वटुकभैरवसहस्रनामस्तोत्रम्

Auto-scrollSpeed 3

Touch the screen or press any key to pause.

Reading settings

Text size
Show
Layout (wide screens)
Line spacing
  1. ॥ श्रीवटुकभैरवसहस्रनामस्तोत्रम् ॥

  2. देव्युवाच- देवेश भक्तिसुलभ देवनायकवन्दित । भक्तानां काम्यसिद्ध्यर्थं निदानं ब्रूहि तत्वतः ॥ १ विनैव न्यासजालेन पूजनेन विना भवेत् । विनाऽपि कायक्लेशेन विना जप्येन चेश्वर ॥ २ श्रीमहादेव उवाच- अस्य श्रीवटुकभैरवसहस्रनाममालामन्त्रस्य ब्रह्मा- नन्दभैरवऋषिः अनुष्टुप्छन्दः वटुकभैरवो देवता । वं बीजं ह्रीं शक्तिः अभीष्टफलसिद्ध्यर्थे जपे विनि- योगः॥ वटुकः कामदो नाथो नाथप्रियः प्रभाकरः। भैरवो भीतिहा दर्पः कन्दर्पो मीनकेतनः ॥ ३ रद्रो वटुर्विभूतीशो भूतनाथः प्रजापतिः । दयालुः क्रूर ईशानो जनीशो लोकवल्लभः ॥ ४ देवो दैत्येश्वरो वीरो वीरवन्धो दिवाकरः ।

  3. बलिप्रियः सुरश्रेष्ठः कनिष्ठः कनिष्ठशिशुः ॥ ५ महाबलो महातेजा वित्तजित् ध्युतिवर्धनः । तेजस्वी वीर्यवान्वृद्धो विवृद्धो भूतनायकः ॥ ६ काल: कपालकामादिविकारः काममर्दनः। कामिकारमणः कामी नायकः कालिकाप्रियः॥ ७ कालीशः कामिनीकान्तः कालिकानन्दवर्धनः। कालिकाहृदयज्ञानी कालिकातनयो नयः ।। ८ खगेशः खेचरः खेटो विशिष्टः खेटकप्रियः। कुमारः क्रोधनः कालीप्रियः पर्वतरक्षकः॥ ९ गणेज्यो गणनो गूढो गूढाशयो गणेश्वरः । गणनाथो गणश्रेष्ठो गणमुख्यो गणप्रियः॥ १० घोरनाथो घनश्यामो घनमूर्तिर्घनात्मकः । घोरनाशो घनेशानो धनपतिर्धनात्मकः ।। ११ चम्पकाभाश्चिरञ्जीवो चारुवेषश्चराचरः। अन्त्योऽचिन्त्यगणो धीमान् सुचित्तस्थश्चितीश्वरः ।। १२ छत्री छत्रपतिश्छत्रछिन्ननासामनः प्रियः।

  4. छिन्नाभश्छिन्नसन्तापछर्दिराच्छर्दनन्दनः ॥ १३ जनो जिष्णुर्जटीशानो जनार्दनो जनेश्वरः । जनौको जनसन्तोषो जनजाड्य विनाशनः ।। १४ जनप्रस्थो जनाराध्यो जनाध्यक्षो जनप्रियः । जीवहा जीवदो जन्तुर्जीवनाथो जनेश्वरः ॥ १५ जयदो जित्वरो जिष्णुर्जयश्रीः जयवर्धनः । जयाभूमिर्जयाकारो जयहेतुर्जयेश्वरः ।। १६ झङ्कारहृदवान्तात्मा झङ्कारहेतुरात्मभूः । ज्ञभेश्वरी हरिर्भर्ता विभर्ता भृत्यकेश्वरः ।। १७ ठीकारहृदयोआत्म ठङ्केशाष्टकनायकः । ठकारभूष्ठरन्ध्रेशाष्टिरीशाष्टकुरपतिः ।। १८ डुडीडक्काप्रियः पान्थो डुण्ढिराजो निरन्तकः। ताम्रस्तमीश्वरस्रेता तीर्थजातस्तडित्प्रभुः ॥ १९ ऋक्षरः ऋक्षकस्तम्भस्तार्क्ष्यकस्तम्भदेश्वरः। स्थलजः स्थावरस्थाता स्थिरबुद्धिः स्थितेन्द्रियः ॥ २० स्थिरज्ञातिः स्थिरप्रीतिः स्थिरस्थितिः स्थिराशयः। दरो दामोदरो दम्भो दाडिमीकुसुमप्रियः ॥ २१ दारिध्र्यहादिमी दिव्यो दिव्यदेहो दिवप्रभः । दीक्षाकारो दिवानाथो दिवसेशो दिवाकरः ॥ २२ दीर्घशान्तिर्दलज्योतिर्दलेशो दलसुन्दरः । दलप्रियो दलाभाशो दलश्रेष्ठो दलप्रभुः ॥ २३ दलकान्तिर्दलाकारो दलसेव्यो दलार्चितः । दीर्घबाहुलश्रेष्ठो दहलूथ्वदलाकृतिः ॥ २४ दानवेशो दयासिन्धुर्दयालुर्दीनवल्लभः । धनेशो धनदो धर्मो धनराजो धनप्रियः ।। २५ धनप्रदो धनाध्यक्षो धनमान्यो धनञ्जयः। धीवरो धातुको धाता धूम्रो धूमच्छविवर्धनः ॥२६ धनिष्ठो धनलच्छत्री धनकाम्यो धनेश्वरः। धीरे धीरतरो धेनुर्धारेशो धरणीप्रभुः ।। २७ धरानाथो धराधीशो धरणीनायको धरः । धराकान्तो धरापालो धरणीभृद्धराप्रियः ॥ २८ धराधारो धराधृष्णो धृतराष्ट्रो धनीश्वरः ।

  5. नारदो नरदो नेता नतिपूज्यो नतिप्रभुः ॥ २९ नतिलभ्यो नतीशानो नतिलघ्वो नतीश्वरः। पाण्डवः पार्थसम्पूज्यः पाथोदः प्रणतः पृथुः॥ ३० पुराणः प्राणदो पान्थो पाञ्चाली पावकप्रभुः । पृथिवीशः पृथासूनुः पृथिवीभृत्यकेश्वरः ॥ ३१ पूर्वशूरपतिः श्रेयान् प्रीतिदः प्रीतिवर्धनः । पार्वतीशः परेशानः पार्वतीहृदयप्रियः ॥ ३२ पार्वतीरमणः पूतः पवित्रः पापनाशनः । पात्रोपात्रालिसन्तुष्टः परितुष्टः पुमान्प्रियः ॥ ३३ पर्वेशः पर्वताधीशः पर्वतो नायकात्मजः । फाल्गुनः फल्गुनो नाथः फणेशः फणिरक्षकः ॥ ३४ फणीपतिः फणीशानः फणाळिन्दः फणाकृतिः। बलभद्रो बली बालो बलधीर्बलवर्धनः ।। ३५ बलप्राणो बलाधीशो बलिदानप्रियङ्करः। बलिराजो बलिप्राणो बलिनाथो बलिप्रभुः॥ ३६ बली बलश्च बालेशो बालकः प्रियदर्शनः ।

  6. भद्री भद्रप्रदो भीमो भीमसेनो भयङ्करः ॥ ३७ भव्यो भव्यप्रियो भूतपतिर्भूतविनाशकः । भूतेशो भूतिदो भर्गो भूतभव्यो भवेश्वरः ॥ ३८ भवानीशो भवेशानी भवानीनायको भवः । मकारो माधवो मानो मीनकेतुर्महेश्वरः ॥ ३९ महर्षिर्मदनो मन्थो मिथुनेशोऽमराधिपः । मरीचिर्मञ्जुलो मोहो मोहहा मोहमर्दनः ॥ ४० मोहको मोहनो मेधाप्रियो मोहविनाशकः। महीपतिर्महेशानो महाराजो महेश्वरः ।। ४१ महीश्वरो महीपालो महीनाथो महीप्रियः । महीधरो महीशानो मधुराजो मुनिप्रियः ॥ ४२ मौनी मौनधरो मेधो मन्दारो मतिवर्धन: मतिदो मन्धरो मन्त्रो मन्त्रीशो मन्त्रनायकः ॥ ४३ मेधावी मानदो मानी मानहा मानमर्दनः । मीनगो मकराधीशो मकरो मणिरजितः ॥ ४४ मणिरम्यो मणिभ्राता मणिमण्डल मण्डितः ।

  7. मन्त्रिणो मन्त्रदो मुग्धो मोक्षदो मोक्षवल्लभः ॥ ४५ मल्लो मल्लपियो मन्त्रो मेलको मेलनप्रभः मल्लिकागन्धरमणो मालतीकुसुमप्रभः ॥ ४६ मालतीशो मघाधीशो माघमूर्तिर्मघेश्वरः । मूलाभो मूलहा मूलो मूलदो मूलसम्भवः ॥ ४७ माणिक्यरोचिः सम्मुग्धो मणिकूटो मणिप्रियः। मुकुन्दो मदनो मन्दो मदवन्द्यो मनुप्रभुः ॥ ४८ मनसस्थो मेनकाधीशो मेनकाप्रियदर्शनः । यमोऽपि यामलो येता यादवो यदुनायकः ॥ ४९ याचको यज्ञको यज्ञो यज्ञेशो यज्ञवर्धनः । रमापती रमाधीशो रमेशो रामवल्लभः ॥ ५० रमापती रमानाथो रमाकान्तो रमेश्वरः। रेवतीरमणो रामो रामेशो रामनन्दनः ॥ ५१ रम्यमूर्ती रतीशानो राकाया नायको रविः । लक्ष्मीघरों ललज्जिह्वो लक्ष्मीबीजजपे रतः ॥ ५२ लम्पटो लम्बराजेशो लम्बदेशो लकारभूः ।

  8. वामनो वल्लभो वन्ध्यो वनमाली वलेश्वरः॥ ५३ वशस्थो वनगो वन्ध्यो वनराजो वनाह्लयः। वनेचरो वनाधीशो वनमालाविभूषणः ॥ ५४ वेणुप्रियो वनाकारो वनराध्यो वनप्रभुः । शम्भुः शङ्करसन्तुष्टः शम्बरारिः सनातनः ॥ ५५ शबरीप्रणत: शाल: शिलीमुखध्वनिप्रियः । शकुलः शल्लकः शीलः शीतरश्मिः सितांशुकः ॥ ५६ शीलदः शीकर: शीलः शीलशाली शनैश्चरः । सिद्धः सिद्धिकरः साध्यः सिद्धिभूः सिद्धिभावनः।। ५७ सिद्धान्तवल्लभः सिन्धुः सिन्धुतीरनिषेवकः । सिन्धुपतिः सुराधीशः सरसीरुहलोचनः॥ ५८ सरित्पतिस्सरित्संस्थ: सरः सिन्धुसरोवरः। सखा वीरयतिः सूतः सचेता सत्पतिः सितः ॥ ५९ सिन्धुराजः सदाभूतः सदाशिवः सताङ्गतिः । सदृशः सहसी शूरः सेव्यमानः सतीपतिः ॥ ६० सूर्यः सूर्यपतिः सेव्यः सेवाप्रियः सनातनः।

  9. सनीशः शशिनाथः सतीसेव्यः सतीरतः ॥ ६१ सतीप्राणः सतीनाथस्सतीसेव्यः सतीश्वरः। सिद्धराजः सतीतुष्टः सचिवः सव्यवाहनः ॥ ६२ सतीनायकसन्तुष्टः सव्यसाची समन्तकः । सचितः सर्वसन्तोषो सर्वाराधनसिद्धिदः ॥ ६३ सर्वाराध्यः शचीवाच्यः सतीपतिः सुसेवितः । सागर: सगरः सार्धं समुद्रप्रियदर्शनः ॥ ६४ समुद्रेशः परो नाथ: सरसीरुहलोचनः । सरसीजलदाकार: सरसीजलदार्चितः ॥ ६५ सामुद्रिकः समुद्रात्मा सेव्यमानः सुरेश्वरः । सुरसेव्यः सुरेशानः सुरनाथस्सुरेश्वरः ॥ ६६ सुराध्यक्षः सुराराध्यः सुरबृन्दविशारदः । सुरश्रेष्ठः सुराप्राणः सुरसिन्धुनिवासिनः ।। ६७ सुधाप्रियः सुधाधीशः सुधासाध्यः सुधापतिः । सुधानाथः सुधाभूतः सुधासागरसेवितः ॥ ६८ हाटको हीरको हन्ता हाटको रुचिरप्रभः ।

  10. हव्यवाहो हरिद्राभो हरिद्रारसमर्दनः । ६९ हेतिर्हेतुर्हरिर्नाथो हरिनाथो हरिप्रियः । हरिपूज्यो हरिप्राणो हरिहृष्टो हरिद्रकः ।। ७० हरीशो हन्त्रिको हीरो हरिनाम परायणः । हरिमुग्धो हरीरम्यो हरिदासो हरीश्वरः ॥ ७१ इरो हरपतिर्हारो हरिणीचित्तहारकः । हरो हितो हरिप्राणो हरिवाहनशोमनः ।। ७२ हंसो हासप्रियो हुंहुं हुतभुक् हुतवाहनः । हुताशनो हवी हिक्को हालाहलहलायुधः ।। ७३ हलाकारो हलीशानो हलिपूज्यो हलिप्रियः । हरपुत्रो हरोत्साहो हरसूनुर्हरात्मजः ॥ ७४ हरबन्धो हराधीशो हरान्तको हराकृतिः। हरप्राणो हरमान्यो हरवैरिविनाशनः ॥ ७५ हरशत्रुर्हराभ्यर्च्यो हुङ्कारो हरिणीप्रियः । हाटकेशो हरेशानो हाटकप्रियदर्शनः ॥ ७६ हाटको हाटकप्राणो हाटभूषणभूषकः ।

  11. हेतिदो हेतिको हंसो हंसागतिराह्वयः॥ ७७ हंसीपतिर्हरोन्मत्तो हंसीशो हरवल्लभः । हरपुष्पप्रभो हंसीप्रियो हंसविलासितः ॥ ७८ हरजीवरतो हारी हरितो हरितांपतिः । हरित्प्रभुर्हरित्पालो हरिदन्तरनायकः ॥ ७९ हरिदीशो हरित्प्रायो हरिप्रियप्रिया हितः । हेरम्बो हुङ्कृतिकृद्धो हेरम्बो हुङ्कृती हरी ॥ ८० हेरम्ब प्राणसंहर्ता हेरम्बहृदयप्रियः । क्षमापतिः क्षणं क्षान्तः क्षुरधारः क्षितीश्वरः ॥ ८१ क्षितीशः क्षितिभृत् क्षीणः क्षितिपालः क्षितिप्रभुः । क्षितीशानः क्षितिप्राणः क्षितिनायक सात्प्रियः॥ ८२ क्षितिराजः क्षणाधीशः क्षणपतिः क्षणेश्वरः । क्षणप्रियः क्षमानाथः क्षणदानायकप्रियः॥ ८३ क्षणिकः क्षणकाधीशः क्षणदाप्राणदः क्षमी । क्षमः क्षोणीपतिः क्षोभः क्षोभकारी क्षमाप्रियः ॥ ८४ क्षमाशीलः क्षमारूपः क्षमामण्डलमण्डितः।

  12. क्षमानाथ: क्षमाधारः क्षमाधारी क्षमाधरः॥ ८५ क्षेमक्षीणरुजाक्षुद्रः क्षुद्रपालविशारदः । क्षुद्रासनः क्षणाकारः क्षीरपानकतत्परः ॥ ८६ क्षीरशायी क्षणेशानः क्षेणीभृत् क्षणदोत्सवः। क्षेमङ्करक्षमाळुब्धः क्षमाहृदयमण्डनः ।। ८७ नीलाद्रिरुचिरावेशः नीलोपचितसन्निभः । नीलमणिप्रभारम्यो नीलभूषणभूषितः ।। ८८ नीलवर्णो नीलभ्रुवो मुण्डमालाविभूषितः । मुण्डस्थो मुण्डसन्तुष्टो मुण्डमालाधरो नयः ॥ ८९ दिग्वासा विदिताकारो दिगम्बरवरप्रदः । दिगम्बरीश आनन्दी दिग्बन्ध प्रियनन्दनः ॥ ९० पिङ्गलैकजटो हृष्टो डमरूवादनप्रियः। श्रेणीकरः श्रेणाशायः खड्गधृक् खङ्गपालकः ।। ९१ शूलहस्तो मतङ्गाभो मातङ्गोत्सवसुन्दरः । अभयङ्कर ऊर्वङ्को लङ्कापतिर्विनायकः ।। ९२ नगेशयो नगेशानो नागमण्डलमण्डितः ।

  13. नागाकारो नागाधीशो नागशायी नागप्रियः ॥ ९३ घटोत्सर्वो घटाकारो घण्टावाध्यविशारदः । कपालपाणिरम्बेशः कपालाशनशारदः ॥ ९४ पद्मपाणिः करालास्यस्त्रिनेत्रो नागवल्लभः । किङ्किणीजालसंहृष्टो जनाशयो जननायकः ॥ ९५ अपमृत्युहरो मायामोहमूलविनाशकः । आयुक: कमलानाथः कमलाकान्तवल्लभः ॥ ९६ राज्यदो राजराजेशो राजवत्सदशोभन: । डाकिनीनायको नित्यो नित्यधर्मपरायणः ॥ ९७ डाकिनीहृदयज्ञानी डाकिनीदेहनायकः । डाकिनीप्राणदः सिद्धः श्रद्धेयचरितो विभुः ॥ ९८ हेमप्रभो हिमेशानो हिमानीप्रियदर्शनः । हेमदो नर्मदो मानी नामधेयो नगात्मकः ॥ ९९ वैकुण्ठो वासुकिप्राणो वासुकीकण्ठभूषणः । कुण्डलीशो मखध्वंसी मखराजो मखेश्वरः ॥ १०० मखाकारो मखाधीशो मखमालिविभूषणः ।

  14. अम्बिकावल्लभो वाणीमतिर्वाणीविशारदः ।। १०१ वाणीशो वचनप्राणो वचनस्थो वनप्रियः । वेलाधारो दिशामाशो दिग्भागो हि दिगीश्वरः ॥ १०२ पटुप्रियो दुराराध्यो दारिद्र्यभञ्जनक्षमः । तर्कतर्कप्रियोऽतर्क्यो वितर्क्यस्तर्कवल्लभः ॥ १०३ तर्कसिद्धः सुसिद्धात्मा सिद्धदेहो ग्रहासनः । ग्रहगर्वो ग्रहेशानो गन्धो गन्धीविशारदः ॥ १०४ मङ्गळं मङ्गळाकारो मङ्गळवाद्यवादकः । मङ्गळीशो विमानस्थो विमानैकसुनायकः ॥ १०५ बुधेशो विविधाधीशो बुधवारो बुधाकरः । बुधनाथो बुधप्रीतो बुधवन्द्यो बुधाधिपः ॥ १०६ बुधसिद्धो बुधप्राणो बुधप्रियो बुधोबुधः । सोमः सोमसमाकारः सोमपा: सोमनायकः ॥ १०७ सोमप्रभः सोमसिद्धो मनःप्राणप्रणायकः। कामगः कामहा बौद्ध कामनाफलदोऽधिपः ॥ १०९ त्रिदशो दशरात्रीशो दशाननविनाशकः ।

  15. लक्ष्मणो लक्षसम्भर्ता लक्ष्यसंख्यो मन:प्रियः॥ १०९ विभावसुर्नवेशानो नायको नगरप्रियः । नरकान्तिर्नलोत्साहो नरदेवोनलाकृतिः ॥ ११० नरपतिर्नरेशानो नारायणो नरेश्वरः । अनिलो मारुतो मासो मांसैकरससेवितः ॥ १११ मरीचिरमरेशानो मागधो मगधप्रभुः । सुन्दरीसेवको द्वारी द्वारदेशनिवासिनः ॥ ११२ देवकोगर्भसञ्जातो देवकीसेवकी कुहुः। बृहस्पतिः कविः शुक्रः शारदासाधनप्रियः॥ ११३ शारदासाधकप्राणः शारदासेवकोत्सुकः। शारदासाधकश्रेष्ठो मधुपानसदारतिः ॥ ११४ मोदकादानसम्प्रीतो मोदकामोदमोदितः। आमोदानन्दनो नन्दो नन्दिकेशो महेश्वरः ॥ ११५ नन्दिप्रियो नदीनाथो नदीतीरतरुस्तथा । तपनस्तापनस्तप्ता तापहा तापकारकः ॥ ११६ पतङ्गगोमुखो गौरगोपालो गोपवर्धन: ।

  16. गोपतिर्गोपसंहर्ता गोविन्दैकप्रियोऽतिगः ॥ ११७ गव्येष्ठो गणरम्यश्च गुणसिन्धुर्गुणप्रियः । गुणपूज्यो गुणोपेतो गुणवाद्यगुणोत्सवः ॥ ११८ गुणीसकेवलो गर्भः सुगर्भो गर्भरक्षकः । गाम्भीरधारको धर्ता विधर्ता धर्मपालकः॥ ११९ जगदीशो जगन्मित्रो सगजाड्यविनाशनः । जगत्कर्ता जगद्धाता जगज्जीवनजीवनः ॥ १२० मालतीपुष्पसम्प्रीतो मालतीकुसुमोत्सवः । मालतीकुसुमाकारो मालतीकुसुमप्रभुः ॥ १२१ रसालमञ्जरीरम्यो रसालगन्धसेवितः। रसालमञ्जरी लुब्धो रसालतरुवल्लभः ॥ १२२ रसालपादपासीनो रसालफलसुन्दरः। रसालरससन्तुष्टो रसालरससालयः ॥ १२३ केतकीपुष्पसन्तुष्टः केतकीगर्भसम्भवः । केतकीपत्रसङ्काश: केतकीप्राणनाशकः ॥ १२४ गर्तस्थो गर्तगम्भीरो गर्ततीरनिवासिनः ।

  17. गणसेव्यो गणाध्यक्षो गणराजो गणाह्वयः ॥ १२५ आनन्दभैरवो भीरुर्भैरवेशो रुरुर्भगः। सुब्रह्मय्भैरवो नामभैरवो भूतभावनः ॥ १२६ भैरवीतनयो देवीपुत्रः पर्वतसन्निभः । नाम्नाऽनेन सहस्रेण स्तुत्वा वटुकभैरवम् ॥ १२७ लभते ह्यतुलां लक्ष्मीं देवतामपि दुर्लभाम् । उपदेशं गुरोर्लब्ध्वा योगेन्द्रमण्डली भवेत् ॥ १२८ तस्मिन्योगे महेशानस्सर्वसिद्धिमवाप्नुयात् । लक्षमावर्तयन्मन्त्री मन्त्रराजं नरेश्वरः ॥ १२९ नित्यकर्मसु सिध्यर्थं तत्फलं लभते ध्रुवं । स्तवमेनं पठेन्मन्त्री पाठयित्वा यथाविधि ॥ १३० दुर्लभां लभते सिद्धिं सर्वदेवनमस्कृताम् । न प्रकाश्यं च पुत्राय भ्रष्टेषु न कदाचन ॥ १३१ अन्यथा सिद्धिरोधः स्याच्चतुरो वा भवेत् प्रियः। स्तवत्सास्य प्रसादेन देवनाकमतिप्रियः ॥ १३२ सङ्ग्रामे विजयेच्छत्रून्मातङ्गानिव केसरी ।

  18. राजानं वशयेत्सद्यो देवानपि शमं नयेत् ॥ १३३ किमपरं फलं प्राप्य स्तवराजस्य कथ्यते । यद्यन्मनसि सङ्कल्पस्स्तवमेतदुदीरितम् ॥ १३४ तत्तत्प्राप्नोति देवेश वटुकस्य प्रसादतः । आपदां हि विनाशाय कारणं कान्तदुर्लभम् ॥ १३५ देवासुररणे घोरे देवानामुपकारकम् । प्रकाशितं मया नाथ तन्त्रे भैरवदीपके ॥ १३६ अपुत्त्रो लभते पुत्त्रान् षण्मासे च निरन्तरम् । पठित्वा पाठयित्वाऽपि स्तवराजमुनुत्तमम् ॥ १३७ दरिद्रो लभते लक्ष्मीमायुःप्राप्तिमतिश्चिरम् । कन्यार्थी लभते कन्यां सर्वरूपसमन्विताम् ॥ १३८ प्रदोषे बलिदाने च वशयेदखिलं जगत् । वटे वा बिल्वमूले का रम्भायां विपिने वने ॥ १३९ जपेत्सततमालक्ष्य मन्त्रराजस्य सिद्धये । वर्णलक्षं जपेद्वापि दिङ्मात्रं हि प्रदर्शितम् ॥ १४० पूजयेत्तु तिलैर्माषैर्दुग्धैर्मासैर्झवैस्तथा ।

  19. घृतपक्वान्नतो वापि व्यञ्जनै रससङ्कुलैः ॥ १४१ पूजयेद्धारयेद्वापि स्तवमेनं सुसाधकः । पठेद्वा पाठयेद्वापि यथाविधि सुरप्रिये ॥ १४२ शत्रुतो न भयं तेषां नाग्निचौरास्त्रजं भयम् । ज्वरादिसम्भवं चापि संत्यं सत्यं महेश्वरि ॥ १४३ भैरवाराधने शक्तो यो भवेत्साधकः प्रभो। सदाशिवः सविज्ञेयो भैरवेणेति भाषितम् ॥ १४४ श्रीमद्भैरवराजसेवनविधौ वैयाघ्रमासेदुषः पुंसः पञ्चविधा भवन्ति नवधा ह्यष्टौ महासिद्धयः । क्षोणीपालकिरीटकोटिमणिरुङ्मालामरैर्भूद्यशो मौद्ग्यंपादपयोजयोर्निवहते मूर्ध्नि पयस्सिच्यताम् ॥ १४५

  20. इति भैरवतन्त्रे देवीहरसंवादे श्रीवटुकभैरवसहस्रनामस्तोत्रं ॥ सम्पूर्णम् ॥

Roman transliteration (IAST)

Automatic transliteration.

  1. || śrīvaṭukabhairavasahasranāmastotram ||

  2. devyuvāca- deveśa bhaktisulabha devanāyakavandita | bhaktānāṃ kāmyasiddhyarthaṃ nidānaṃ brūhi tatvataḥ || 1 vinaiva nyāsajālena pūjanena vinā bhavet | vinā'pi kāyakleśena vinā japyena ceśvara || 2 śrīmahādeva uvāca- asya śrīvaṭukabhairavasahasranāmamālāmantrasya brahmā- nandabhairavaṛṣiḥ anuṣṭupchandaḥ vaṭukabhairavo devatā | vaṃ bījaṃ hrīṃ śaktiḥ abhīṣṭaphalasiddhyarthe jape vini- yogaḥ|| vaṭukaḥ kāmado nātho nāthapriyaḥ prabhākaraḥ| bhairavo bhītihā darpaḥ kandarpo mīnaketanaḥ || 3 radro vaṭurvibhūtīśo bhūtanāthaḥ prajāpatiḥ | dayāluḥ krūra īśāno janīśo lokavallabhaḥ || 4 devo daityeśvaro vīro vīravandho divākaraḥ |

  3. balipriyaḥ suraśreṣṭhaḥ kaniṣṭhaḥ kaniṣṭhaśiśuḥ || 5 mahābalo mahātejā vittajit dhyutivardhanaḥ | tejasvī vīryavānvṛddho vivṛddho bhūtanāyakaḥ || 6 kāla: kapālakāmādivikāraḥ kāmamardanaḥ| kāmikāramaṇaḥ kāmī nāyakaḥ kālikāpriyaḥ|| 7 kālīśaḥ kāminīkāntaḥ kālikānandavardhanaḥ| kālikāhṛdayajñānī kālikātanayo nayaḥ || 8 khageśaḥ khecaraḥ kheṭo viśiṣṭaḥ kheṭakapriyaḥ| kumāraḥ krodhanaḥ kālīpriyaḥ parvatarakṣakaḥ|| 9 gaṇejyo gaṇano gūḍho gūḍhāśayo gaṇeśvaraḥ | gaṇanātho gaṇaśreṣṭho gaṇamukhyo gaṇapriyaḥ|| 10 ghoranātho ghanaśyāmo ghanamūrtirghanātmakaḥ | ghoranāśo ghaneśāno dhanapatirdhanātmakaḥ || 11 campakābhāścirañjīvo cāruveṣaścarācaraḥ| antyo'cintyagaṇo dhīmān sucittasthaścitīśvaraḥ || 12 chatrī chatrapatiśchatrachinnanāsāmanaḥ priyaḥ|

  4. chinnābhaśchinnasantāpachardirācchardanandanaḥ || 13 jano jiṣṇurjaṭīśāno janārdano janeśvaraḥ | janauko janasantoṣo janajāḍya vināśanaḥ || 14 janaprastho janārādhyo janādhyakṣo janapriyaḥ | jīvahā jīvado janturjīvanātho janeśvaraḥ || 15 jayado jitvaro jiṣṇurjayaśrīḥ jayavardhanaḥ | jayābhūmirjayākāro jayaheturjayeśvaraḥ || 16 jhaṅkārahṛdavāntātmā jhaṅkāraheturātmabhūḥ | jñabheśvarī harirbhartā vibhartā bhṛtyakeśvaraḥ || 17 ṭhīkārahṛdayoātma ṭhaṅkeśāṣṭakanāyakaḥ | ṭhakārabhūṣṭharandhreśāṣṭirīśāṣṭakurapatiḥ || 18 ḍuḍīḍakkāpriyaḥ pāntho ḍuṇḍhirājo nirantakaḥ| tāmrastamīśvarasretā tīrthajātastaḍitprabhuḥ || 19 ṛkṣaraḥ ṛkṣakastambhastārkṣyakastambhadeśvaraḥ| sthalajaḥ sthāvarasthātā sthirabuddhiḥ sthitendriyaḥ || 20 sthirajñātiḥ sthiraprītiḥ sthirasthitiḥ sthirāśayaḥ| daro dāmodaro dambho dāḍimīkusumapriyaḥ || 21 dāridhryahādimī divyo divyadeho divaprabhaḥ | dīkṣākāro divānātho divaseśo divākaraḥ || 22 dīrghaśāntirdalajyotirdaleśo dalasundaraḥ | dalapriyo dalābhāśo dalaśreṣṭho dalaprabhuḥ || 23 dalakāntirdalākāro dalasevyo dalārcitaḥ | dīrghabāhulaśreṣṭho dahalūthvadalākṛtiḥ || 24 dānaveśo dayāsindhurdayālurdīnavallabhaḥ | dhaneśo dhanado dharmo dhanarājo dhanapriyaḥ || 25 dhanaprado dhanādhyakṣo dhanamānyo dhanañjayaḥ| dhīvaro dhātuko dhātā dhūmro dhūmacchavivardhanaḥ ||26 dhaniṣṭho dhanalacchatrī dhanakāmyo dhaneśvaraḥ| dhīre dhīrataro dhenurdhāreśo dharaṇīprabhuḥ || 27 dharānātho dharādhīśo dharaṇīnāyako dharaḥ | dharākānto dharāpālo dharaṇībhṛddharāpriyaḥ || 28 dharādhāro dharādhṛṣṇo dhṛtarāṣṭro dhanīśvaraḥ |

  5. nārado narado netā natipūjyo natiprabhuḥ || 29 natilabhyo natīśāno natilaghvo natīśvaraḥ| pāṇḍavaḥ pārthasampūjyaḥ pāthodaḥ praṇataḥ pṛthuḥ|| 30 purāṇaḥ prāṇado pāntho pāñcālī pāvakaprabhuḥ | pṛthivīśaḥ pṛthāsūnuḥ pṛthivībhṛtyakeśvaraḥ || 31 pūrvaśūrapatiḥ śreyān prītidaḥ prītivardhanaḥ | pārvatīśaḥ pareśānaḥ pārvatīhṛdayapriyaḥ || 32 pārvatīramaṇaḥ pūtaḥ pavitraḥ pāpanāśanaḥ | pātropātrālisantuṣṭaḥ parituṣṭaḥ pumānpriyaḥ || 33 parveśaḥ parvatādhīśaḥ parvato nāyakātmajaḥ | phālgunaḥ phalguno nāthaḥ phaṇeśaḥ phaṇirakṣakaḥ || 34 phaṇīpatiḥ phaṇīśānaḥ phaṇāl̤indaḥ phaṇākṛtiḥ| balabhadro balī bālo baladhīrbalavardhanaḥ || 35 balaprāṇo balādhīśo balidānapriyaṅkaraḥ| balirājo baliprāṇo balinātho baliprabhuḥ|| 36 balī balaśca bāleśo bālakaḥ priyadarśanaḥ |

  6. bhadrī bhadraprado bhīmo bhīmaseno bhayaṅkaraḥ || 37 bhavyo bhavyapriyo bhūtapatirbhūtavināśakaḥ | bhūteśo bhūtido bhargo bhūtabhavyo bhaveśvaraḥ || 38 bhavānīśo bhaveśānī bhavānīnāyako bhavaḥ | makāro mādhavo māno mīnaketurmaheśvaraḥ || 39 maharṣirmadano mantho mithuneśo'marādhipaḥ | marīcirmañjulo moho mohahā mohamardanaḥ || 40 mohako mohano medhāpriyo mohavināśakaḥ| mahīpatirmaheśāno mahārājo maheśvaraḥ || 41 mahīśvaro mahīpālo mahīnātho mahīpriyaḥ | mahīdharo mahīśāno madhurājo munipriyaḥ || 42 maunī maunadharo medho mandāro mativardhana: matido mandharo mantro mantrīśo mantranāyakaḥ || 43 medhāvī mānado mānī mānahā mānamardanaḥ | mīnago makarādhīśo makaro maṇirajitaḥ || 44 maṇiramyo maṇibhrātā maṇimaṇḍala maṇḍitaḥ |

  7. mantriṇo mantrado mugdho mokṣado mokṣavallabhaḥ || 45 mallo mallapiyo mantro melako melanaprabhaḥ mallikāgandharamaṇo mālatīkusumaprabhaḥ || 46 mālatīśo maghādhīśo māghamūrtirmagheśvaraḥ | mūlābho mūlahā mūlo mūlado mūlasambhavaḥ || 47 māṇikyarociḥ sammugdho maṇikūṭo maṇipriyaḥ| mukundo madano mando madavandyo manuprabhuḥ || 48 manasastho menakādhīśo menakāpriyadarśanaḥ | yamo'pi yāmalo yetā yādavo yadunāyakaḥ || 49 yācako yajñako yajño yajñeśo yajñavardhanaḥ | ramāpatī ramādhīśo rameśo rāmavallabhaḥ || 50 ramāpatī ramānātho ramākānto rameśvaraḥ| revatīramaṇo rāmo rāmeśo rāmanandanaḥ || 51 ramyamūrtī ratīśāno rākāyā nāyako raviḥ | lakṣmīgharoṃ lalajjihvo lakṣmībījajape rataḥ || 52 lampaṭo lambarājeśo lambadeśo lakārabhūḥ |

  8. vāmano vallabho vandhyo vanamālī valeśvaraḥ|| 53 vaśastho vanago vandhyo vanarājo vanāhlayaḥ| vanecaro vanādhīśo vanamālāvibhūṣaṇaḥ || 54 veṇupriyo vanākāro vanarādhyo vanaprabhuḥ | śambhuḥ śaṅkarasantuṣṭaḥ śambarāriḥ sanātanaḥ || 55 śabarīpraṇata: śāla: śilīmukhadhvanipriyaḥ | śakulaḥ śallakaḥ śīlaḥ śītaraśmiḥ sitāṃśukaḥ || 56 śīladaḥ śīkara: śīlaḥ śīlaśālī śanaiścaraḥ | siddhaḥ siddhikaraḥ sādhyaḥ siddhibhūḥ siddhibhāvanaḥ|| 57 siddhāntavallabhaḥ sindhuḥ sindhutīraniṣevakaḥ | sindhupatiḥ surādhīśaḥ sarasīruhalocanaḥ|| 58 saritpatissaritsaṃstha: saraḥ sindhusarovaraḥ| sakhā vīrayatiḥ sūtaḥ sacetā satpatiḥ sitaḥ || 59 sindhurājaḥ sadābhūtaḥ sadāśivaḥ satāṅgatiḥ | sadṛśaḥ sahasī śūraḥ sevyamānaḥ satīpatiḥ || 60 sūryaḥ sūryapatiḥ sevyaḥ sevāpriyaḥ sanātanaḥ|

  9. sanīśaḥ śaśināthaḥ satīsevyaḥ satīrataḥ || 61 satīprāṇaḥ satīnāthassatīsevyaḥ satīśvaraḥ| siddharājaḥ satītuṣṭaḥ sacivaḥ savyavāhanaḥ || 62 satīnāyakasantuṣṭaḥ savyasācī samantakaḥ | sacitaḥ sarvasantoṣo sarvārādhanasiddhidaḥ || 63 sarvārādhyaḥ śacīvācyaḥ satīpatiḥ susevitaḥ | sāgara: sagaraḥ sārdhaṃ samudrapriyadarśanaḥ || 64 samudreśaḥ paro nātha: sarasīruhalocanaḥ | sarasījaladākāra: sarasījaladārcitaḥ || 65 sāmudrikaḥ samudrātmā sevyamānaḥ sureśvaraḥ | surasevyaḥ sureśānaḥ suranāthassureśvaraḥ || 66 surādhyakṣaḥ surārādhyaḥ surabṛndaviśāradaḥ | suraśreṣṭhaḥ surāprāṇaḥ surasindhunivāsinaḥ || 67 sudhāpriyaḥ sudhādhīśaḥ sudhāsādhyaḥ sudhāpatiḥ | sudhānāthaḥ sudhābhūtaḥ sudhāsāgarasevitaḥ || 68 hāṭako hīrako hantā hāṭako ruciraprabhaḥ |

  10. havyavāho haridrābho haridrārasamardanaḥ | 69 hetirheturharirnātho harinātho haripriyaḥ | haripūjyo hariprāṇo harihṛṣṭo haridrakaḥ || 70 harīśo hantriko hīro harināma parāyaṇaḥ | harimugdho harīramyo haridāso harīśvaraḥ || 71 iro harapatirhāro hariṇīcittahārakaḥ | haro hito hariprāṇo harivāhanaśomanaḥ || 72 haṃso hāsapriyo huṃhuṃ hutabhuk hutavāhanaḥ | hutāśano havī hikko hālāhalahalāyudhaḥ || 73 halākāro halīśāno halipūjyo halipriyaḥ | haraputro harotsāho harasūnurharātmajaḥ || 74 harabandho harādhīśo harāntako harākṛtiḥ| haraprāṇo haramānyo haravairivināśanaḥ || 75 haraśatrurharābhyarcyo huṅkāro hariṇīpriyaḥ | hāṭakeśo hareśāno hāṭakapriyadarśanaḥ || 76 hāṭako hāṭakaprāṇo hāṭabhūṣaṇabhūṣakaḥ |

  11. hetido hetiko haṃso haṃsāgatirāhvayaḥ|| 77 haṃsīpatirharonmatto haṃsīśo haravallabhaḥ | harapuṣpaprabho haṃsīpriyo haṃsavilāsitaḥ || 78 harajīvarato hārī harito haritāṃpatiḥ | haritprabhurharitpālo haridantaranāyakaḥ || 79 haridīśo haritprāyo haripriyapriyā hitaḥ | herambo huṅkṛtikṛddho herambo huṅkṛtī harī || 80 heramba prāṇasaṃhartā herambahṛdayapriyaḥ | kṣamāpatiḥ kṣaṇaṃ kṣāntaḥ kṣuradhāraḥ kṣitīśvaraḥ || 81 kṣitīśaḥ kṣitibhṛt kṣīṇaḥ kṣitipālaḥ kṣitiprabhuḥ | kṣitīśānaḥ kṣitiprāṇaḥ kṣitināyaka sātpriyaḥ|| 82 kṣitirājaḥ kṣaṇādhīśaḥ kṣaṇapatiḥ kṣaṇeśvaraḥ | kṣaṇapriyaḥ kṣamānāthaḥ kṣaṇadānāyakapriyaḥ|| 83 kṣaṇikaḥ kṣaṇakādhīśaḥ kṣaṇadāprāṇadaḥ kṣamī | kṣamaḥ kṣoṇīpatiḥ kṣobhaḥ kṣobhakārī kṣamāpriyaḥ || 84 kṣamāśīlaḥ kṣamārūpaḥ kṣamāmaṇḍalamaṇḍitaḥ|

  12. kṣamānātha: kṣamādhāraḥ kṣamādhārī kṣamādharaḥ|| 85 kṣemakṣīṇarujākṣudraḥ kṣudrapālaviśāradaḥ | kṣudrāsanaḥ kṣaṇākāraḥ kṣīrapānakatatparaḥ || 86 kṣīraśāyī kṣaṇeśānaḥ kṣeṇībhṛt kṣaṇadotsavaḥ| kṣemaṅkarakṣamāl̤ubdhaḥ kṣamāhṛdayamaṇḍanaḥ || 87 nīlādrirucirāveśaḥ nīlopacitasannibhaḥ | nīlamaṇiprabhāramyo nīlabhūṣaṇabhūṣitaḥ || 88 nīlavarṇo nīlabhruvo muṇḍamālāvibhūṣitaḥ | muṇḍastho muṇḍasantuṣṭo muṇḍamālādharo nayaḥ || 89 digvāsā viditākāro digambaravarapradaḥ | digambarīśa ānandī digbandha priyanandanaḥ || 90 piṅgalaikajaṭo hṛṣṭo ḍamarūvādanapriyaḥ| śreṇīkaraḥ śreṇāśāyaḥ khaḍgadhṛk khaṅgapālakaḥ || 91 śūlahasto mataṅgābho mātaṅgotsavasundaraḥ | abhayaṅkara ūrvaṅko laṅkāpatirvināyakaḥ || 92 nageśayo nageśāno nāgamaṇḍalamaṇḍitaḥ |

  13. nāgākāro nāgādhīśo nāgaśāyī nāgapriyaḥ || 93 ghaṭotsarvo ghaṭākāro ghaṇṭāvādhyaviśāradaḥ | kapālapāṇirambeśaḥ kapālāśanaśāradaḥ || 94 padmapāṇiḥ karālāsyastrinetro nāgavallabhaḥ | kiṅkiṇījālasaṃhṛṣṭo janāśayo jananāyakaḥ || 95 apamṛtyuharo māyāmohamūlavināśakaḥ | āyuka: kamalānāthaḥ kamalākāntavallabhaḥ || 96 rājyado rājarājeśo rājavatsadaśobhana: | ḍākinīnāyako nityo nityadharmaparāyaṇaḥ || 97 ḍākinīhṛdayajñānī ḍākinīdehanāyakaḥ | ḍākinīprāṇadaḥ siddhaḥ śraddheyacarito vibhuḥ || 98 hemaprabho himeśāno himānīpriyadarśanaḥ | hemado narmado mānī nāmadheyo nagātmakaḥ || 99 vaikuṇṭho vāsukiprāṇo vāsukīkaṇṭhabhūṣaṇaḥ | kuṇḍalīśo makhadhvaṃsī makharājo makheśvaraḥ || 100 makhākāro makhādhīśo makhamālivibhūṣaṇaḥ |

  14. ambikāvallabho vāṇīmatirvāṇīviśāradaḥ || 101 vāṇīśo vacanaprāṇo vacanastho vanapriyaḥ | velādhāro diśāmāśo digbhāgo hi digīśvaraḥ || 102 paṭupriyo durārādhyo dāridryabhañjanakṣamaḥ | tarkatarkapriyo'tarkyo vitarkyastarkavallabhaḥ || 103 tarkasiddhaḥ susiddhātmā siddhadeho grahāsanaḥ | grahagarvo graheśāno gandho gandhīviśāradaḥ || 104 maṅgal̤aṃ maṅgal̤ākāro maṅgal̤avādyavādakaḥ | maṅgal̤īśo vimānastho vimānaikasunāyakaḥ || 105 budheśo vividhādhīśo budhavāro budhākaraḥ | budhanātho budhaprīto budhavandyo budhādhipaḥ || 106 budhasiddho budhaprāṇo budhapriyo budhobudhaḥ | somaḥ somasamākāraḥ somapā: somanāyakaḥ || 107 somaprabhaḥ somasiddho manaḥprāṇapraṇāyakaḥ| kāmagaḥ kāmahā bauddha kāmanāphalado'dhipaḥ || 109 tridaśo daśarātrīśo daśānanavināśakaḥ |

  15. lakṣmaṇo lakṣasambhartā lakṣyasaṃkhyo mana:priyaḥ|| 109 vibhāvasurnaveśāno nāyako nagarapriyaḥ | narakāntirnalotsāho naradevonalākṛtiḥ || 110 narapatirnareśāno nārāyaṇo nareśvaraḥ | anilo māruto māso māṃsaikarasasevitaḥ || 111 marīciramareśāno māgadho magadhaprabhuḥ | sundarīsevako dvārī dvāradeśanivāsinaḥ || 112 devakogarbhasañjāto devakīsevakī kuhuḥ| bṛhaspatiḥ kaviḥ śukraḥ śāradāsādhanapriyaḥ|| 113 śāradāsādhakaprāṇaḥ śāradāsevakotsukaḥ| śāradāsādhakaśreṣṭho madhupānasadāratiḥ || 114 modakādānasamprīto modakāmodamoditaḥ| āmodānandano nando nandikeśo maheśvaraḥ || 115 nandipriyo nadīnātho nadītīratarustathā | tapanastāpanastaptā tāpahā tāpakārakaḥ || 116 pataṅgagomukho gauragopālo gopavardhana: |

  16. gopatirgopasaṃhartā govindaikapriyo'tigaḥ || 117 gavyeṣṭho gaṇaramyaśca guṇasindhurguṇapriyaḥ | guṇapūjyo guṇopeto guṇavādyaguṇotsavaḥ || 118 guṇīsakevalo garbhaḥ sugarbho garbharakṣakaḥ | gāmbhīradhārako dhartā vidhartā dharmapālakaḥ|| 119 jagadīśo jaganmitro sagajāḍyavināśanaḥ | jagatkartā jagaddhātā jagajjīvanajīvanaḥ || 120 mālatīpuṣpasamprīto mālatīkusumotsavaḥ | mālatīkusumākāro mālatīkusumaprabhuḥ || 121 rasālamañjarīramyo rasālagandhasevitaḥ| rasālamañjarī lubdho rasālataruvallabhaḥ || 122 rasālapādapāsīno rasālaphalasundaraḥ| rasālarasasantuṣṭo rasālarasasālayaḥ || 123 ketakīpuṣpasantuṣṭaḥ ketakīgarbhasambhavaḥ | ketakīpatrasaṅkāśa: ketakīprāṇanāśakaḥ || 124 gartastho gartagambhīro gartatīranivāsinaḥ |

  17. gaṇasevyo gaṇādhyakṣo gaṇarājo gaṇāhvayaḥ || 125 ānandabhairavo bhīrurbhairaveśo rururbhagaḥ| subrahmaybhairavo nāmabhairavo bhūtabhāvanaḥ || 126 bhairavītanayo devīputraḥ parvatasannibhaḥ | nāmnā'nena sahasreṇa stutvā vaṭukabhairavam || 127 labhate hyatulāṃ lakṣmīṃ devatāmapi durlabhām | upadeśaṃ gurorlabdhvā yogendramaṇḍalī bhavet || 128 tasminyoge maheśānassarvasiddhimavāpnuyāt | lakṣamāvartayanmantrī mantrarājaṃ nareśvaraḥ || 129 nityakarmasu sidhyarthaṃ tatphalaṃ labhate dhruvaṃ | stavamenaṃ paṭhenmantrī pāṭhayitvā yathāvidhi || 130 durlabhāṃ labhate siddhiṃ sarvadevanamaskṛtām | na prakāśyaṃ ca putrāya bhraṣṭeṣu na kadācana || 131 anyathā siddhirodhaḥ syāccaturo vā bhavet priyaḥ| stavatsāsya prasādena devanākamatipriyaḥ || 132 saṅgrāme vijayecchatrūnmātaṅgāniva kesarī |

  18. rājānaṃ vaśayetsadyo devānapi śamaṃ nayet || 133 kimaparaṃ phalaṃ prāpya stavarājasya kathyate | yadyanmanasi saṅkalpasstavametadudīritam || 134 tattatprāpnoti deveśa vaṭukasya prasādataḥ | āpadāṃ hi vināśāya kāraṇaṃ kāntadurlabham || 135 devāsuraraṇe ghore devānāmupakārakam | prakāśitaṃ mayā nātha tantre bhairavadīpake || 136 aputtro labhate puttrān ṣaṇmāse ca nirantaram | paṭhitvā pāṭhayitvā'pi stavarājamunuttamam || 137 daridro labhate lakṣmīmāyuḥprāptimatiściram | kanyārthī labhate kanyāṃ sarvarūpasamanvitām || 138 pradoṣe balidāne ca vaśayedakhilaṃ jagat | vaṭe vā bilvamūle kā rambhāyāṃ vipine vane || 139 japetsatatamālakṣya mantrarājasya siddhaye | varṇalakṣaṃ japedvāpi diṅmātraṃ hi pradarśitam || 140 pūjayettu tilairmāṣairdugdhairmāsairjhavaistathā |

  19. ghṛtapakvānnato vāpi vyañjanai rasasaṅkulaiḥ || 141 pūjayeddhārayedvāpi stavamenaṃ susādhakaḥ | paṭhedvā pāṭhayedvāpi yathāvidhi surapriye || 142 śatruto na bhayaṃ teṣāṃ nāgnicaurāstrajaṃ bhayam | jvarādisambhavaṃ cāpi saṃtyaṃ satyaṃ maheśvari || 143 bhairavārādhane śakto yo bhavetsādhakaḥ prabho| sadāśivaḥ savijñeyo bhairaveṇeti bhāṣitam || 144 śrīmadbhairavarājasevanavidhau vaiyāghramāseduṣaḥ puṃsaḥ pañcavidhā bhavanti navadhā hyaṣṭau mahāsiddhayaḥ | kṣoṇīpālakirīṭakoṭimaṇiruṅmālāmarairbhūdyaśo maudgyaṃpādapayojayornivahate mūrdhni payassicyatām || 145

  20. iti bhairavatantre devīharasaṃvāde śrīvaṭukabhairavasahasranāmastotraṃ || sampūrṇam ||

How to use this page
  1. Tap Kirtan for large text that keeps the screen awake. Press Start to scroll while you sing; touch the screen to pause.

  2. Tap Aa to change the text size and line spacing, or to show both, lyrics only or translation only. Your choice is remembered.

  3. Under Read in, pick a script to read the same text in Devanagari, Bengali, Tamil, Telugu and more.

  4. Compare shows the lyrics side by side in two scripts, such as Devanagari and Roman, verse by verse. Choose any script or a translation for each column; on songs and prayers, Show meaning adds the meaning under each verse.

  5. Tap Save to keep this page under Your songs on the home page. Pages you open appear there too, on this device only.

  6. Share sends a link to this page. PDF makes a clean sheet without menus, to save or print.

  7. At the end, Previous and Next take you through the list in order.

All tips

Text: Sanskrit Wikisource (Sanskrit Wikisource contributors (history: https://sa.wikisource.org/w/index.php?title=%E0%A4%B5%E0%A4%9F%E0%A5%81%E0%A4%95%E0%A4%AD%E0%A5%88%E0%A4%B0%E0%A4%B5%E0%A4%B8%E0%A4%B9%E0%A4%B8%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D&action=history)),CC BY-SA 4.0, retrieved 2026-10-26. Other scripts and the Roman transliteration are generated automatically.