः । । ३३ । ।

  33. निष्कलं शिवरुद्रपुद्गलभूषणार्धहिमांशुमद्- रोधिदण्डतदन्तशक्तिचतुष्टयेश्वरयोगिनं । शङ्करं वसुसागराङ्गुलचारिणं रसशून्यगं सर्वमन्त्रपतिं प्रासादमहं नतोऽस्मि षडध्वगं । । ३४ । ।

  34. चिद्व्यक्तिसंस्थित्यवलोकरोधैर्मुद्रोत्तरैरङ्गशिवैकभावैः ।* पादाचमार्घ्यप्रसवप्रदानैस्त्वदर्चनं जन्मफलं महेश । । ३५ । ।*

  35. आवाहनं स्वात्मनि चित्प्रकाशस्तत्र स्थितिः स्थापनमीश्वरस्य ।* सान्निध्यमात्मेश्वरसन्निधानं संरोधनं स्वस्य शिवे निरोधः । । ३६ । ।*

  36. नमोऽस्तु संज्ञानहृदे भवाय नमो गुणैश्वर्यविशिष्टमूर्तये ।* नमोऽपराधीनवशित्वरूपशिखाय तेजःकवचात्मने नमः । । ३७ । ।*

  37. नमः पशूनां मलकृतनक्षमासहप्रतापास्त्रधराय शूलिने ।* नमोऽविकाराय षडङ्गमूर्तये सदाशिवायामृतरूपिणे नमः । । ३८ । ।*

  38. स्वभावशुद्धस्य शिवस्य पादमाचाममात्मीयविशुद्धिहेतोः ।* अर्घ्यप्रदानं कुसुमार्पणं च सदेशधामाप्तिनिमित्तमेतथ् । । ३९ । ।*

  39. स्नानं स्वात्ममलापहं शुभमयैर्गन्धैः समालेपनं सद्वस्त्राभरणं सुगन्धिकुसुमैर्मालाभिरभ्यर्चनं । सालङ्कारसदाशिवस्य विधिवद्धूपप्रदानं त्वणोर्भोगार्थं हि सदेशधाम्नि विमलं दीपं शिवज्ञानदं । । ४० । ।

  40. शुचीशरक्तपानिलेन्द्रमृत्युकेन्दुसंस्थितान्पयोधरार्कवातवह्निसन्निभानिनेक्षणान् । (थे ळोकपालस्. इन=सूर्य ःः इनेक्षणान्= द्वादशाक्षान्!) युगाननान्वराभयत्रिशूलशक्तियुक्करान्नमः शिवाङ्गसम्भवान्हृदादिमन्त्रविग्रहान् । । ४१ । ।

  41. भोगाङ्गार्चनमात्मनः शिवगुणप्राप्त्यर्थमैक्यं प्रभोरङ्गानां पुनरर्चकस्य शिवसंयोगाय शुद्धात्मनः । तृप्तस्यान्ननिवेदनाम्बुमुखवासादिप्रदानं मनस्- तृप्त्यर्थं शिवभावमङ्गलकरं चित्रं तत्रार्चाफलं । । ४२ । ।

  42. पवित्रभूतस्य पवित्रदानं तापत्रयघ्नं सकलार्थसिद्ध्यै । जपश्च भक्त्या प्रणतिः शिवस्य ब्रह्मेन्द्रविष्ण्वादिपदत्वहेतुः । । ४३ । ।

  43. अर्चने सकलं जपे सकलाकलं सततोदितं निष्कलं सकलाध्वगं परिपूर्णमात्मसमर्पणे । व्योम्नि सुस्फटिकप्रभं भवने कलासहितं हरं यो हि वेत्ति परं शिवं शिव एव सोऽस्त्र न संशयः । । ४४ । ।

  44. भूयः पूजनमीशसन्निधिकरं सम्प्रार्थनं स्वेशयोरन्योन्यं त्ववलोकनाय भुवने भोगाय सादाशिवे । ईशाग्न्यर्चनमर्पणं क्षपयितुं बन्धत्रयं कर्मणो ज्ञेयं स्वात्मनिवेदनं परशिवे स्थित्यर्थमेवात्मनः । । ४५ । ।

  45. अशुद्धतत्त्वौघबहिष्क्रियार्थं पराङ्मुखार्घ्यं परमेश्वरस्य । यस्मिन्नवस्थानकरं विसर्गं कुर्वन्स शैवं पदमभ्युपेति । । ४६ । ।

  46. विप्रोत्तुङ्गश्चोलदेशी च सूरिः शम्भोः पूजास्तोत्रमेतत्पवित्रं । सिद्धान्तज्ञो ज्ञानशम्भुः शिवोक्त्या चक्रे भक्त्या भुक्तये मुक्तये च । । ४७ । ।

Roman transliteration (IAST)

Automatic transliteration.

  1. prātaḥ śaṅkaracintanasnapanasaṃsekāsusaṃrodhanaiḥ sandhyāsaṃsmṛtimārjanāghaśamanopasthānasantarpaṇaiḥ | dvārasyārcanayāgadhāmagatavighnodvāsanādyaiḥ prabhoryaḥ śrīmānyajanaṃ karoti bhavatastasyaiva siddhidvayaṃ | | 1 | |

  2. ekaivārthata īśaśaktiramitā yānekarūpā śivā kālopādhivaśāddvijāstvanudinaṃ brāhmyādirūpeṇa tāṃ | dhyāyantyatra tu nirmalātmaśivayoḥ sandhiśca śaivī purā sandhyātaḥ śiva eva sādhakavarairdhyeyaḥ sadā nirmalaḥ | | 2 | |

  3. prātaḥ smarāmi hṛdayābjasvamadhyasaṃsthaṃ candrārkamārgavirahoditacitsvarūpaṃ | dhyeyaṃ sadā munivarairapavargasiddhyai viśvātmakaṃ sadasadantamanantamīśaṃ | | 3 | |

  4. madhyandine śatasahasraniśākarābhaṃ viśveśvaraṃ paramakāraṇamaprameyaṃ | śambhuṃ sadoditamamāyaviyatsvarūpaṃ kodaṇḍamadhyanilayaṃ niyataṃ smarāmi | | 4 | |

  5. brahmākṣaraṃ niśimukhe'mṛtasāgarābhaṃ viśvādhipaṃ śivamanūtthitanādasaṃsthaṃ | bodhāmṛtaṃ karaṇakāraṇakāryahīnaṃ taṃ brahmarandhranilayaṃ niyataṃ smarāmi | | 5 | |

  6. tejonidhānamacalaṃ śivamardharātre nityaṃ nirastaviṣayaiḥ paramārthadṛgbhiḥ | vijñeyamavyayamacintyamabhāvanīyaṃ unmanyatītaviṣayaṃ satataṃ smarāmi | | 6 | |

  7. kṣmādigranthyantatattvakramanihitapadākrāntasaṃśuddhavidyā- tattvāntavyāpisādāśivaviśadapadaṃ bhāvayannātmarūpaṃ | śaivajñānaprasiddhapravaravidhigatāśeṣasatkṛtyakārī jīvaṃ hṛdyeva kuryādraviśaśidahanavyomaśaktyantarasthaṃ | | 7 | |

  8. āyāmaiḥ śvanasya bhautikamalaṃ dehaṃ kalābhiḥ sudhīryaḥ pañcādhvavisarpiṇībhiraniśaṃ saṃśodhya tacchambaraiḥ | mantrālaṅkṛtadehabhṛnniśi divā sandhyāsu santoṣayannarcāhomasamādhibhiḥ śivamasau saṃyāti śaivaṃ padaṃ | | 8 | |

  9. ya eṣa devo mahato mahīyānaṇoraṇīyānbhavabhīrubhiḥ saḥ | jñeyaḥ śivaḥ sarvagataḥ śarīre dhyeyaḥ sa pūjyaḥ śivaliṅgamadhye | | 9 | |

  10. hṛtpadmākhyaśivālaye manasije tatkarṇikākhye kriyāpīṭhe jñānamayaṃ viśuddhamanasā saṃsthāpya nādātmanā | liṅgaṃ tacca sudhāmayena payasā saṃsnāpya samyakpuno vairāgyeṇa ca candanena vasubhiḥ puṣpairahiṃsādibhiḥ | | 10 | |

  11. prāṇāyāmabhavena dhūpavidhinā ciddīpadānena yaḥ pratyāhāramayena somahaviṣā sauṣumnajāpena ca | taccitte bahudhāraṇābhiramaladhyānodbhavairbhūṣaṇaistatsāmyāṇinivedanena yajate dhanyaḥ sa evāmalaḥ | | 11 | |

  12. candrasrāvisudhāmayena haviṣā nābhisthakuṇḍe'nalaṃ santarpyeśamayaṃ śivāspadagatavyomni sthite sarvage | kandodbhūtaśivāṇunādaśikhayā vṛttyātmasaṃvedanaṃ śaive jyotiṣi yaḥ karoti puruṣo muktaḥ sa evākṣayaḥ | | 12 | |

  13. yathāvadātmāśrayavastumantra- svāyattaliṅgādiṣu śodhiteṣu | siddhāntamārgasthitasādhakānāṃ tvatpūjanaṃ nātra vilomato'stu | | 13 | |

  14. dhārikābhidhaśaktibījamanantapaṅkajakuḍmalaṃ puṇyabodhavirāgabhūtipadaṃ vilomacatuṣṭayaṃ | gātrakaṃ chadanadvayaṃ kamalaṃ sakesarakarṇikaṃ śaktimaṇḍalasaṅghayuktamahaṃ namāmi śivāsanaṃ | | 14 | |

  15. pṛthvīkandaṃ kālatattvāntanālaṃ lokaughaṃ tatkaṇṭakaṃ bhāvasūtraṃ | granthigranthiṃ śuddhavidyāsarojaṃ vidyeśānārūḍhapatrāṣṭakaṃ ca | | 15 | |

  16. vāmādiśaktigatakesarakarṇikāḍhyaṃ arkādibimbasahitaṃ varayogapīṭhaṃ | tatra sthitaṃ hṛdayamantragatātmamantra- mūrtiṃ ca bindugatamīśamahaṃ namāmi | | 16 | |

  17. tatkandaṃ śatakoṭiyojanamitaṃ nālaṃ parārdhāntakaṃ granthiḥ koṭiparārdhapaścimasahasro'bjaṃ ca tallakṣakaṃ |* mūrtistasya ca koṭirīśvaramayī tasyārbudasyārbudāmbhojaṃ mantramayaṃ sadāśivavapustadvānameyaḥ śivaḥ | | 17 | |*

  18. yasyāmauṣadhabhūṣaṇadhvanimayī mūrtiḥ parā baindavī dhyeyā śaṅkaramantratantraniratairjñānakriyāṅgī śivā | sarvaiśvaryasukhapradā nirupamā sādāśivī nirmalā nādākhyāya sadāśivāya mahate śāntāya tasmai namaḥ | | 18 | |

  19. dhyeyaḥ sadā gaganamaṇḍalamadhyavartī nirvighnaśuddhaśivayogihṛdambujasthaḥ | īśordhvaniṣkalaśivāntavapuḥ sadeśo binduḥ svarodbhavakalābhuvaneśagarbhaḥ | | 19 | |

  20. yo'sāvīśānamūrdhā naramukhakamalo'ghorahṛdvāmaguhyaḥ sadyomūrtiḥ pureśānanahṛdayapadaḥ ṣaḍvidhādhvasvarūpaḥ | bhūtāmbhorāśisiddhismarabhujagakalākl̤ptadehaḥ kriyecchā- dṛṅmāsārdhāmbakaṃ taṃ kabilagatamahaṃ noṃi vidyāśarīraṃ | | 20 | |

  21. śvetāsṛkkṛṣṇapītasphaṭikaśaśisuvarṇāruṇālyagnivarṇairbrahmāṅgairvyaktamūrtirbhavaharaśivasaṃyogataḥ sphāṭikābhaḥ | aikyānmantrārthayorityakhilaśivamateṣvāhasarvārthaheturvaktrāṇāṃ varṇabhedaścidacidadhipateścitrametatsvarūpaṃ | | 21 | |

  22. īśānena viyanmayena dhavalaprakhyena sarvaprabhorvyāptaṃ vaktracatuṣṭayaṃ puruṣahṛdguhyājamantrātmakaṃ | tenedaṃ dhavalaprabhaṃ śivavidaḥ pūrvādikāṣṭhābhṛtāṃ varṇānugrahahetutaḥ pratimukhaṃ pītādivarṇaṃ viduḥ | | 22 | |

  23. īśatatpuruṣāghora- vāmājavadanaṃ śivaṃ | bālayauvanavṛddhastrī- narākāraṃ namāmyahaṃ | | 23 | |

  24. triśūlakhaṭvāṅgadharaḥ saśaktirvarābjahasto'bhayapāṇirīśaḥ | sendīvarāhirḍamaruprasaktaḥ sabījapūraḥ subhago'kṣasūtrī | | 24 | |

  25. bodhānandamayī vibhorbhavabhayapradhvaṃsakṛcchaktayastisrastāḥ pariṇāmataśca vivṛtirniḥśeṣabījasya hi | tapūrṇaṃ prakṛtiḥ kalādyabhimukhī dīrghākṣasūtraṃ manaḥ śambhorastranikāya āgamaparairjñeyaḥ paro nāparaḥ | | 25 | |

  26. īśānaṃ sarvāsāṃ vidyānāmīśvaraṃ ca bhūtānāṃ |* brahmādhipatiṃ brahmatvānniṣkalarūpaṃ sadāśivaṃ noṃi | | 26 | |*

  27. tatpuruṣaṃ bhaktānāṃ śaivajñānapradaṃ mahadevaṃ |* rudraṃ śivatvasiddhyai tattvaprerakamahaṃ vande | | 27 | |*

  28. atha ghoramaghoraṃ paśupāśanirākaraṇaṃ ghoraghorataraṃ |* (thiśalf-line appearsto be unmetricalāryā) sarvasmāccharaṇamahaṃ śarvaṃ bahurūpiṇaṃ vande | | 28 | |*

  29. vāmaṃ jyeṣṭhaṃ raudraṃ kalavikaraṇaṃ balavikaraṇaṃ kāntaṃ |* balapramathanaṃ sarvabhūtadamanaṃ manonmanamahaṃ vande | | 29 | |* (thiśalf-line appearsto be unmetricalāryā) sadyojātaṃ sarvajñaṃ praṇatānāṃ bhavabhayāpaharaṃ |* (thiśalf-line appearsto be unmetricalāryā) atibhavayojakamamalaṃ bhavodbhavaṃ noṃi jagadadhipaṃ | | 30 | |*

  30. śrīmanmūlamanūtthanādaśikhayā brahmādisādāśiva- sthānatyāgagatikramordhvavilasadvyomāntasaṃsthāya te | bodhānandamayāya sarvavibhave nityāya viśvātmane śuddhāyāmalatejase ca mahate tasmai parasmai namaḥ | | 31 | |

  31. candrayugmaguṇārthamātratadardhataddalaṣoḍaśa- dvyuttaratridaśābdhiṣaṣṭibhujaṅgamaśravaṇakṣamā | darśaneṣukarāṃśabhāvamitonmanī paramāsanaṃ yasya taṃ praṇato'smi niṣkalamavyayaṃ paramaṃ śivaṃ | | 32 | |

  32. ādipañcamamṛtyubhūṣaṇacandrakhaṇḍaguṇāśradṛg- bhānugadhvanisīrabhāskarasenduvṛttahalākṛtiḥ | sāṃśumattriśikhadvibimbagatadvikubjaga unmanā pātu vaḥ sakalāparaḥ sakalākalaḥ sakalaḥ śivaḥ | | 33 | |

  33. niṣkalaṃ śivarudrapudgalabhūṣaṇārdhahimāṃśumad- rodhidaṇḍatadantaśakticatuṣṭayeśvarayoginaṃ | śaṅkaraṃ vasusāgarāṅgulacāriṇaṃ rasaśūnyagaṃ sarvamantrapatiṃ prāsādamahaṃ nato'smi ṣaḍadhvagaṃ | | 34 | |

  34. cidvyaktisaṃsthityavalokarodhairmudrottarairaṅgaśivaikabhāvaiḥ |* pādācamārghyaprasavapradānaistvadarcanaṃ janmaphalaṃ maheśa | | 35 | |*

  35. āvāhanaṃ svātmani citprakāśastatra sthitiḥ sthāpanamīśvarasya |* sānnidhyamātmeśvarasannidhānaṃ saṃrodhanaṃ svasya śive nirodhaḥ | | 36 | |*

  36. namo'stu saṃjñānahṛde bhavāya namo guṇaiśvaryaviśiṣṭamūrtaye |* namo'parādhīnavaśitvarūpaśikhāya tejaḥkavacātmane namaḥ | | 37 | |*

  37. namaḥ paśūnāṃ malakṛtanakṣamāsahapratāpāstradharāya śūline |* namo'vikārāya ṣaḍaṅgamūrtaye sadāśivāyāmṛtarūpiṇe namaḥ | | 38 | |*

  38. svabhāvaśuddhasya śivasya pādamācāmamātmīyaviśuddhihetoḥ |* arghyapradānaṃ kusumārpaṇaṃ ca sadeśadhāmāptinimittametath | | 39 | |*

  39. snānaṃ svātmamalāpahaṃ śubhamayairgandhaiḥ samālepanaṃ sadvastrābharaṇaṃ sugandhikusumairmālābhirabhyarcanaṃ | sālaṅkārasadāśivasya vidhivaddhūpapradānaṃ tvaṇorbhogārthaṃ hi sadeśadhāmni vimalaṃ dīpaṃ śivajñānadaṃ | | 40 | |

  40. śucīśaraktapānilendramṛtyukendusaṃsthitānpayodharārkavātavahnisannibhāninekṣaṇān | (the l̤okapālas. ina=sūrya ḥḥ inekṣaṇān= dvādaśākṣān!) yugānanānvarābhayatriśūlaśaktiyukkarānnamaḥ śivāṅgasambhavānhṛdādimantravigrahān | | 41 | |

  41. bhogāṅgārcanamātmanaḥ śivaguṇaprāptyarthamaikyaṃ prabhoraṅgānāṃ punararcakasya śivasaṃyogāya śuddhātmanaḥ | tṛptasyānnanivedanāmbumukhavāsādipradānaṃ manas- tṛptyarthaṃ śivabhāvamaṅgalakaraṃ citraṃ tatrārcāphalaṃ | | 42 | |

  42. pavitrabhūtasya pavitradānaṃ tāpatrayaghnaṃ sakalārthasiddhyai | japaśca bhaktyā praṇatiḥ śivasya brahmendraviṣṇvādipadatvahetuḥ | | 43 | |

  43. arcane sakalaṃ jape sakalākalaṃ satatoditaṃ niṣkalaṃ sakalādhvagaṃ paripūrṇamātmasamarpaṇe | vyomni susphaṭikaprabhaṃ bhavane kalāsahitaṃ haraṃ yo hi vetti paraṃ śivaṃ śiva eva so'stra na saṃśayaḥ | | 44 | |

  44. bhūyaḥ pūjanamīśasannidhikaraṃ samprārthanaṃ sveśayoranyonyaṃ tvavalokanāya bhuvane bhogāya sādāśive | īśāgnyarcanamarpaṇaṃ kṣapayituṃ bandhatrayaṃ karmaṇo jñeyaṃ svātmanivedanaṃ paraśive sthityarthamevātmanaḥ | | 45 | |

  45. aśuddhatattvaughabahiṣkriyārthaṃ parāṅmukhārghyaṃ parameśvarasya | yasminnavasthānakaraṃ visargaṃ kurvansa śaivaṃ padamabhyupeti | | 46 | |

  46. viprottuṅgaścoladeśī ca sūriḥ śambhoḥ pūjāstotrametatpavitraṃ | siddhāntajño jñānaśambhuḥ śivoktyā cakre bhaktyā bhuktaye muktaye ca | | 47 | |

How to use this page
  1. Tap Kirtan for large text that keeps the screen awake. Press Start to scroll while you sing; touch the screen to pause.

  2. Tap Aa to change the text size and line spacing, or to show both, lyrics only or translation only. Your choice is remembered.

  3. Under Read in, pick a script to read the same text in Devanagari, Bengali, Tamil, Telugu and more.

  4. Compare shows the lyrics side by side in two scripts, such as Devanagari and Roman, verse by verse. Choose any script or a translation for each column; on songs and prayers, Show meaning adds the meaning under each verse.

  5. Tap Save to keep this page under Your songs on the home page. Pages you open appear there too, on this device only.

  6. Share sends a link to this page. PDF makes a clean sheet without menus, to save or print.

  7. At the end, Previous and Next take you through the list in order.

All tips

Text: Sanskrit Wikisource (Sanskrit Wikisource contributors (history: https://sa.wikisource.org/w/index.php?title=%E0%A4%B6%E0%A4%BF%E0%A4%B5%E0%A4%AA%E0%A5%82%E0%A4%9C%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%B5%E0%A4%83&action=history)),CC BY-SA 4.0, retrieved 2026-10-26. Other scripts and the Roman transliteration are generated automatically.