गोपालसहस्रनामस्तोत्रम्

Auto-scrollSpeed 3

Touch the screen or press any key to pause.

Reading settings

Text size
Show
Layout (wide screens)
Line spacing
  1. पार्वत्युवाच-

  2. कैलासशिखरे रम्ये गौरी पृच्छति शङ्करम् । ब्रह्माण्डाखिलनाथस्त्वं सृष्टिसंहारकारकः ॥ १॥

  3. त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः । नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥ २॥

  4. आश्चर्यमिदमाख्यानं जायते मयि शङ्कर । तत्प्राणेश महाप्राज्ञ संशयं छिन्धि मे प्रभो ॥ ३॥

  5. श्रीमहादेव उवाच- धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे । रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥ ४॥

  6. स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि । गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ ५॥

  7. दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् । इदं रहस्यं परमं पुरुषार्थप्रदायकम् ॥ ६॥

  8. धनरत्नौघमाणिक्यं तुरङ्गं च गजादिकम् । ददाति स्मरणादेव महामोक्षप्रदायकम् ॥ ७॥

  9. तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वावहिता प्रिये । योऽसौ निरञ्जनो देवः चित्स्वरूपी जनार्दनः ॥ ८॥

  10. संसारसागरोत्तारकारणाय नृणाम् सदा । श्रीरङ्गादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥ ९॥

  11. ततो लोका महामूढा विष्णुभक्तिविवर्जिताः । निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥ १०॥

  12. निरञ्जनो निराकारो भक्तानां प्रीतिकामदः । वृन्दावनविहाराय गोपालं रूपमुद्वहन् ॥ ११॥

  13. मुरलीवादनाधारी राधायै प्रीतिमावहन् । अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः ॥ १२॥

  14. श्रीकृष्णचन्द्रो भगवान् नन्दगोपवरोद्यतः । धरणीरूपिणीमातृयशोदानन्ददायकः ॥ १३॥

  15. द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः । ब्रह्मणाऽभ्यर्थितो देवो देवैरपि सुरेश्वरि ॥ १४॥

  16. जातोऽवन्यां मुकुन्दोऽपि मुरलोवेदरेचिका । तया सार्द्धं वचः कृत्वा ततो जातो महीतले ॥ १५॥

  17. संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् । एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम् ॥ १६॥

  18. गौरतेजो विना यस्तु श्यामतेजस्समर्चयेत् । जपेद्वा ध्यायते वापि स भवेत् पातकी शिवे ॥ १७॥

  19. स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः । एतैर्दोषैर्विलिप्येत तेजोभेदान्महीश्वरि ॥ १८॥

  20. तस्माज्ज्योतिरभूद् द्वेधा राधामाधवरूपकम् । तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥ १९॥

  21. दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले । ततः पृष्टवती राधा सन्देहभेदमात्मनः ॥ २०॥

  22. निरञ्जनात्समुत्पन्नं मयाऽधीतं जगन्मयि । श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥ २१॥

  23. ततो नारदतस्सर्वे विरला वैष्णवा जनाः । कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥ २२॥

  24. शठाय कृपणायाथ दाम्भिकाय सुरेश्वरि । ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥ २३॥

  25. पाठ करने की विधि ॐ अस्य श्रीगोपालसहस्रनामस्तोत्रमहामन्त्रस्य श्रीनारद ऋषिः । अनुष्टुप् छन्दः । श्रीगोपालो देवता । कामो बीजम् । माया शक्तिः । चन्द्रः कीलकम् श्रीकृष्णचन्द्र भक्तिरूपफलप्राप्तये श्रीगोपालसहस्रनामस्तोत्रजपे विनियोगः । या इसतरह करें पाठ ॐ ऐं क्लीं बीजम् । श्रीं ह्रीं शक्तिः । श्रीवृन्दावननिवासः कीलकम् । श्रीराधाप्रियपरब्रह्मेति मन्त्रः । धर्मादिचतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ॥

  26. अथ करादिन्यासः ॐ क्लां अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां नमः ॥

  27. ॐ क्लूं मध्यमाभ्यां नमः ॥

  28. ॐ क्लैं अनामिकाभ्यां नमः ॥

  29. ॐ क्लौं कनिष्टिकाभ्यां नमः ॥

  30. ॐ क्लः करतलकरपृष्ठाभ्यां नमः ॥

  31. अथ हृदयादिन्यासः ॐ क्लां हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा ॥

  32. ॐ क्लूं शिखायै वषट् ॥

  33. ॐ क्लैं कवचाय हुं ॥

  34. ॐ क्लौं नेत्रत्रयाय वौषट् ॥

  35. ॐ क्लः अस्त्राय फट् ॥

  36. अथ ध्यानम्

  37. कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रेवरमौक्तिकं करतले वेणुं करे कङ्कणम् ॥

  38. सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलिम् गोपस्त्रीपरिवेष्टितो विजयते गोपालचूड़ामणिः ॥ १॥

  39. फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ॥

  40. गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥ २॥

  41. सहस्रनाम स्तोत्र आरम्भ-

  42. ॐ क्लीं देवः कामदेवः कामबीजशिरोमणिः । श्रीगोपालो महीपालो सर्ववेदान्तपारगः ॥ १॥

  43. कृष्णः कमलपत्राक्षः पुण्डरीकः सनातनः । गोपतिर्भूपतिः शास्ता प्रहर्ता विश्वतोमुखः ॥ २॥

  44. आदिकर्ता महाकर्ता महाकालः प्रतापवान् । जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः ॥ ३॥

  45. मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान् । नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥ ४॥

  46. गोकुलेन्द्रो महीचन्द्रः शर्वरीप्रियकारकः । कमलामुखलोलाक्षः पुण्डरीकः शुभावहः ॥ ५॥

  47. दुर्वासाः कपिलो भौमः सिन्धुसागरसङ्गमः । गोविन्दो गोपतिर्गोपः कालिन्दीप्रेमपूरकः ॥ ६॥

  48. गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः । नन्दादिगोकुलत्राता दाता दारिद्र्यभञ्जनः ॥ ७॥

  49. सर्वमङ्गलदाता च सर्वकामप्रदायकः । आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥ ८॥

  50. गजगामी गजोद्धारी कामी कामकलानिधिः । कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥ ९॥

  51. मालाकारः कृपाकारः कोकिलस्वरभूषणः । रामो नीलाम्बरो देवो हली दुर्दममर्दनः ॥ १०॥

  52. सहस्राक्षपुरीभेत्ता महामारीविनाशनः । शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥ ११॥

  53. कुमारीवरदायी च वरेण्यो मीनकेतनः । नरो नारायणो धीरो राधापतिरुदारधीः ॥ १२॥

  54. श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजहा । वृन्दापतिः कुलग्रामी धामी ब्रह्म सनातनः ॥ १३॥

  55. रेवतीरमणो रामः प्रियश्चञ्चललोचनः । रामायणशरीरोऽयं रामो रामः श्रियःपतिः ॥ १४॥

  56. शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः । राधाराधयिताराधी राधाचित्तप्रमोदकः ॥ १५॥

  57. राधारतिसुखोपेतः राधामोहनतत्परः । राधावशीकरो राधाहृदयाम्भोजषट्पदः ॥ १६॥

  58. राधालिङ्गनसम्मोहः राधानर्तनकौतुकः । राधासञ्जातसम्प्रीतो राधाकाम्यफलप्रदः ॥ १७॥

  59. वृन्दापतिः कोशनिधिः कोकशोकविनाशनः । चन्द्रापतिः चन्द्रपतिः चण्डकोदण्डभञ्जनः ॥ १८॥

  60. रामो दाशरथी रामः भृगुवंशसमुद्भवः । आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः ॥ १९॥

  61. वृषभानुभवो भावः काश्यपिः करुणानिधिः । कोलाहलो हली हाली हेली हलधरप्रियः ॥ २०॥

  62. राधामुखाब्जमार्ताण्डः भास्करो रविजा विधुः । विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥ २१॥

  63. रोहिणीहृदयानन्दो वसुदेवात्मजो बली । नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥ २२॥

  64. नागो नवाम्भो विरुदो वीरहा वरदो बली । गोपथो विजयी विद्वान् शिपिविष्टः सनातनः ॥ २३॥

  65. परशुरामवचोग्राही वरग्राही शृगालहा । दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥ २४॥

  66. वीरपत्नीयशस्त्राता जराव्याधिविघातकः । द्वारकावासतत्त्वज्ञः हुताशनवरप्रदः ॥ २५॥

  67. यमुनावेगसंहारी नीलाम्बरधरः प्रभुः । विभुः शरासनो धन्वी गणेशो गणनायकः ॥ २६॥

  68. लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशनः । वामनो वामनीभूतोऽवामनो वामनारुहः ॥ २७॥

  69. यशोदानन्दनः कर्त्ता यमलार्जुनमुक्तिदः । उलूखली महामानी दामबद्धाह्वयी शमी ॥ २८॥

  70. भक्तानुकारी भगवान् केशवो बलधारकः । केशिहा मधुहा मोही वृषासुरविघातकः ॥ २९॥

  71. अघासुरविनाशी च पूतनामोक्षदायकः । कुब्जाविनोदी भगवान् कंसमृत्युर्महामखी ॥ ३०। अश्वमेधो वाजपेयो गोमेधो नरमेधवान् । कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥ ३१॥

  72. रविकोटिप्रतीकाशो वायुकोटिमहाबलः । ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः ॥ ३२॥

  73. कमला कमलाक्षश्च कमलामुखलोलुपः । कमलाव्रतधारी च कमलाभः पुरन्दरः ॥ ३३॥

  74. सौभाग्याधिकचित्तोऽयं महामायी मदोत्कटः । तारकारिः सुरत्राता मारीचक्षोभकारकः ॥ ३४॥

  75. विश्वामित्रप्रियो दान्तो रामो राजीवलोचनः । लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥ ३५॥

  76. सीतानन्दकरो रामो वीरो वारिधिबन्धनः । खरदूषणसंहारी साकेतपुरवासवान् ॥ ३६॥

  77. चन्द्रावलीपतिः कूलः केशिकंसवधोऽमलः । माधवो मधुहा माध्वी माध्वीको माधवो विधुः ॥ ३७॥

  78. मुञ्जाटवीगाहमानः धेनुकारिर्धरात्मजः । वंशीवटविहारी च गोवर्धनवनाश्रयः ॥ ३८॥

  79. तथा तालवनोद्देशी भाण्डीरवनशङ्खहा । तृणावर्तकृपाकारी वृषभानुसुतापतिः ॥ ३९॥

  80. राधाप्राणसमो राधावदनाब्जमधुव्रतः । गोपीरञ्जनदैवज्ञः लीलाकमलपूजितः ॥ ४०॥

  81. क्रीडाकमलसन्दोहः गोपिकाप्रीतिरञ्जनः । रञ्जको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥ ४१॥

  82. कामः कामारिभक्तोऽयं पुराणपुरुषः कविः । नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥ ४२॥

  83. अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः । ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥ ४३॥

  84. पद्मनाभः सुरज्येष्ठी ब्रह्मा रूद्रोऽहिभूषितः । गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रही ॥ ४४॥

  85. गणाश्रयो गणाध्यक्षः क्रोडीकृतजगत्त्रयः । यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी ॥ ४५॥

  86. भ्रमरः कुन्तली कुन्तीसुतरक्षो महामखी । यमुनावरदाता च काश्यपस्य वरप्रदः ॥ ४६॥

  87. शङ्खचूडवधोद्दामो गोपीरक्षणतत्परः । पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥ ४७॥

  88. फाल्गुनः फाल्गुनसखो विराधवधकारकः । रुक्मिणीप्राणनाथश्च सत्यभामाप्रियङ्करः ॥ ४८॥

  89. कल्पवृक्षो महावृक्षः दानवृक्षो महाफलः । अङ्कुशो भूसुरो भावो भ्रामको भामको हरिः ॥ ४९॥

  90. सरलः शाश्वतो वीरो यदुवंशी शिवात्मकः । प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥ ५०॥

  91. महाधनी महावीरो वनमालाविभूषणः । तुलसीदामशोभाढ्यो जालन्धरविनाशनः ॥ ५१॥

  92. शूरः सूर्यो मृतण्डश्च भास्करो विश्वपूजितः । रविस्तमोहा वह्निश्च बाडवो वडवानलः ॥ ५२॥

  93. दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः । गोपीनाथो महानाथो वृन्दानाथोऽविरोधकः ॥ ५३॥

  94. प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोपतिः । गङ्गा च यमुनारूपो गोदा वेत्रवती तथा ॥ ५४॥

  95. कावेरी नर्मदा ताप्ती गण्डकी सरयूस्तथा । राजसस्तामसस्सत्त्वी सर्वाङ्गी सर्वलोचनः ॥ ५५॥

  96. सुधामयोऽमृतमयो योगिनीवल्लभः शिवः । बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥ ५६॥

  97. वंशी वंशधरो लोकः विलोको मोहनाशनः । रवरावो रवो रावो बलो बालबलाहकः ॥ ५७॥

  98. शिवो रूद्रो नलो नीलो लाङ्गली लाङ्गलाश्रयः । पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥ ५८॥

  99. मोहिनीमोहनो मायी महामायो महामखी । वृषो वृषाकपिः कालः कालीदमनकारकः ॥ ५९॥

  100. कुब्जाभाग्यप्रदो वीरः रजकक्षयकारकः । कोमलो वारुणो राजा जलजो जलधारकः ॥ ६०॥

  101. हारकः सर्वपापघ्नः परमेष्ठी पितामहः । खड्गधारी कृपाकारी राधारमणसुन्दरः ॥ ६१॥

  102. द्वादशारण्यसम्भोगी शेषनागफणालयः । कामः श्यामः सुखश्रीदः श्रीपतिः श्रीनिधिः कृती ॥ ६२॥

  103. हरिर्नारायणो नारो नरोत्तम इषुप्रियः । गोपालीचित्तहर्ता च कर्त्ता संसारतारकः ॥ ६३॥

  104. आदिदेवो महादेवो गौरीगुरुरनाश्रयः । साधुर्मधुर्विधुर्धाता त्राताऽक्रूरपरायणः ॥ ६४॥

  105. रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः । वनं वनी वनाध्यक्षः महावन्द्यो महामुनिः ॥ ६५॥

  106. स्यामन्तकमणिप्राज्ञो विज्ञो विघ्नविघातकः । गोवर्द्धनो वर्द्धनीयः वर्द्धनो वर्द्धनप्रियः ॥ ६६॥

  107. वर्द्धन्यो वर्द्धनो वर्द्धी वार्द्धिष्णुः सुमुखप्रियः । वर्द्धितो वृद्धको वृद्धो वृन्दारकजनप्रियः ॥ ६७॥

  108. गोपालरमणीभर्ता साम्बकुष्ठविनाशकः । रुक्मिणीहरणः प्रेमप्रेमी चन्द्रावलीपतिः ॥ ६८॥

  109. श्रीकर्ता विश्वभर्ता च नरो नारायणो बली । गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥ ६९॥

  110. व्यासो नारायणो दिव्यो भव्यो भावुकधारकः । श्वःश्रेयसं शिवं भद्रं भावुकं भाविकं शुभम् ॥ ७०॥

  111. शुभात्मकः शुभः शास्ता प्रशास्ता मेघानादहा । ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥ ७१॥

  112. कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः । कृष्णः कामी सदा कृष्णः समस्तप्रियकारकः ॥ ७२॥

  113. नन्दो नन्दी महानन्दी मादी मादनकः किली । मिली हिली गिली गोली गोलो गोलालयो गुली ॥ ७३॥

  114. गुग्गुली मारकी शाखी वटः पिप्पलकः कृती । म्लेच्छहा कालहर्त्ता च यशोदायश एव च ॥ ७४॥

  115. अच्युतः केशवो विष्णुः हरिः सत्यो जनार्दनः । हंसो नारायणो लीलो नीलो भक्तिपरायणः ॥ ७५॥

  116. जानकीवल्लभो रामः विरामो विघ्ननाशनः । सहभानुर्महाभानुः वीरबाहुर्महोदधिः ॥ ७६॥

  117. समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः । गोकुलानन्दकारी च प्रतिज्ञापरिपालकः ॥ ७७॥

  118. सदारामः कृपारामः महारामो धनुर्धरः । पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥ ७८॥

  119. कम्बलाश्वतरो रामो रामायणप्रवर्तकः । द्यौर्दिवो दिवसो दिव्यो भव्यो भावि भयापहः ॥ ७९॥

  120. पार्वतीभाग्यसहितो भर्ता लक्ष्मीविलासवान् । विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥ ८०॥

  121. मुरारिर्लोकधर्मज्ञः जीवनो जीवनान्तकः । यमो यमादियमनो यामी यामविधायकः ॥ ८१॥

  122. वसुली पांसुली पांसुः पाण्डुरर्जुनवल्लभः । ललिता चन्द्रिकामाली माली मालाम्बुजाश्रयः ॥ ८२॥

  123. अम्बुजाक्षो महायज्ञः दक्षः चिन्तामणिः प्रभुः । मणिर्दिनमणिश्चैव केदारो बदरीश्रयः ॥ ८३॥

  124. बदरीवनसम्प्रीतः व्यासः सत्यवतीसुतः । अमरारिनिहन्ता च सुधासिन्धुविधूदयः ॥ ८४॥

  125. चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः । श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥ ८५॥

  126. श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः । वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥ ८६॥

  127. नारायणः परं धाम देवदेवो महेश्वरः । चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥ ८७॥

  128. भगवान् सर्वभूतेशो गोपालः सर्वपालकः । अनन्तो निर्गुणो नित्यो निर्विकल्पो निरञ्जनः ॥ ८८॥

  129. निराधारो निराकारः निराभासो निराश्रयः । पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥ ८९॥

  130. क्षणावनिः सार्वभौमो वैकुण्ठो भक्तवत्सलः । विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥ ९०॥

  131. देवकीगर्भसम्भूतो यशोदावत्सलो हरिः । शिवः सङ्कर्षणः शम्भुर्भूतनाथो दिवस्पतिः ॥ ९१॥

  132. अव्ययः सर्वधर्मज्ञः निर्मलो निरुपद्रवः । निर्वाणनायको नित्यो नीलजीमूतसन्निभः ॥ ९२॥

  133. कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः । हृषीकेशः पीतवासा वसुदेवप्रियात्मजः ॥ ९३॥

  134. नन्दगोपकुमारार्यः नवनीताशनो विभुः । पुराणपुरुषः श्रेष्ठः शङ्खपाणिः सुविक्रमः ॥ ९४॥

  135. अनिरुद्धश्चक्ररथः शार्ङ्गपाणिश्चतुर्भुजः । गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः ॥ ९५॥

  136. वृन्दावनचरः शौरिर्वेणुवाद्यविशारदः । तृणावर्तान्तको भीमसाहसी बहुविक्रमः ॥ ९६॥

  137. शकटासुरसंहारी बकासुरविनाशनः । धेनुकासुरसंहारी पूतनारिर्नृकेसरी ॥ ९७॥

  138. पितामहो गुरुस्साक्षात् प्रत्यगात्मा सदाशिवः । अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्द्धनः ॥ ९८॥

  139. धन्यो मान्यो भवो भावो धीरः शान्तो जगद्गुरुः । अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवसंस्तुतः ॥ ९९॥

  140. क्षीराब्धिशयनो धाता लक्ष्मीवांल्लक्ष्मणाग्रजः । धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः ॥ १००॥

  141. लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः । कोटिमन्मथसौन्दर्यः जगन्मोहनविग्रहः ॥ १०१॥

  142. मन्दस्मिताननो गोपो गोपिकापरिवेष्टितः । फुल्लारविन्दनयनः चाणूरान्ध्रनिषूदनः ॥ १०२॥

  143. इन्दीवरदलश्यामो बर्हिबर्हावतंसकः । मुरलीनिनदाह्लादः दिव्यमाल्याम्बरावृतः ॥ १०३॥

  144. सुकपोलयुगः सुभ्रूयुगलः सुललाटकः । कम्बुग्रीवो विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥ १०४॥

  145. पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः । कलङ्करहितः शुद्धः दुष्टशत्रुनिबर्हणः ॥ १०५॥

  146. किरीटकुण्डलधरः कटकाङ्गदमण्डितः । मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥ १०६॥

  147. मञ्जीररञ्जितपदः सर्वाभरणभूषितः । विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः ॥ १०७॥

  148. गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः । समस्तजगदानन्दः सुन्दरो लोकनन्दनः ॥ १०८॥

  149. यमुनातीरसञ्चारी राधामन्मथवैभवः । गोपनारीप्रियो दान्तो गोपीवस्त्रापहारकः ॥ १०९॥

  150. शृङ्गारमूर्तिः श्रीधामा तारको मूलकारणम् । सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः ॥ ११०॥

  151. नरकासुरसंहारी मुरारिररिमर्दनः । आदितेयप्रियो दैत्यभीकरो यदुशेखरः ॥ १११॥

  152. जरासन्धकुलध्वंसी कंसारातिः सुविक्रमः । पुण्यश्लोकः कीर्तनीयः यादवेन्द्रो जगन्नुतः ॥ ११२॥

  153. रुक्मिणीरमणः सत्यभामाजाम्बवतीप्रियः । मित्रविन्दानाग्नजितीलक्ष्मणासमुपासितः ॥ ११३॥

  154. सुधाकरकुले जातोऽनन्तप्रबलविक्रमः । सर्वसौभाग्यसम्पन्नो द्वारकापत्तने स्थितः ॥ ११४॥

  155. भद्रासूर्यसुतानाथो लीलामानुषविग्रहः । सहस्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥ ११५॥

  156. वेदान्तवेद्यः संवेद्यो वैद्यो ब्रह्माण्डनायकः । गोवर्द्धनधरो नाथः सर्वजीवदयापरः ॥ ११६॥

  157. मूर्तिमान् सर्वभूतात्मा आर्तत्राणपरायणः । सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥ ११७॥

  158. षड्गुणैश्वर्यसम्पन्नः पूर्णकामो धुरन्धरः । महानुभावः कैवल्यदायको लोकनायकः ॥ ११८॥

  159. आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः । असमानः समस्तात्मा शरणागतवत्सलः ॥ ११९॥

  160. उत्पत्तिस्थितिसंहारकारणं सर्वकारणम् । गम्भीरः सर्वभावज्ञः सच्चिदानन्दविग्रहः ॥ १२०॥

  161. विष्वक्सेनः सत्यसन्धः सत्यवाक् सत्यविक्रमः । सत्यव्रतः सत्यरतः सर्वधर्मपरायणः ॥ १२१॥

  162. आपन्नार्तिप्रशमनः द्रौपदीमानरक्षकः । कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥ १२२॥

  163. भक्तिवश्यो गुणातीतः सर्वैश्वर्यप्रदायकः । दमघोषसुतद्वेषी बाणबाहुविखण्डनः ॥ १२३॥

  164. भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः । कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः ॥ १२४॥

  165. नारसिंहो महावीरः स्तम्भजातो महाबलः । प्रह्लादवरदः सत्यो देवपूज्योऽभयङ्करः ॥ १२५॥

  166. उपेन्द्र इन्द्रावरजो वामनो बलिबन्धनः । गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः ॥ १२६॥

  167. शेषपर्यङ्कशयनः वैनतेयरथो जयी । अव्याहतबलैश्वर्यसम्पन्नः पूर्णमानसः ॥ १२७॥

  168. योगेश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः । योगिहृत्पङ्कजावासो योगमायासमन्वितः ॥ १२८॥

  169. नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः । सुषुम्नामार्गसञ्चारी देहस्यान्तरसंस्थितः ॥ १२९॥

  170. देहेन्द्रियमनःप्राणसाक्षी चेतःप्रसादकः । सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥ १३०॥

  171. तत्त्वत्रयात्मकोऽव्यक्तः कुण्डली समुपाश्रितः । ब्रह्मण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः ॥ १३१॥

  172. श्रीनिवासः सदानन्दः विश्वमूर्तिर्महाप्रभुः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ १३२॥

  173. समस्तभुवनाधारः समस्तप्राणरक्षकः । समस्तसर्वभावज्ञो गोपिकाप्राणवल्लभः ॥ १३३॥

  174. नित्योत्सवो नित्यसौख्यो नित्यश्रीर्नित्यमङ्गलः । व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः ॥ १३४॥

  175. पूर्णानन्दघनीभूतः गोपवेषधरो हरिः । कलापकुसुमश्यामः कोमलः शान्तविग्रहः ॥ १३५॥

  176. गोपाङ्गनावृतोऽनन्तो वृन्दावनसमाश्रयः । वेणुवादरतः श्रेष्ठो देवानां हितकारकः ॥ १३६॥

  177. बालक्रीडासमासक्तो नवनीतस्य तस्करः । गोपालकामिनीजारश्चौरजारशिखामणिः ॥ १३७॥

  178. परञ्ज्योतिः पराकाशः परावासः परिस्फुटः । अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः ॥ १३८॥

  179. सप्तकोटिमहामन्त्रशेखरो देवशेखरः । विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पतिः ॥ १३९॥

  180. भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः । भक्तदारिद्र्यदमनो भक्तानां प्रीतिदायकः ॥ १४०॥

  181. भक्ताधीनमनाः पूज्यः भक्तलोकशिवङ्करः । भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तनः ॥ १४१॥

  182. अपारकरुणासिन्धुर्भगवान् भक्ततत्परः ॥ १४२॥

  183. ॥ इति गोपाल सहस्रनामस्तोत्रम् सम्पूर्णम् ॥

  184. फलश्रुतिः

    (॥ गोपालसहस्रनाम माहात्म्यम् ॥) स्मरणात् पापराशीनां खण्डनं मृत्युनाशनम् ॥ १ ॥

  185. वैष्णवानां प्रियकरं महारोगनिवारणम् । ब्रह्महत्यासुरापानं परस्त्रीगमनं तथा ॥ २ ॥

  186. परद्रव्यापहरणं परद्वेषसमन्वितम् । मानसं वाचिकं कायं यत्पापं पापसम्भवम् ॥ ३ ॥

  187. सहस्रनामपठनात् सर्वं नश्यति तत्क्षणात् । महादारिद्र्ययुक्तो यो वैष्णवो विष्णुभक्तिमान् ॥ ४ ॥

  188. कार्तिक्यां सम्पठेद्रात्रौ शतमष्टोत्तरं क्रमात् । पीताम्बरधरो धीमान् सुगन्धैः पुष्पचन्दनैः ॥ ५ ॥

  189. पुस्तकं पूजयित्वा तु नैवेद्यादिभिरेव च । राधाध्यानाङ्कितो धीरो वनमालाविभूषितः ॥ ६ ॥

  190. शतमष्टोत्तरं देवि पठेन्नामसहस्रकम् । चैत्रशुक्ले च कृष्णे च कुहूसङ्क्रान्तिवासरे ॥ ७ ॥

  191. पठितव्यं प्रयत्नेन त्रैलोक्यं मोहयेत् क्षणात् । तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥ ८ ॥

  192. रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे । ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥ ९ ॥

  193. पठेन्नामसहस्रं च ततः सिद्धिः प्रजायते । महानिशायां सततं वैष्णवो यः पठेत् सदा ॥ १० ॥

  194. देशान्तरगता लक्ष्मीः समायाति न संशयः । त्रैलोक्ये च महादेवि सुन्दर्यः काममोहिताः ॥ ११ ॥

  195. मुग्धाः स्वयं समायान्ति वैष्णवं च भजन्ति ताः । रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ १२॥

  196. गुर्विणी जनयेत्पुत्रं कन्या विन्दति सत्पतिम् । राजानो वश्यतां यान्ति किं पुनः क्षुद्रमानवाः ॥ १३॥

  197. सहस्रनामश्रवणात् पठनात् पूजनात् प्रिये । धारणात् सर्वमाप्नोति वैष्णवो नात्र संशयः ॥ १४॥

  198. वंशीवटे चान्यवटे तथा पिप्पलकेऽथ वा । कदम्बपादपतले गोपालमूर्तिसंनिधौ ॥ १५। यः पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम् । कृष्णेनोक्तं राधिकायै मया प्रोक्तं तथा शिवे ॥ १६॥

  199. नारदाय मया प्रोक्तं नारदेन प्रकाशितम् । मया तुभ्यं वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥ १७॥

  200. गोपनीयं प्रयत्नेन न प्रकाश्यं कथञ्चन । शठाय पापिने चैव लम्पटाय विशेषतः ॥ १८॥

  201. न दातव्यं न दातव्यं न दातव्यं कदाचन । देयं शिष्याय शान्ताय विष्णुभक्तिरताय च ॥ १९॥

  202. गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च । अश्वमेधसहस्रस्य फलं पाठे भवेत् ध्रुवम् ॥ २०॥

  203. मोहनं स्तम्भनं चैव मारणोच्चाटनादिकम् । यद्यद्वाञ्छति चित्तेन तत्तत्प्राप्नोति वैष्णवः ॥ २१॥

  204. एकादश्यां नरः स्नात्वा सुगन्धिद्रव्यतैलकैः । आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् ॥ २२॥

  205. तत आरम्भकर्तास्य सर्वं प्राप्नोति मानवः । शतावृत्तं सहस्रं च यः पठेद्वैष्णवो जनः ॥ २३॥

  206. श्रीवृन्दावनचन्द्रस्य प्रसादात्सर्वमाप्नुयात् । यद्गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥ २४॥

  207. न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित् । सर्पाद्या भूतयक्षाद्या नश्यन्ते नात्र संशयः ॥ २५॥

  208. श्रीगोपालो महादेवि वसेत्तस्य गृहे सदा । गृहे यत्र सहस्रं च नाम्नां तिष्ठति पूजितम् ॥ २६॥

  209. ॥ ॐ तत्सदिति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे गोपालसहस्रनामस्तोत्रं सम्पूर्णम् ॥ >

Roman transliteration (IAST)

Automatic transliteration.

  1. pārvatyuvāca-

  2. kailāsaśikhare ramye gaurī pṛcchati śaṅkaram | brahmāṇḍākhilanāthastvaṃ sṛṣṭisaṃhārakārakaḥ || 1||

  3. tvameva pūjyase lokairbrahmaviṣṇusurādibhiḥ | nityaṃ paṭhasi deveśa kasya stotraṃ maheśvara || 2||

  4. āścaryamidamākhyānaṃ jāyate mayi śaṅkara | tatprāṇeśa mahāprājña saṃśayaṃ chindhi me prabho || 3||

  5. śrīmahādeva uvāca- dhanyāsi kṛtapuṇyāsi pārvati prāṇavallabhe | rahasyātirahasyaṃ ca yatpṛcchasi varānane || 4||

  6. strīsvabhāvānmahādevi punastvaṃ paripṛcchasi | gopanīyaṃ gopanīyaṃ gopanīyaṃ prayatnataḥ || 5||

  7. datte ca siddhihāniḥ syāttasmādyatnena gopayet | idaṃ rahasyaṃ paramaṃ puruṣārthapradāyakam || 6||

  8. dhanaratnaughamāṇikyaṃ turaṅgaṃ ca gajādikam | dadāti smaraṇādeva mahāmokṣapradāyakam || 7||

  9. tatte'haṃ sampravakṣyāmi śṛṇuṣvāvahitā priye | yo'sau nirañjano devaḥ citsvarūpī janārdanaḥ || 8||

  10. saṃsārasāgarottārakāraṇāya nṛṇām sadā | śrīraṅgādikarūpeṇa trailokyaṃ vyāpya tiṣṭhati || 9||

  11. tato lokā mahāmūḍhā viṣṇubhaktivivarjitāḥ | niścayaṃ nādhigacchanti punarnārāyaṇo hariḥ || 10||

  12. nirañjano nirākāro bhaktānāṃ prītikāmadaḥ | vṛndāvanavihārāya gopālaṃ rūpamudvahan || 11||

  13. muralīvādanādhārī rādhāyai prītimāvahan | aṃśāṃśebhyaḥ samunmīlya pūrṇarūpakalāyutaḥ || 12||

  14. śrīkṛṣṇacandro bhagavān nandagopavarodyataḥ | dharaṇīrūpiṇīmātṛyaśodānandadāyakaḥ || 13||

  15. dvābhyāṃ prayācito nātho devakyāṃ vasudevataḥ | brahmaṇā'bhyarthito devo devairapi sureśvari || 14||

  16. jāto'vanyāṃ mukundo'pi muralovedarecikā | tayā sārddhaṃ vacaḥ kṛtvā tato jāto mahītale || 15||

  17. saṃsārasārasarvasvaṃ śyāmalaṃ mahadujjvalam | etajjyotirahaṃ vedyaṃ cintayāmi sanātanam || 16||

  18. gauratejo vinā yastu śyāmatejassamarcayet | japedvā dhyāyate vāpi sa bhavet pātakī śive || 17||

  19. sa brahmahā surāpī ca svarṇasteyī ca pañcamaḥ | etairdoṣairvilipyeta tejobhedānmahīśvari || 18||

  20. tasmājjyotirabhūd dvedhā rādhāmādhavarūpakam | tasmādidaṃ mahādevi gopālenaiva bhāṣitam || 19||

  21. durvāsaso munermohe kārtikyāṃ rāsamaṇḍale | tataḥ pṛṣṭavatī rādhā sandehabhedamātmanaḥ || 20||

  22. nirañjanātsamutpannaṃ mayā'dhītaṃ jaganmayi | śrīkṛṣṇena tataḥ proktaṃ rādhāyai nāradāya ca || 21||

  23. tato nāradatassarve viralā vaiṣṇavā janāḥ | kalau jānanti deveśi gopanīyaṃ prayatnataḥ || 22||

  24. śaṭhāya kṛpaṇāyātha dāmbhikāya sureśvari | brahmahatyāmavāpnoti tasmādyatnena gopayet || 23||

  25. pāṭha karane kī vidhi oṃ asya śrīgopālasahasranāmastotramahāmantrasya śrīnārada ṛṣiḥ | anuṣṭup chandaḥ | śrīgopālo devatā | kāmo bījam | māyā śaktiḥ | candraḥ kīlakam śrīkṛṣṇacandra bhaktirūpaphalaprāptaye śrīgopālasahasranāmastotrajape viniyogaḥ | yā isataraha kareṃ pāṭha oṃ aiṃ klīṃ bījam | śrīṃ hrīṃ śaktiḥ | śrīvṛndāvananivāsaḥ kīlakam | śrīrādhāpriyaparabrahmeti mantraḥ | dharmādicaturvidhapuruṣārthasiddhyarthe jape viniyogaḥ ||

  26. atha karādinyāsaḥ oṃ klāṃ aṅguṣṭhābhyāṃ namaḥ | oṃ klīṃ tarjanībhyāṃ namaḥ ||

  27. oṃ klūṃ madhyamābhyāṃ namaḥ ||

  28. oṃ klaiṃ anāmikābhyāṃ namaḥ ||

  29. oṃ klauṃ kaniṣṭikābhyāṃ namaḥ ||

  30. oṃ klaḥ karatalakarapṛṣṭhābhyāṃ namaḥ ||

  31. atha hṛdayādinyāsaḥ oṃ klāṃ hṛdayāya namaḥ | oṃ klīṃ śirase svāhā ||

  32. oṃ klūṃ śikhāyai vaṣaṭ ||

  33. oṃ klaiṃ kavacāya huṃ ||

  34. oṃ klauṃ netratrayāya vauṣaṭ ||

  35. oṃ klaḥ astrāya phaṭ ||

  36. atha dhyānam

  37. kastūrītilakaṃ lalāṭapaṭale vakṣaḥsthale kaustubhaṃ nāsāgrevaramauktikaṃ karatale veṇuṃ kare kaṅkaṇam ||

  38. sarvāṅge haricandanaṃ sulalitaṃ kaṇṭhe ca muktāvalim gopastrīpariveṣṭito vijayate gopālacūr̤āmaṇiḥ || 1||

  39. phullendīvarakāntiminduvadanaṃ barhāvataṃsapriyaṃ śrīvatsāṅkamudārakaustubhadharaṃ pītāmbaraṃ sundaram ||

  40. gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje || 2||

  41. sahasranāma stotra ārambha-

  42. oṃ klīṃ devaḥ kāmadevaḥ kāmabījaśiromaṇiḥ | śrīgopālo mahīpālo sarvavedāntapāragaḥ || 1||

  43. kṛṣṇaḥ kamalapatrākṣaḥ puṇḍarīkaḥ sanātanaḥ | gopatirbhūpatiḥ śāstā prahartā viśvatomukhaḥ || 2||

  44. ādikartā mahākartā mahākālaḥ pratāpavān | jagajjīvo jagaddhātā jagadbhartā jagadvasuḥ || 3||

  45. matsyo bhīmaḥ kuhūbhartā hartā vārāhamūrtimān | nārāyaṇo hṛṣīkeśo govindo garuḍadhvajaḥ || 4||

  46. gokulendro mahīcandraḥ śarvarīpriyakārakaḥ | kamalāmukhalolākṣaḥ puṇḍarīkaḥ śubhāvahaḥ || 5||

  47. durvāsāḥ kapilo bhaumaḥ sindhusāgarasaṅgamaḥ | govindo gopatirgopaḥ kālindīpremapūrakaḥ || 6||

  48. gopasvāmī gokulendro govardhanavarapradaḥ | nandādigokulatrātā dātā dāridryabhañjanaḥ || 7||

  49. sarvamaṅgaladātā ca sarvakāmapradāyakaḥ | ādikartā mahībhartā sarvasāgarasindhujaḥ || 8||

  50. gajagāmī gajoddhārī kāmī kāmakalānidhiḥ | kalaṅkarahitaścandro bimbāsyo bimbasattamaḥ || 9||

  51. mālākāraḥ kṛpākāraḥ kokilasvarabhūṣaṇaḥ | rāmo nīlāmbaro devo halī durdamamardanaḥ || 10||

  52. sahasrākṣapurībhettā mahāmārīvināśanaḥ | śivaḥ śivatamo bhettā balārātiprapūjakaḥ || 11||

  53. kumārīvaradāyī ca vareṇyo mīnaketanaḥ | naro nārāyaṇo dhīro rādhāpatirudāradhīḥ || 12||

  54. śrīpatiḥ śrīnidhiḥ śrīmān māpatiḥ pratirājahā | vṛndāpatiḥ kulagrāmī dhāmī brahma sanātanaḥ || 13||

  55. revatīramaṇo rāmaḥ priyaścañcalalocanaḥ | rāmāyaṇaśarīro'yaṃ rāmo rāmaḥ śriyaḥpatiḥ || 14||

  56. śarvaraḥ śarvarī śarvaḥ sarvatra śubhadāyakaḥ | rādhārādhayitārādhī rādhācittapramodakaḥ || 15||

  57. rādhāratisukhopetaḥ rādhāmohanatatparaḥ | rādhāvaśīkaro rādhāhṛdayāmbhojaṣaṭpadaḥ || 16||

  58. rādhāliṅganasammohaḥ rādhānartanakautukaḥ | rādhāsañjātasamprīto rādhākāmyaphalapradaḥ || 17||

  59. vṛndāpatiḥ kośanidhiḥ kokaśokavināśanaḥ | candrāpatiḥ candrapatiḥ caṇḍakodaṇḍabhañjanaḥ || 18||

  60. rāmo dāśarathī rāmaḥ bhṛguvaṃśasamudbhavaḥ | ātmārāmo jitakrodho moho mohāndhabhañjanaḥ || 19||

  61. vṛṣabhānubhavo bhāvaḥ kāśyapiḥ karuṇānidhiḥ | kolāhalo halī hālī helī haladharapriyaḥ || 20||

  62. rādhāmukhābjamārtāṇḍaḥ bhāskaro ravijā vidhuḥ | vidhirvidhātā varuṇo vāruṇo vāruṇīpriyaḥ || 21||

  63. rohiṇīhṛdayānando vasudevātmajo balī | nīlāmbaro rauhiṇeyo jarāsandhavadho'malaḥ || 22||

  64. nāgo navāmbho virudo vīrahā varado balī | gopatho vijayī vidvān śipiviṣṭaḥ sanātanaḥ || 23||

  65. paraśurāmavacogrāhī varagrāhī śṛgālahā | damaghoṣopadeṣṭā ca rathagrāhī sudarśanaḥ || 24||

  66. vīrapatnīyaśastrātā jarāvyādhivighātakaḥ | dvārakāvāsatattvajñaḥ hutāśanavarapradaḥ || 25||

  67. yamunāvegasaṃhārī nīlāmbaradharaḥ prabhuḥ | vibhuḥ śarāsano dhanvī gaṇeśo gaṇanāyakaḥ || 26||

  68. lakṣmaṇo lakṣaṇo lakṣyo rakṣovaṃśavināśanaḥ | vāmano vāmanībhūto'vāmano vāmanāruhaḥ || 27||

  69. yaśodānandanaḥ karttā yamalārjunamuktidaḥ | ulūkhalī mahāmānī dāmabaddhāhvayī śamī || 28||

  70. bhaktānukārī bhagavān keśavo baladhārakaḥ | keśihā madhuhā mohī vṛṣāsuravighātakaḥ || 29||

  71. aghāsuravināśī ca pūtanāmokṣadāyakaḥ | kubjāvinodī bhagavān kaṃsamṛtyurmahāmakhī || 30| aśvamedho vājapeyo gomedho naramedhavān | kandarpakoṭilāvaṇyaścandrakoṭisuśītalaḥ || 31||

  72. ravikoṭipratīkāśo vāyukoṭimahābalaḥ | brahmā brahmāṇḍakartā ca kamalāvāñchitapradaḥ || 32||

  73. kamalā kamalākṣaśca kamalāmukhalolupaḥ | kamalāvratadhārī ca kamalābhaḥ purandaraḥ || 33||

  74. saubhāgyādhikacitto'yaṃ mahāmāyī madotkaṭaḥ | tārakāriḥ suratrātā mārīcakṣobhakārakaḥ || 34||

  75. viśvāmitrapriyo dānto rāmo rājīvalocanaḥ | laṅkādhipakuladhvaṃsī vibhīṣaṇavarapradaḥ || 35||

  76. sītānandakaro rāmo vīro vāridhibandhanaḥ | kharadūṣaṇasaṃhārī sāketapuravāsavān || 36||

  77. candrāvalīpatiḥ kūlaḥ keśikaṃsavadho'malaḥ | mādhavo madhuhā mādhvī mādhvīko mādhavo vidhuḥ || 37||

  78. muñjāṭavīgāhamānaḥ dhenukārirdharātmajaḥ | vaṃśīvaṭavihārī ca govardhanavanāśrayaḥ || 38||

  79. tathā tālavanoddeśī bhāṇḍīravanaśaṅkhahā | tṛṇāvartakṛpākārī vṛṣabhānusutāpatiḥ || 39||

  80. rādhāprāṇasamo rādhāvadanābjamadhuvrataḥ | gopīrañjanadaivajñaḥ līlākamalapūjitaḥ || 40||

  81. krīḍākamalasandohaḥ gopikāprītirañjanaḥ | rañjako rañjano raṅgo raṅgī raṅgamahīruhaḥ || 41||

  82. kāmaḥ kāmāribhakto'yaṃ purāṇapuruṣaḥ kaviḥ | nārado devalo bhīmo bālo bālamukhāmbujaḥ || 42||

  83. ambujo brahmasākṣī ca yogī dattavaro muniḥ | ṛṣabhaḥ parvato grāmo nadīpavanavallabhaḥ || 43||

  84. padmanābhaḥ surajyeṣṭhī brahmā rūdro'hibhūṣitaḥ | gaṇānāṃ trāṇakartā ca gaṇeśo grahilo grahī || 44||

  85. gaṇāśrayo gaṇādhyakṣaḥ kroḍīkṛtajagattrayaḥ | yādavendro dvārakendro mathurāvallabho dhurī || 45||

  86. bhramaraḥ kuntalī kuntīsutarakṣo mahāmakhī | yamunāvaradātā ca kāśyapasya varapradaḥ || 46||

  87. śaṅkhacūḍavadhoddāmo gopīrakṣaṇatatparaḥ | pāñcajanyakaro rāmī trirāmī vanajo jayaḥ || 47||

  88. phālgunaḥ phālgunasakho virādhavadhakārakaḥ | rukmiṇīprāṇanāthaśca satyabhāmāpriyaṅkaraḥ || 48||

  89. kalpavṛkṣo mahāvṛkṣaḥ dānavṛkṣo mahāphalaḥ | aṅkuśo bhūsuro bhāvo bhrāmako bhāmako hariḥ || 49||

  90. saralaḥ śāśvato vīro yaduvaṃśī śivātmakaḥ | pradyumno balakartā ca prahartā daityahā prabhuḥ || 50||

  91. mahādhanī mahāvīro vanamālāvibhūṣaṇaḥ | tulasīdāmaśobhāḍhyo jālandharavināśanaḥ || 51||

  92. śūraḥ sūryo mṛtaṇḍaśca bhāskaro viśvapūjitaḥ | ravistamohā vahniśca bāḍavo vaḍavānalaḥ || 52||

  93. daityadarpavināśī ca garuḍo garuḍāgrajaḥ | gopīnātho mahānātho vṛndānātho'virodhakaḥ || 53||

  94. prapañcī pañcarūpaśca latāgulmaśca gopatiḥ | gaṅgā ca yamunārūpo godā vetravatī tathā || 54||

  95. kāverī narmadā tāptī gaṇḍakī sarayūstathā | rājasastāmasassattvī sarvāṅgī sarvalocanaḥ || 55||

  96. sudhāmayo'mṛtamayo yoginīvallabhaḥ śivaḥ | buddho buddhimatāṃ śreṣṭho viṣṇurjiṣṇuḥ śacīpatiḥ || 56||

  97. vaṃśī vaṃśadharo lokaḥ viloko mohanāśanaḥ | ravarāvo ravo rāvo balo bālabalāhakaḥ || 57||

  98. śivo rūdro nalo nīlo lāṅgalī lāṅgalāśrayaḥ | pāradaḥ pāvano haṃso haṃsārūḍho jagatpatiḥ || 58||

  99. mohinīmohano māyī mahāmāyo mahāmakhī | vṛṣo vṛṣākapiḥ kālaḥ kālīdamanakārakaḥ || 59||

  100. kubjābhāgyaprado vīraḥ rajakakṣayakārakaḥ | komalo vāruṇo rājā jalajo jaladhārakaḥ || 60||

  101. hārakaḥ sarvapāpaghnaḥ parameṣṭhī pitāmahaḥ | khaḍgadhārī kṛpākārī rādhāramaṇasundaraḥ || 61||

  102. dvādaśāraṇyasambhogī śeṣanāgaphaṇālayaḥ | kāmaḥ śyāmaḥ sukhaśrīdaḥ śrīpatiḥ śrīnidhiḥ kṛtī || 62||

  103. harirnārāyaṇo nāro narottama iṣupriyaḥ | gopālīcittahartā ca karttā saṃsāratārakaḥ || 63||

  104. ādidevo mahādevo gaurīgururanāśrayaḥ | sādhurmadhurvidhurdhātā trātā'krūraparāyaṇaḥ || 64||

  105. rolambī ca hayagrīvo vānarārirvanāśrayaḥ | vanaṃ vanī vanādhyakṣaḥ mahāvandyo mahāmuniḥ || 65||

  106. syāmantakamaṇiprājño vijño vighnavighātakaḥ | govarddhano varddhanīyaḥ varddhano varddhanapriyaḥ || 66||

  107. varddhanyo varddhano varddhī vārddhiṣṇuḥ sumukhapriyaḥ | varddhito vṛddhako vṛddho vṛndārakajanapriyaḥ || 67||

  108. gopālaramaṇībhartā sāmbakuṣṭhavināśakaḥ | rukmiṇīharaṇaḥ premapremī candrāvalīpatiḥ || 68||

  109. śrīkartā viśvabhartā ca naro nārāyaṇo balī | gaṇo gaṇapatiścaiva dattātreyo mahāmuniḥ || 69||

  110. vyāso nārāyaṇo divyo bhavyo bhāvukadhārakaḥ | śvaḥśreyasaṃ śivaṃ bhadraṃ bhāvukaṃ bhāvikaṃ śubham || 70||

  111. śubhātmakaḥ śubhaḥ śāstā praśāstā meghānādahā | brahmaṇyadevo dīnānāmuddhārakaraṇakṣamaḥ || 71||

  112. kṛṣṇaḥ kamalapatrākṣaḥ kṛṣṇaḥ kamalalocanaḥ | kṛṣṇaḥ kāmī sadā kṛṣṇaḥ samastapriyakārakaḥ || 72||

  113. nando nandī mahānandī mādī mādanakaḥ kilī | milī hilī gilī golī golo golālayo gulī || 73||

  114. guggulī mārakī śākhī vaṭaḥ pippalakaḥ kṛtī | mlecchahā kālaharttā ca yaśodāyaśa eva ca || 74||

  115. acyutaḥ keśavo viṣṇuḥ hariḥ satyo janārdanaḥ | haṃso nārāyaṇo līlo nīlo bhaktiparāyaṇaḥ || 75||

  116. jānakīvallabho rāmaḥ virāmo vighnanāśanaḥ | sahabhānurmahābhānuḥ vīrabāhurmahodadhiḥ || 76||

  117. samudro'bdhirakūpāraḥ pārāvāraḥ saritpatiḥ | gokulānandakārī ca pratijñāparipālakaḥ || 77||

  118. sadārāmaḥ kṛpārāmaḥ mahārāmo dhanurdharaḥ | parvataḥ parvatākāro gayo geyo dvijapriyaḥ || 78||

  119. kambalāśvataro rāmo rāmāyaṇapravartakaḥ | dyaurdivo divaso divyo bhavyo bhāvi bhayāpahaḥ || 79||

  120. pārvatībhāgyasahito bhartā lakṣmīvilāsavān | vilāsī sāhasī sarvī garvī garvitalocanaḥ || 80||

  121. murārirlokadharmajñaḥ jīvano jīvanāntakaḥ | yamo yamādiyamano yāmī yāmavidhāyakaḥ || 81||

  122. vasulī pāṃsulī pāṃsuḥ pāṇḍurarjunavallabhaḥ | lalitā candrikāmālī mālī mālāmbujāśrayaḥ || 82||

  123. ambujākṣo mahāyajñaḥ dakṣaḥ cintāmaṇiḥ prabhuḥ | maṇirdinamaṇiścaiva kedāro badarīśrayaḥ || 83||

  124. badarīvanasamprītaḥ vyāsaḥ satyavatīsutaḥ | amarārinihantā ca sudhāsindhuvidhūdayaḥ || 84||

  125. candro raviḥ śivaḥ śūlī cakrī caiva gadādharaḥ | śrīkartā śrīpatiḥ śrīdaḥ śrīdevo devakīsutaḥ || 85||

  126. śrīpatiḥ puṇḍarīkākṣaḥ padmanābho jagatpatiḥ | vāsudevo'prameyātmā keśavo garuḍadhvajaḥ || 86||

  127. nārāyaṇaḥ paraṃ dhāma devadevo maheśvaraḥ | cakrapāṇiḥ kalāpūrṇo vedavedyo dayānidhiḥ || 87||

  128. bhagavān sarvabhūteśo gopālaḥ sarvapālakaḥ | ananto nirguṇo nityo nirvikalpo nirañjanaḥ || 88||

  129. nirādhāro nirākāraḥ nirābhāso nirāśrayaḥ | puruṣaḥ praṇavātīto mukundaḥ parameśvaraḥ || 89||

  130. kṣaṇāvaniḥ sārvabhaumo vaikuṇṭho bhaktavatsalaḥ | viṣṇurdāmodaraḥ kṛṣṇo mādhavo mathurāpatiḥ || 90||

  131. devakīgarbhasambhūto yaśodāvatsalo hariḥ | śivaḥ saṅkarṣaṇaḥ śambhurbhūtanātho divaspatiḥ || 91||

  132. avyayaḥ sarvadharmajñaḥ nirmalo nirupadravaḥ | nirvāṇanāyako nityo nīlajīmūtasannibhaḥ || 92||

  133. kalākṣayaśca sarvajñaḥ kamalārūpatatparaḥ | hṛṣīkeśaḥ pītavāsā vasudevapriyātmajaḥ || 93||

  134. nandagopakumārāryaḥ navanītāśano vibhuḥ | purāṇapuruṣaḥ śreṣṭhaḥ śaṅkhapāṇiḥ suvikramaḥ || 94||

  135. aniruddhaścakrarathaḥ śārṅgapāṇiścaturbhujaḥ | gadādharaḥ surārtighno govindo nandakāyudhaḥ || 95||

  136. vṛndāvanacaraḥ śaurirveṇuvādyaviśāradaḥ | tṛṇāvartāntako bhīmasāhasī bahuvikramaḥ || 96||

  137. śakaṭāsurasaṃhārī bakāsuravināśanaḥ | dhenukāsurasaṃhārī pūtanārirnṛkesarī || 97||

  138. pitāmaho gurussākṣāt pratyagātmā sadāśivaḥ | aprameyaḥ prabhuḥ prājño'pratarkyaḥ svapnavarddhanaḥ || 98||

  139. dhanyo mānyo bhavo bhāvo dhīraḥ śānto jagadguruḥ | antaryāmīśvaro divyo daivajño devasaṃstutaḥ || 99||

  140. kṣīrābdhiśayano dhātā lakṣmīvāṃllakṣmaṇāgrajaḥ | dhātrīpatirameyātmā candraśekharapūjitaḥ || 100||

  141. lokasākṣī jagaccakṣuḥ puṇyacāritrakīrtanaḥ | koṭimanmathasaundaryaḥ jaganmohanavigrahaḥ || 101||

  142. mandasmitānano gopo gopikāpariveṣṭitaḥ | phullāravindanayanaḥ cāṇūrāndhraniṣūdanaḥ || 102||

  143. indīvaradalaśyāmo barhibarhāvataṃsakaḥ | muralīninadāhlādaḥ divyamālyāmbarāvṛtaḥ || 103||

  144. sukapolayugaḥ subhrūyugalaḥ sulalāṭakaḥ | kambugrīvo viśālākṣo lakṣmīvāñchubhalakṣaṇaḥ || 104||

  145. pīnavakṣāścaturbāhuścaturmūrtistrivikramaḥ | kalaṅkarahitaḥ śuddhaḥ duṣṭaśatrunibarhaṇaḥ || 105||

  146. kirīṭakuṇḍaladharaḥ kaṭakāṅgadamaṇḍitaḥ | mudrikābharaṇopetaḥ kaṭisūtravirājitaḥ || 106||

  147. mañjīrarañjitapadaḥ sarvābharaṇabhūṣitaḥ | vinyastapādayugalo divyamaṅgalavigrahaḥ || 107||

  148. gopikānayanānandaḥ pūrṇacandranibhānanaḥ | samastajagadānandaḥ sundaro lokanandanaḥ || 108||

  149. yamunātīrasañcārī rādhāmanmathavaibhavaḥ | gopanārīpriyo dānto gopīvastrāpahārakaḥ || 109||

  150. śṛṅgāramūrtiḥ śrīdhāmā tārako mūlakāraṇam | sṛṣṭisaṃrakṣaṇopāyaḥ krūrāsuravibhañjanaḥ || 110||

  151. narakāsurasaṃhārī murārirarimardanaḥ | āditeyapriyo daityabhīkaro yaduśekharaḥ || 111||

  152. jarāsandhakuladhvaṃsī kaṃsārātiḥ suvikramaḥ | puṇyaślokaḥ kīrtanīyaḥ yādavendro jagannutaḥ || 112||

  153. rukmiṇīramaṇaḥ satyabhāmājāmbavatīpriyaḥ | mitravindānāgnajitīlakṣmaṇāsamupāsitaḥ || 113||

  154. sudhākarakule jāto'nantaprabalavikramaḥ | sarvasaubhāgyasampanno dvārakāpattane sthitaḥ || 114||

  155. bhadrāsūryasutānātho līlāmānuṣavigrahaḥ | sahasraṣoḍaśastrīśo bhogamokṣaikadāyakaḥ || 115||

  156. vedāntavedyaḥ saṃvedyo vaidyo brahmāṇḍanāyakaḥ | govarddhanadharo nāthaḥ sarvajīvadayāparaḥ || 116||

  157. mūrtimān sarvabhūtātmā ārtatrāṇaparāyaṇaḥ | sarvajñaḥ sarvasulabhaḥ sarvaśāstraviśāradaḥ || 117||

  158. ṣaḍguṇaiśvaryasampannaḥ pūrṇakāmo dhurandharaḥ | mahānubhāvaḥ kaivalyadāyako lokanāyakaḥ || 118||

  159. ādimadhyāntarahitaḥ śuddhasāttvikavigrahaḥ | asamānaḥ samastātmā śaraṇāgatavatsalaḥ || 119||

  160. utpattisthitisaṃhārakāraṇaṃ sarvakāraṇam | gambhīraḥ sarvabhāvajñaḥ saccidānandavigrahaḥ || 120||

  161. viṣvaksenaḥ satyasandhaḥ satyavāk satyavikramaḥ | satyavrataḥ satyarataḥ sarvadharmaparāyaṇaḥ || 121||

  162. āpannārtipraśamanaḥ draupadīmānarakṣakaḥ | kandarpajanakaḥ prājño jagannāṭakavaibhavaḥ || 122||

  163. bhaktivaśyo guṇātītaḥ sarvaiśvaryapradāyakaḥ | damaghoṣasutadveṣī bāṇabāhuvikhaṇḍanaḥ || 123||

  164. bhīṣmabhaktiprado divyaḥ kauravānvayanāśanaḥ | kaunteyapriyabandhuśca pārthasyandanasārathiḥ || 124||

  165. nārasiṃho mahāvīraḥ stambhajāto mahābalaḥ | prahlādavaradaḥ satyo devapūjyo'bhayaṅkaraḥ || 125||

  166. upendra indrāvarajo vāmano balibandhanaḥ | gajendravaradaḥ svāmī sarvadevanamaskṛtaḥ || 126||

  167. śeṣaparyaṅkaśayanaḥ vainateyaratho jayī | avyāhatabalaiśvaryasampannaḥ pūrṇamānasaḥ || 127||

  168. yogeśvareśvaraḥ sākṣī kṣetrajño jñānadāyakaḥ | yogihṛtpaṅkajāvāso yogamāyāsamanvitaḥ || 128||

  169. nādabindukalātītaścaturvargaphalapradaḥ | suṣumnāmārgasañcārī dehasyāntarasaṃsthitaḥ || 129||

  170. dehendriyamanaḥprāṇasākṣī cetaḥprasādakaḥ | sūkṣmaḥ sarvagato dehī jñānadarpaṇagocaraḥ || 130||

  171. tattvatrayātmako'vyaktaḥ kuṇḍalī samupāśritaḥ | brahmaṇyaḥ sarvadharmajñaḥ śānto dānto gataklamaḥ || 131||

  172. śrīnivāsaḥ sadānandaḥ viśvamūrtirmahāprabhuḥ | sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 132||

  173. samastabhuvanādhāraḥ samastaprāṇarakṣakaḥ | samastasarvabhāvajño gopikāprāṇavallabhaḥ || 133||

  174. nityotsavo nityasaukhyo nityaśrīrnityamaṅgalaḥ | vyūhārcito jagannāthaḥ śrīvaikuṇṭhapurādhipaḥ || 134||

  175. pūrṇānandaghanībhūtaḥ gopaveṣadharo hariḥ | kalāpakusumaśyāmaḥ komalaḥ śāntavigrahaḥ || 135||

  176. gopāṅganāvṛto'nanto vṛndāvanasamāśrayaḥ | veṇuvādarataḥ śreṣṭho devānāṃ hitakārakaḥ || 136||

  177. bālakrīḍāsamāsakto navanītasya taskaraḥ | gopālakāminījāraścaurajāraśikhāmaṇiḥ || 137||

  178. parañjyotiḥ parākāśaḥ parāvāsaḥ parisphuṭaḥ | aṣṭādaśākṣaro mantro vyāpako lokapāvanaḥ || 138||

  179. saptakoṭimahāmantraśekharo devaśekharaḥ | vijñānajñānasandhānastejorāśirjagatpatiḥ || 139||

  180. bhaktalokaprasannātmā bhaktamandāravigrahaḥ | bhaktadāridryadamano bhaktānāṃ prītidāyakaḥ || 140||

  181. bhaktādhīnamanāḥ pūjyaḥ bhaktalokaśivaṅkaraḥ | bhaktābhīṣṭapradaḥ sarvabhaktāghaughanikṛntanaḥ || 141||

  182. apārakaruṇāsindhurbhagavān bhaktatatparaḥ || 142||

  183. || iti gopāla sahasranāmastotram sampūrṇam ||

  184. phalaśrutiḥ

    (|| gopālasahasranāma māhātmyam ||) smaraṇāt pāparāśīnāṃ khaṇḍanaṃ mṛtyunāśanam || 1 ||

  185. vaiṣṇavānāṃ priyakaraṃ mahāroganivāraṇam | brahmahatyāsurāpānaṃ parastrīgamanaṃ tathā || 2 ||

  186. paradravyāpaharaṇaṃ paradveṣasamanvitam | mānasaṃ vācikaṃ kāyaṃ yatpāpaṃ pāpasambhavam || 3 ||

  187. sahasranāmapaṭhanāt sarvaṃ naśyati tatkṣaṇāt | mahādāridryayukto yo vaiṣṇavo viṣṇubhaktimān || 4 ||

  188. kārtikyāṃ sampaṭhedrātrau śatamaṣṭottaraṃ kramāt | pītāmbaradharo dhīmān sugandhaiḥ puṣpacandanaiḥ || 5 ||

  189. pustakaṃ pūjayitvā tu naivedyādibhireva ca | rādhādhyānāṅkito dhīro vanamālāvibhūṣitaḥ || 6 ||

  190. śatamaṣṭottaraṃ devi paṭhennāmasahasrakam | caitraśukle ca kṛṣṇe ca kuhūsaṅkrāntivāsare || 7 ||

  191. paṭhitavyaṃ prayatnena trailokyaṃ mohayet kṣaṇāt | tulasīmālayā yukto vaiṣṇavo bhaktitatparaḥ || 8 ||

  192. ravivāre ca śukre ca dvādaśyāṃ śrāddhavāsare | brāhmaṇaṃ pūjayitvā ca bhojayitvā vidhānataḥ || 9 ||

  193. paṭhennāmasahasraṃ ca tataḥ siddhiḥ prajāyate | mahāniśāyāṃ satataṃ vaiṣṇavo yaḥ paṭhet sadā || 10 ||

  194. deśāntaragatā lakṣmīḥ samāyāti na saṃśayaḥ | trailokye ca mahādevi sundaryaḥ kāmamohitāḥ || 11 ||

  195. mugdhāḥ svayaṃ samāyānti vaiṣṇavaṃ ca bhajanti tāḥ | rogī rogāt pramucyeta baddho mucyeta bandhanāt || 12||

  196. gurviṇī janayetputraṃ kanyā vindati satpatim | rājāno vaśyatāṃ yānti kiṃ punaḥ kṣudramānavāḥ || 13||

  197. sahasranāmaśravaṇāt paṭhanāt pūjanāt priye | dhāraṇāt sarvamāpnoti vaiṣṇavo nātra saṃśayaḥ || 14||

  198. vaṃśīvaṭe cānyavaṭe tathā pippalake'tha vā | kadambapādapatale gopālamūrtisaṃnidhau || 15| yaḥ paṭhedvaiṣṇavo nityaṃ sa yāti harimandiram | kṛṣṇenoktaṃ rādhikāyai mayā proktaṃ tathā śive || 16||

  199. nāradāya mayā proktaṃ nāradena prakāśitam | mayā tubhyaṃ varārohe proktametatsudurlabham || 17||

  200. gopanīyaṃ prayatnena na prakāśyaṃ kathañcana | śaṭhāya pāpine caiva lampaṭāya viśeṣataḥ || 18||

  201. na dātavyaṃ na dātavyaṃ na dātavyaṃ kadācana | deyaṃ śiṣyāya śāntāya viṣṇubhaktiratāya ca || 19||

  202. godānabrahmayajñādervājapeyaśatasya ca | aśvamedhasahasrasya phalaṃ pāṭhe bhavet dhruvam || 20||

  203. mohanaṃ stambhanaṃ caiva māraṇoccāṭanādikam | yadyadvāñchati cittena tattatprāpnoti vaiṣṇavaḥ || 21||

  204. ekādaśyāṃ naraḥ snātvā sugandhidravyatailakaiḥ | āhāraṃ brāhmaṇe dattvā dakṣiṇāṃ svarṇabhūṣaṇam || 22||

  205. tata ārambhakartāsya sarvaṃ prāpnoti mānavaḥ | śatāvṛttaṃ sahasraṃ ca yaḥ paṭhedvaiṣṇavo janaḥ || 23||

  206. śrīvṛndāvanacandrasya prasādātsarvamāpnuyāt | yadgṛhe pustakaṃ devi pūjitaṃ caiva tiṣṭhati || 24||

  207. na mārī na ca durbhikṣaṃ nopasargabhayaṃ kvacit | sarpādyā bhūtayakṣādyā naśyante nātra saṃśayaḥ || 25||

  208. śrīgopālo mahādevi vasettasya gṛhe sadā | gṛhe yatra sahasraṃ ca nāmnāṃ tiṣṭhati pūjitam || 26||

  209. || oṃ tatsaditi śrīsammohanatantre pārvatīśvarasaṃvāde gopālasahasranāmastotraṃ sampūrṇam || >

How to use this page
  1. Tap Kirtan for large text that keeps the screen awake. Press Start to scroll while you sing; touch the screen to pause.

  2. Tap Aa to change the text size and line spacing, or to show both, lyrics only or translation only. Your choice is remembered.

  3. Under Read in, pick a script to read the same text in Devanagari, Bengali, Tamil, Telugu and more.

  4. Compare shows the lyrics side by side in two scripts, such as Devanagari and Roman, verse by verse. Choose any script or a translation for each column; on songs and prayers, Show meaning adds the meaning under each verse.

  5. Tap Save to keep this page under Your songs on the home page. Pages you open appear there too, on this device only.

  6. Share sends a link to this page. PDF makes a clean sheet without menus, to save or print.

  7. At the end, Previous and Next take you through the list in order.

All tips

Text: Sanskrit Wikisource (Sanskrit Wikisource contributors (history: https://sa.wikisource.org/w/index.php?title=%E0%A4%97%E0%A5%8B%E0%A4%AA%E0%A4%BE%E0%A4%B2%E0%A4%B8%E0%A4%B9%E0%A4%B8%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D&action=history)),CC BY-SA 4.0, retrieved 2026-10-26. Other scripts and the Roman transliteration are generated automatically.